१. आदिपर्व
१.८०.१वैशंपायन उवाच

१.८०.२पौरवेणाथ वयसा ययातिर्नहुषात्मजः
प्रीतियुक्तो नृपश्रेष्ठश्चचार विषयान्प्रियान्

१.८०.३यथाकामं यथोत्साहं यथाकालं यथासुखम्
धर्माविरुद्धान्राजेन्द्रो यथार्हति स एव हि

१.८०.४देवानतर्पयद्यज्ञैः श्राद्धैस्तद्वत्पितॄनपि
दीनाननुग्रहैरिष्टैः कामैश्च द्विजसत्तमान्

१.८०.५अतिथीनन्नपानैश्च विशश्च परिपालनैः
आनृशंस्येन शूद्रांश्च दस्यून्संनिग्रहेण च

१.८०.६धर्मेण च प्रजाः सर्वा यथावदनुरञ्जयन्
ययातिः पालयामास साक्षादिन्द्र इवापरः

१.८०.७स राजा सिंहविक्रान्तो युवा विषयगोचरः
अविरोधेन धर्मस्य चचार सुखमुत्तमम्

१.८०.८स संप्राप्य शुभान्कामांस्तृप्तः खिन्नश्च पार्थिवः
कालं वर्षसहस्रान्तं सस्मार मनुजाधिपः

१.८०.९परिसंख्याय कालज्ञः कलाः काष्ठाश्च वीर्यवान्
पूर्णं मत्वा ततः कालं पूरुं पुत्रमुवाच ह

१.८०.१०यथाकामं यथोत्साहं यथाकालमरिंदम
सेविता विषयाः पुत्र यौवनेन मया तव

१.८०.११पूरो प्रीतोऽस्मि भद्रं ते गृहाणेदं स्वयौवनम्
राज्यं चैव गृहाणेदं त्वं हि मे प्रियकृत्सुतः

१.८०.१२प्रतिपेदे जरां राजा ययातिर्नाहुषस्तदा
यौवनं प्रतिपेदे च पूरुः स्वं पुनरात्मनः

१.८०.१३अभिषेक्तुकामं नृपतिं पूरुं पुत्रं कनीयसम्
ब्राह्मणप्रमुखा वर्णा इदं वचनमब्रुवन्

१.८०.१४कथं शुक्रस्य नप्तारं देवयान्याः सुतं प्रभो
ज्येष्ठं यदुमतिक्रम्य राज्यं पूरोः प्रदास्यसि

१.८०.१५यदुर्ज्येष्ठस्तव सुतो जातस्तमनु तुर्वसुः
शर्मिष्ठायाः सुतो द्रुह्युस्ततोऽनुः पूरुरेव च

१.८०.१६कथं ज्येष्ठानतिक्रम्य कनीयान्राज्यमर्हति
एतत्संबोधयामस्त्वां धर्मं त्वमनुपालय

१.८०.१७ययातिरुवाच

१.८०.१८ब्राह्मणप्रमुखा वर्णाः सर्वे शृण्वन्तु मे वचः
ज्येष्ठं प्रति यथा राज्यं न देयं मे कथंचन

१.८०.१९मम ज्येष्ठेन यदुना नियोगो नानुपालितः
प्रतिकूलः पितुर्यश्च न स पुत्रः सतां मतः

१.८०.२०मातापित्रोर्वचनकृद्धितः पथ्यश्च यः सुतः
स पुत्रः पुत्रवद्यश्च वर्तते पितृमातृषु

१.८०.२१यदुनाहमवज्ञातस्तथा तुर्वसुनापि च
द्रुह्युना चानुना चैव मय्यवज्ञा कृता भृशम्

१.८०.२२पूरुणा मे कृतं वाक्यं मानितश्च विशेषतः
कनीयान्मम दायादो जरा येन धृता मम
मम कामः स च कृतः पूरुणा पुत्ररूपिणा

१.८०.२३शुक्रेण च वरो दत्तः काव्येनोशनसा स्वयम्
पुत्रो यस्त्वानुवर्तेत स राजा पृथिवीपतिः
भवतोऽनुनयाम्येवं पूरू राज्येऽभिषिच्यताम्

१.८०.२४प्रकृतय ऊचुः

१.८०.२५यः पुत्रो गुणसंपन्नो मातापित्रोर्हितः सदा
सर्वमर्हति कल्याणं कनीयानपि स प्रभो

१.८०.२६अर्हः पूरुरिदं राज्यं यः सुतः प्रियकृत्तव
वरदानेन शुक्रस्य न शक्यं वक्तुमुत्तरम्

१.८०.२७वैशंपायन उवाच

१.८०.२८पौरजानपदैस्तुष्टैरित्युक्तो नाहुषस्तदा
अभ्यषिञ्चत्ततः पूरुं राज्ये स्वे सुतमात्मजम्

१.८०.२९दत्त्वा च पूरवे राज्यं वनवासाय दीक्षितः
पुरात्स निर्ययौ राजा ब्राह्मणैस्तापसैः सह

१.८०.३०यदोस्तु यादवा जातास्तुर्वसोर्यवनाः सुताः
द्रुह्योरपि सुता भोजा अनोस्तु म्लेच्छजातयः

१.८०.३१पूरोस्तु पौरवो वंशो यत्र जातोऽसि पार्थिव
इदं वर्षसहस्राय राज्यं कारयितुं वशी