१.९०.१जनमेजय उवाच
१.९०.२श्रुतस्त्वत्तो मया विप्र पूर्वेषां संभवो महान्
उदाराश्चापि वंशेऽस्मिन्राजानो मे परिश्रुताः
१.९०.३किं तु लघ्वर्थसंयुक्तं प्रियाख्यानं न मामति
प्रीणात्यतो भवान्भूयो विस्तरेण ब्रवीतु मे
१.९०.४एतामेव कथां दिव्यामा प्रजापतितो मनोः
तेषामाजननं पुण्यं कस्य न प्रीतिमावहेत्
१.९०.५सद्धर्मगुणमाहात्म्यैरभिवर्धितमुत्तमम्
विष्टभ्य लोकांस्त्रीनेषां यशः स्फीतमवस्थितम्
१.९०.६गुणप्रभाववीर्यौजःसत्त्वोत्साहवतामहम्
न तृप्यामि कथां शृण्वन्नमृतास्वादसंमिताम्
१.९०.७वैशंपायन उवाच
१.९०.८शृणु राजन्पुरा सम्यङ्मया द्वैपायनाच्छ्रुतम्
प्रोच्यमानमिदं कृत्स्नं स्ववंशजननं शुभम्
१.९०.९दक्षस्यादितिः
अदितेर्विवस्वान्
विवस्वतो मनुः
मनोरिला
इलायाः पुरूरवाः
पुरूरवस आयुः
आयुषो नहुषः
नहुषस्य ययातिः
१.९०.१०ययातेर्द्वे भार्ये बभूवतुः
उशनसो दुहिता देवयानी वृषपर्वणश्च दुहिता शर्मिष्ठा नाम
अत्रानुवंशो भवति
१.९०.११यदुं च तुर्वसुं चैव देवयानी व्यजायत
द्रुह्युं चानुं च पूरुं च शर्मिष्ठा वार्षपर्वणी
१.९०.१२तत्र यदोर्यादवाः
पूरोः पौरवाः
१.९०.१३पूरोर्भार्या कौसल्या नाम
तस्यामस्य जज्ञे जनमेजयो नाम
यस्त्रीनश्वमेधानाजहार
विश्वजिता चेष्ट्वा वनं प्रविवेश
१.९०.१४जनमेजयः खल्वनन्तां नामोपयेमे माधवीम्
तस्यामस्य जज्ञे प्राचिन्वान्
यः प्राचीं दिशं जिगाय यावत्सूर्योदयात्
ततस्तस्य प्राचिन्वत्वम्
१.९०.१५प्राचिन्वान्खल्वश्मकीमुपयेमे
तस्यामस्य जज्ञे संयातिः
१.९०.१६संयातिः खलु दृषद्वतो दुहितरं वराङ्गीं नामोपयेमे
तस्यामस्य जज्ञे अहंपातिः
१.९०.१७अहंपातिस्तु खलु कृतवीर्यदुहितरमुपयेमे भानुमतीं नाम
तस्यामस्य जज्ञे सार्वभौमः
१.९०.१८सार्वभौमः खलु जित्वाजहार कैकेयीं सुनन्दां नाम
तस्यामस्य जज्ञे जयत्सेनः
१.९०.१९जयत्सेनः खलु वैदर्भीमुपयेमे सुषुवां नाम
तस्यामस्य जज्ञे अराचीनः
१.९०.२०अराचीनोऽपि वैदर्भीमेवापरामुपयेमे मर्यादां नाम
तस्यामस्य जज्ञे महाभौमः
१.९०.२१महाभौमः खलु प्रासेनजितीमुपयेमे सुयज्ञां नाम
तस्यामस्य जज्ञे अयुतनायी
यः पुरुषमेधानामयुतमानयत्
तदस्यायुतनायित्वम्
१.९०.२२अयुतनायी खलु पृथुश्रवसो दुहितरमुपयेमे भासां नाम
तस्यामस्य जज्ञे अक्रोधनः
१.९०.२३अक्रोधनः खलु कालिङ्गीं करण्डुं नामोपयेमे
तस्यामस्य जज्ञे देवातिथिः
१.९०.२४देवातिथिः खलु वैदेहीमुपयेमे मर्यादां नाम
तस्यामस्य जज्ञे ऋचः
