१.७८.१वैशंपायन उवाच
१.७८.२श्रुत्वा कुमारं जातं तु देवयानी शुचिस्मिता
चिन्तयामास दुःखार्ता शर्मिष्ठां प्रति भारत
१.७८.३अभिगम्य च शर्मिष्ठां देवयान्यब्रवीदिदम्
किमिदं वृजिनं सुभ्रु कृतं ते कामलुब्धया
१.७८.४शर्मिष्ठोवाच
१.७८.५ऋषिरभ्यागतः कश्चिद्धर्मात्मा वेदपारगः
स मया वरदः कामं याचितो धर्मसंहितम्
१.७८.६नाहमन्यायतः काममाचरामि शुचिस्मिते
तस्मादृषेर्ममापत्यमिति सत्यं ब्रवीमि ते
१.७८.७देवयान्युवाच
१.७८.८शोभनं भीरु सत्यं चेदथ स ज्ञायते द्विजः
गोत्रनामाभिजनतो वेत्तुमिच्छामि तं द्विजम्
१.७८.९शर्मिष्ठोवाच
१.७८.१०ओजसा तेजसा चैव दीप्यमानं रविं यथा
तं दृष्ट्वा मम संप्रष्टुं शक्तिर्नासीच्छुचिस्मिते
१.७८.११देवयान्युवाच
१.७८.१२यद्येतदेवं शर्मिष्ठे न मन्युर्विद्यते मम
अपत्यं यदि ते लब्धं ज्येष्ठाच्छ्रेष्ठाच्च वै द्विजात्
१.७८.१३वैशंपायन उवाच
१.७८.१४अन्योन्यमेवमुक्त्वा च संप्रहस्य च ते मिथः
जगाम भार्गवी वेश्म तथ्यमित्येव जज्ञुषी
१.७८.१५ययातिर्देवयान्यां तु पुत्रावजनयन्नृपः
यदुं च तुर्वसुं चैव शक्रविष्णू इवापरौ
१.७८.१६तस्मादेव तु राजर्षेः शर्मिष्ठा वार्षपर्वणी
द्रुह्युं चानुं च पूरुं च त्रीन्कुमारानजीजनत्
१.७८.१७ततः काले तु कस्मिंश्चिद्देवयानी शुचिस्मिता
ययातिसहिता राजन्निर्जगाम महावनम्
१.७८.१८ददर्श च तदा तत्र कुमारान्देवरूपिणः
क्रीडमानान्सुविश्रब्धान्विस्मिता चेदमब्रवीत्
१.७८.१९कस्यैते दारका राजन्देवपुत्रोपमाः शुभाः
वर्चसा रूपतश्चैव सदृशा मे मतास्तव
१.७८.२०एवं पृष्ट्वा तु राजानं कुमारान्पर्यपृच्छत
किंनामधेयगोत्रो वः पुत्रका ब्राह्मणः पिता
विब्रूत मे यथातथ्यं श्रोतुमिच्छामि तं ह्यहम्
१.७८.२१तेऽदर्शयन्प्रदेशिन्या तमेव नृपसत्तमम्
शर्मिष्ठां मातरं चैव तस्याचख्युश्च दारकाः
१.७८.२२इत्युक्त्वा सहितास्ते तु राजानमुपचक्रमुः
नाभ्यनन्दत तान्राजा देवयान्यास्तदान्तिके
रुदन्तस्तेऽथ शर्मिष्ठामभ्ययुर्बालकास्ततः
१.७८.२३दृष्ट्वा तु तेषां बालानां प्रणयं पार्थिवं प्रति
बुद्ध्वा च तत्त्वतो देवी शर्मिष्ठामिदमब्रवीत्
१.७८.२४मदधीना सती कस्मादकार्षीर्विप्रियं मम
तमेवासुरधर्मं त्वमास्थिता न बिभेषि किम्
१.७८.२५शर्मिष्ठोवाच
१.७८.२६यदुक्तमृषिरित्येव तत्सत्यं चारुहासिनि
न्यायतो धर्मतश्चैव चरन्ती न बिभेमि ते
१.७८.२७यदा त्वया वृतो राजा वृत एव तदा मया
सखीभर्ता हि धर्मेण भर्ता भवति शोभने
१.७८.२८पूज्यासि मम मान्या च ज्येष्ठा श्रेष्ठा च ब्राह्मणी
