१. आदिपर्व
१.७९.१वैशंपायन उवाच

१.७९.२जरां प्राप्य ययातिस्तु स्वपुरं प्राप्य चैव ह
पुत्रं ज्येष्ठं वरिष्ठं च यदुमित्यब्रवीद्वचः

१.७९.३जरा वली च मां तात पलितानि च पर्यगुः
काव्यस्योशनसः शापान्न च तृप्तोऽस्मि यौवने

१.७९.४त्वं यदो प्रतिपद्यस्व पाप्मानं जरया सह
यौवनेन त्वदीयेन चरेयं विषयानहम्

१.७९.५पूर्णे वर्षसहस्रे तु पुनस्ते यौवनं त्वहम्
दत्त्वा स्वं प्रतिपत्स्यामि पाप्मानं जरया सह

१.७९.६यदुरुवाच

१.७९.७सितश्मश्रुशिरा दीनो जरया शिथिलीकृतः
वलीसंततगात्रश्च दुर्दर्शो दुर्बलः कृशः

१.७९.८अशक्तः कार्यकरणे परिभूतः स यौवनैः
सहोपजीविभिश्चैव तां जरां नाभिकामये

१.७९.९ययातिरुवाच

१.७९.१०यत्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि
तस्मादराज्यभाक्तात प्रजा ते वै भविष्यति

१.७९.११तुर्वसो प्रतिपद्यस्व पाप्मानं जरया सह
यौवनेन चरेयं वै विषयांस्तव पुत्रक

१.७९.१२पूर्णे वर्षसहस्रे तु पुनर्दास्यामि यौवनम्
स्वं चैव प्रतिपत्स्यामि पाप्मानं जरया सह

१.७९.१३तुर्वसुरुवाच

१.७९.१४न कामये जरां तात कामभोगप्रणाशिनीम्
बलरूपान्तकरणीं बुद्धिप्राणविनाशिनीम्

१.७९.१५ययातिरुवाच

१.७९.१६यत्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि
तस्मात्प्रजा समुच्छेदं तुर्वसो तव यास्यति

१.७९.१७संकीर्णाचारधर्मेषु प्रतिलोमचरेषु च
पिशिताशिषु चान्त्येषु मूढ राजा भविष्यसि

१.७९.१८गुरुदारप्रसक्तेषु तिर्यग्योनिगतेषु च
पशुधर्मिषु पापेषु म्लेच्छेषु प्रभविष्यसि

१.७९.१९वैशंपायन उवाच

१.७९.२०एवं स तुर्वसुं शप्त्वा ययातिः सुतमात्मनः
शर्मिष्ठायाः सुतं द्रुह्युमिदं वचनमब्रवीत्

१.७९.२१द्रुह्यो त्वं प्रतिपद्यस्व वर्णरूपविनाशिनीम्
जरां वर्षसहस्रं मे यौवनं स्वं ददस्व च

१.७९.२२पूर्णे वर्षसहस्रे तु प्रतिदास्यामि यौवनम्
स्वं चादास्यामि भूयोऽहं पाप्मानं जरया सह

१.७९.२३द्रुह्युरुवाच

१.७९.२४न गजं न रथं नाश्वं जीर्णो भुङ्क्ते न च स्त्रियम्
वाग्भङ्गश्चास्य भवति तज्जरां नाभिकामये

१.७९.२५ययातिरुवाच

१.७९.२६यत्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि
तस्माद्द्रुह्यो प्रियः कामो न ते संपत्स्यते क्वचित्

१.७९.२७उडुपप्लवसंतारो यत्र नित्यं भविष्यति
अराजा भोजशब्दं त्वं तत्रावाप्स्यसि सान्वयः

१.७९.२८अनो त्वं प्रतिपद्यस्व पाप्मानं जरया सह
एकं वर्षसहस्रं तु चरेयं यौवनेन ते

१.७९.२९अनुरुवाच

१.७९.३०जीर्णः शिशुवदादत्तेऽकालेऽन्नमशुचिर्यथा
न जुहोति च कालेऽग्निं तां जरां नाभिकामये

१.७९.३१ययातिरुवाच

१.७९.३२यत्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि
जरादोषस्त्वयोक्तोऽयं तस्मात्त्वं प्रतिपत्स्यसे

१.७९.३३प्रजाश्च यौवनप्राप्ता विनशिष्यन्त्यनो तव
अग्निप्रस्कन्दनपरस्त्वं चाप्येवं भविष्यसि

१.७९.३४पूरो त्वं मे प्रियः पुत्रस्त्वं वरीयान्भविष्यसि
जरा वली च मे तात पलितानि च पर्यगुः
काव्यस्योशनसः शापान्न च तृप्तोऽस्मि यौवने

१.७९.३५पूरो त्वं प्रतिपद्यस्व पाप्मानं जरया सह
कंचित्कालं चरेयं वै विषयान्वयसा तव

१.७९.३६पूर्णे वर्षसहस्रे तु प्रतिदास्यामि यौवनम्
स्वं चैव प्रतिपत्स्यामि पाप्मानं जरया सह

१.७९.३७वैशंपायन उवाच

१.७९.३८एवमुक्तः प्रत्युवाच पूरुः पितरमञ्जसा
यथात्थ मां महाराज तत्करिष्यामि ते वचः

१.७९.३९प्रतिपत्स्यामि ते राजन्पाप्मानं जरया सह
गृहाण यौवनं मत्तश्चर कामान्यथेप्सितान्

१.७९.४०जरयाहं प्रतिच्छन्नो वयोरूपधरस्तव
यौवनं भवते दत्त्वा चरिष्यामि यथात्थ माम्

१.७९.४१ययातिरुवाच

१.७९.४२पूरो प्रीतोऽस्मि ते वत्स प्रीतश्चेदं ददामि ते
सर्वकामसमृद्धा ते प्रजा राज्ये भविष्यति