१.८२.१वैशंपायन उवाच
१.८२.२स्वर्गतः स तु राजेन्द्रो निवसन्देवसद्मनि
पूजितस्त्रिदशैः साध्यैर्मरुद्भिर्वसुभिस्तथा
१.८२.३देवलोकाद्ब्रह्मलोकं संचरन्पुण्यकृद्वशी
अवसत्पृथिवीपालो दीर्घकालमिति श्रुतिः
१.८२.४स कदाचिन्नृपश्रेष्ठो ययातिः शक्रमागमत्
कथान्ते तत्र शक्रेण पृष्टः स पृथिवीपतिः
१.८२.५शक्र उवाच
१.८२.६यदा स पूरुस्तव रूपेण राज;ञ्जरां गृहीत्वा प्रचचार भूमौ
तदा राज्यं संप्रदायैव तस्मै; त्वया किमुक्तः कथयेह सत्यम्
१.८२.७ययातिरुवाच
१.८२.८गङ्गायमुनयोर्मध्ये कृत्स्नोऽयं विषयस्तव
मध्ये पृथिव्यास्त्वं राजा भ्रातरोऽन्त्याधिपास्तव
१.८२.९अक्रोधनः क्रोधनेभ्यो विशिष्ट;स्तथा तितिक्षुरतितिक्षोर्विशिष्टः
अमानुषेभ्यो मानुषाश्च प्रधाना; विद्वांस्तथैवाविदुषः प्रधानः
१.८२.१०आक्रुश्यमानो नाक्रोशेन्मन्युरेव तितिक्षतः
आक्रोष्टारं निर्दहति सुकृतं चास्य विन्दति
१.८२.११नारुंतुदः स्यान्न नृशंसवादी; न हीनतः परमभ्याददीत
ययास्य वाचा पर उद्विजेत; न तां वदेद्रुशतीं पापलोक्याम्
१.८२.१२अरुंतुदं पुरुषं रूक्षवाचं; वाक्कण्टकैर्वितुदन्तं मनुष्यान्
विद्यादलक्ष्मीकतमं जनानां; मुखे निबद्धां निरृतिं वहन्तम्
१.८२.१३सद्भिः पुरस्तादभिपूजितः स्या;त्सद्भिस्तथा पृष्ठतो रक्षितः स्यात्
सदासतामतिवादांस्तितिक्षे;त्सतां वृत्तं चाददीतार्यवृत्तः
१.८२.१४वाक्सायका वदनान्निष्पतन्ति; यैराहतः शोचति रात्र्यहानि
परस्य वा मर्मसु ये पतन्ति; तान्पण्डितो नावसृजेत्परेषु
१.८२.१५न हीदृशं संवननं त्रिषु लोकेषु विद्यते
यथा मैत्री च भूतेषु दानं च मधुरा च वाक्
१.८२.१६तस्मात्सान्त्वं सदा वाच्यं न वाच्यं परुषं क्वचित्
पूज्यान्संपूजयेद्दद्यान्न च याचेत्कदाचन