त्वत्तोऽपि मे पूज्यतमो राजर्षिः किं न वेत्थ तत्
१.७८.२९वैशंपायन उवाच
१.७८.३०श्रुत्वा तस्यास्ततो वाक्यं देवयान्यब्रवीदिदम्
राजन्नाद्येह वत्स्यामि विप्रियं मे कृतं त्वया
१.७८.३१सहसोत्पतितां श्यामां दृष्ट्वा तां साश्रुलोचनाम्
त्वरितं सकाशं काव्यस्य प्रस्थितां व्यथितस्तदा
१.७८.३२अनुवव्राज संभ्रान्तः पृष्ठतः सान्त्वयन्नृपः
न्यवर्तत न चैव स्म क्रोधसंरक्तलोचना
१.७८.३३अविब्रुवन्ती किंचित्तु राजानं चारुलोचना
अचिरादिव संप्राप्ता काव्यस्योशनसोऽन्तिकम्
१.७८.३४सा तु दृष्ट्वैव पितरमभिवाद्याग्रतः स्थिता
अनन्तरं ययातिस्तु पूजयामास भार्गवम्
१.७८.३५देवयान्युवाच
१.७८.३६अधर्मेण जितो धर्मः प्रवृत्तमधरोत्तरम्
शर्मिष्ठयातिवृत्तास्मि दुहित्रा वृषपर्वणः
१.७८.३७त्रयोऽस्यां जनिताः पुत्रा राज्ञानेन ययातिना
दुर्भगाया मम द्वौ तु पुत्रौ तात ब्रवीमि ते
१.७८.३८धर्मज्ञ इति विख्यात एष राजा भृगूद्वह
अतिक्रान्तश्च मर्यादां काव्यैतत्कथयामि ते
१.७८.३९शुक्र उवाच
१.७८.४०धर्मज्ञः सन्महाराज योऽधर्ममकृथाः प्रियम्
तस्माज्जरा त्वामचिराद्धर्षयिष्यति दुर्जया
१.७८.४१ययातिरुवाच
१.७८.४२ऋतुं वै याचमानाया भगवन्नान्यचेतसा
दुहितुर्दानवेन्द्रस्य धर्म्यमेतत्कृतं मया
१.७८.४३ऋतुं वै याचमानाया न ददाति पुमान्वृतः
भ्रूणहेत्युच्यते ब्रह्मन्स इह ब्रह्मवादिभिः
१.७८.४४अभिकामां स्त्रियं यस्तु गम्यां रहसि याचितः
नोपैति स च धर्मेषु भ्रूणहेत्युच्यते बुधैः
१.७८.४५इत्येतानि समीक्ष्याहं कारणानि भृगूद्वह
अधर्मभयसंविग्नः शर्मिष्ठामुपजग्मिवान्
१.७८.४६शुक्र उवाच
१.७८.४७नन्वहं प्रत्यवेक्ष्यस्ते मदधीनोऽसि पार्थिव
मिथ्याचारस्य धर्मेषु चौर्यं भवति नाहुष
१.७८.४८वैशंपायन उवाच
१.७८.४९क्रुद्धेनोशनसा शप्तो ययातिर्नाहुषस्तदा
पूर्वं वयः परित्यज्य जरां सद्योऽन्वपद्यत
१.७८.५०ययातिरुवाच
१.७८.५१अतृप्तो यौवनस्याहं देवयान्यां भृगूद्वह
प्रसादं कुरु मे ब्रह्मञ्जरेयं मा विशेत माम्
१.७८.५२शुक्र उवाच
१.७८.५३नाहं मृषा ब्रवीम्येतज्जरां प्राप्तोऽसि भूमिप
जरां त्वेतां त्वमन्यस्मै संक्रामय यदीच्छसि
१.७८.५४ययातिरुवाच
१.७८.५५राज्यभाक्स भवेद्ब्रह्मन्पुण्यभाक्कीर्तिभाक्तथा
यो मे दद्याद्वयः पुत्रस्तद्भवाननुमन्यताम्
१.७८.५६शुक्र उवाच
१.७८.५७संक्रामयिष्यसि जरां यथेष्टं नहुषात्मज
मामनुध्याय भावेन न च पापमवाप्स्यसि
१.७८.५८वयो दास्यति ते पुत्रो यः स राजा भविष्यति
आयुष्मान्कीर्तिमांश्चैव बह्वपत्यस्तथैव च