१.८३.१इन्द्र उवाच
१.८३.२सर्वाणि कर्माणि समाप्य राज;न्गृहान्परित्यज्य वनं गतोऽसि
तत्त्वां पृच्छामि नहुषस्य पुत्र; केनासि तुल्यस्तपसा ययाते
१.८३.३ययातिरुवाच
१.८३.४नाहं देवमनुष्येषु न गन्धर्वमहर्षिषु
आत्मनस्तपसा तुल्यं कंचित्पश्यामि वासव
१.८३.५इन्द्र उवाच
१.८३.६यदावमंस्थाः सदृशः श्रेयसश्च; पापीयसश्चाविदितप्रभावः
तस्माल्लोका अन्तवन्तस्तवेमे; क्षीणे पुण्ये पतितास्यद्य राजन्
१.८३.७ययातिरुवाच
१.८३.८सुरर्षिगन्धर्वनरावमाना;त्क्षयं गता मे यदि शक्र लोकाः
इच्छेयं वै सुरलोकाद्विहीनः; सतां मध्ये पतितुं देवराज
१.८३.९इन्द्र उवाच
१.८३.१०सतां सकाशे पतितासि राजं;श्च्युतः प्रतिष्ठां यत्र लब्धासि भूयः
एवं विदित्वा तु पुनर्ययाते; न तेऽवमान्याः सदृशः श्रेयसश्च
१.८३.११वैशंपायन उवाच
१.८३.१२ततः प्रहायामरराजजुष्टा;न्पुण्याँल्लोकान्पतमानं ययातिम्
संप्रेक्ष्य राजर्षिवरोऽष्टकस्त;मुवाच सद्धर्मविधानगोप्ता
१.८३.१३कस्त्वं युवा वासवतुल्यरूपः; स्वतेजसा दीप्यमानो यथाग्निः
पतस्युदीर्णाम्बुधरान्धकारा;त्खात्खेचराणां प्रवरो यथार्कः
१.८३.१४दृष्ट्वा च त्वां सूर्यपथात्पतन्तं; वैश्वानरार्कद्युतिमप्रमेयम्
किं नु स्विदेतत्पततीति सर्वे; वितर्कयन्तः परिमोहिताः स्मः
१.८३.१५दृष्ट्वा च त्वां विष्ठितं देवमार्गे; शक्रार्कविष्णुप्रतिमप्रभावम्
अभ्युद्गतास्त्वां वयमद्य सर्वे; तत्त्वं पाते तव जिज्ञासमानाः
१.८३.१६न चापि त्वां धृष्णुमः प्रष्टुमग्रे; न च त्वमस्मान्पृच्छसि ये वयं स्मः
तत्त्वां पृच्छामः स्पृहणीयरूपं; कस्य त्वं वा किंनिमित्तं त्वमागाः
१.८३.१७भयं तु ते व्येतु विषादमोहौ; त्यजाशु देवेन्द्रसमानरूप
त्वां वर्तमानं हि सतां सकाशे; नालं प्रसोढुं बलहापि शक्रः
१.८३.१८सन्तः प्रतिष्ठा हि सुखच्युतानां; सतां सदैवामरराजकल्प
ते संगताः स्थावरजङ्गमेशाः; प्रतिष्ठितस्त्वं सदृशेषु सत्सु
१.८३.१९प्रभुरग्निः प्रतपने भूमिरावपने प्रभुः
प्रभुः सूर्यः प्रकाशित्वे सतां चाभ्यागतः प्रभुः