१.८१.१वैशंपायन उवाच
१.८१.२एवं स नाहुषो राजा ययातिः पुत्रमीप्सितम्
राज्येऽभिषिच्य मुदितो वानप्रस्थोऽभवन्मुनिः
१.८१.३उषित्वा च वने वासं ब्राह्मणैः सह संश्रितः
फलमूलाशनो दान्तो यथा स्वर्गमितो गतः
१.८१.४स गतः सुरवासं तं निवसन्मुदितः सुखम्
कालस्य नातिमहतः पुनः शक्रेण पातितः
१.८१.५निपतन्प्रच्युतः स्वर्गादप्राप्तो मेदिनीतलम्
स्थित आसीदन्तरिक्षे स तदेति श्रुतं मया
१.८१.६तत एव पुनश्चापि गतः स्वर्गमिति श्रुतिः
राज्ञा वसुमता सार्धमष्टकेन च वीर्यवान्
प्रतर्दनेन शिबिना समेत्य किल संसदि
१.८१.७जनमेजय उवाच
१.८१.८कर्मणा केन स दिवं पुनः प्राप्तो महीपतिः
सर्वमेतदशेषेण श्रोतुमिच्छामि तत्त्वतः
कथ्यमानं त्वया विप्र विप्रर्षिगणसंनिधौ
१.८१.९देवराजसमो ह्यासीद्ययातिः पृथिवीपतिः
वर्धनः कुरुवंशस्य विभावसुसमद्युतिः
१.८१.१०तस्य विस्तीर्णयशसः सत्यकीर्तेर्महात्मनः
चरितं श्रोतुमिच्छामि दिवि चेह च सर्वशः
१.८१.११वैशंपायन उवाच
१.८१.१२हन्त ते कथयिष्यामि ययातेरुत्तरां कथाम्
दिवि चेह च पुण्यार्थां सर्वपापप्रणाशिनीम्
१.८१.१३ययातिर्नाहुषो राजा पूरुं पुत्रं कनीयसम्
राज्येऽभिषिच्य मुदितः प्रवव्राज वनं तदा
१.८१.१४अन्तेषु स विनिक्षिप्य पुत्रान्यदुपुरोगमान्
फलमूलाशनो राजा वने संन्यवसच्चिरम्
१.८१.१५संशितात्मा जितक्रोधस्तर्पयन्पितृदेवताः
अग्नींश्च विधिवज्जुह्वन्वानप्रस्थविधानतः
१.८१.१६अतिथीन्पूजयामास वन्येन हविषा विभुः
शिलोञ्छवृत्तिमास्थाय शेषान्नकृतभोजनः
१.८१.१७पूर्णं वर्षसहस्रं स एवंवृत्तिरभून्नृपः
अब्भक्षः शरदस्त्रिंशदासीन्नियतवाङ्मनाः
१.८१.१८ततश्च वायुभक्षोऽभूत्संवत्सरमतन्द्रितः
पञ्चाग्निमध्ये च तपस्तेपे संवत्सरं नृपः
१.८१.१९एकपादस्थितश्चासीत्षण्मासाननिलाशनः
पुण्यकीर्तिस्ततः स्वर्गं जगामावृत्य रोदसी