१.९०.२५ऋचः खल्वाङ्गेयीमुपयेमे सुदेवां नाम
तस्यां पुत्रमजनयदृक्षम्
१.९०.२६ऋक्षः खलु तक्षकदुहितरमुपयेमे ज्वालां नाम
तस्यां पुत्रं मतिनारं नामोत्पादयामास
१.९०.२७मतिनारः खलु सरस्वत्यां द्वादशवार्षिकं सत्रमाजहार
१.९०.२८निवृत्ते च सत्रे सरस्वत्यभिगम्य तं भर्तारं वरयामास
तस्यां पुत्रमजनयत्तंसुं नाम
१.९०.२९अत्रानुवंशो भवति
१.९०.३०तंसुं सरस्वती पुत्रं मतिनारादजीजनत्
इलिनं जनयामास कालिन्द्यां तंसुरात्मजम्
१.९०.३१इलिनस्तु रथंतर्यां दुःषन्ताद्यान्पञ्च पुत्रानजनयत्
१.९०.३२दुःषन्तः खलु विश्वामित्रदुहितरं शकुन्तलां नामोपयेमे
तस्यामस्य जज्ञे भरतः
तत्र श्लोकौ भवतः
१.९०.३३माता भस्त्रा पितुः पुत्रो येन जातः स एव सः
भरस्व पुत्रं दुःषन्त मावमंस्थाः शकुन्तलाम्
१.९०.३४रेतोधाः पुत्र उन्नयति नरदेव यमक्षयात्
त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला
१.९०.३५ततोऽस्य भरतत्वम्
१.९०.३६भरतः खलु काशेयीमुपयेमे सार्वसेनीं सुनन्दां नाम
तस्यामस्य जज्ञे भुमन्युः
१.९०.३७भुमन्युः खलु दाशार्हीमुपयेमे जयां नाम
तस्यामस्य जज्ञे सुहोत्रः
१.९०.३८सुहोत्रः खल्विक्ष्वाकुकन्यामुपयेमे सुवर्णां नाम
तस्यामस्य जज्ञे हस्ती
य इदं हास्तिनपुरं मापयामास
एतदस्य हास्तिनपुरत्वम्
१.९०.३९हस्ती खलु त्रैगर्तीमुपयेमे यशोधरां नाम
तस्यामस्य जज्ञे विकुण्ठनः
१.९०.४०विकुण्ठनः खलु दाशार्हीमुपयेमे सुदेवां नाम
तस्यामस्य जज्ञेऽजमीढः
१.९०.४१अजमीढस्य चतुर्विंशं पुत्रशतं बभूव कैकेय्यां नागायां गान्धार्यां विमलायामृक्षायां चेति
पृथक्पृथग्वंशकरा नृपतयः
तत्र वंशकरः संवरणः
१.९०.४२संवरणः खलु वैवस्वतीं तपतीं नामोपयेमे
तस्यामस्य जज्ञे कुरुः
१.९०.४३कुरुः खलु दाशार्हीमुपयेमे शुभाङ्गीं नाम
तस्यामस्य जज्ञे विडूरथः
१.९०.४४विडूरथस्तु मागधीमुपयेमे संप्रियां नाम
तस्यामस्य जज्ञेऽरुग्वान्नाम
१.९०.४५अरुग्वान्खलु मागधीमुपयेमेऽमृतां नाम
तस्यामस्य जज्ञे परिक्षित्
१.९०.४६परिक्षित्खलु बाहुदामुपयेमे सुयशां नाम
तस्यामस्य जज्ञे भीमसेनः
१.९०.४७भीमसेनः खलु कैकेयीमुपयेमे सुकुमारीं नाम
तस्यामस्य जज्ञे पर्यश्रवाः
यमाहुः प्रतीपं नाम
१.९०.४८प्रतीपः खलु शैब्यामुपयेमे सुनन्दां नाम
तस्यां पुत्रानुत्पादयामास देवापिं शंतनुं बाह्लीकं चेति
१.९०.४९देवापिः खलु बाल एवारण्यं प्रविवेश
शंतनुस्तु महीपालोऽभवत्
अत्रानुवंशो भवति
१.९०.५०यं यं कराभ्यां स्पृशति जीर्णं स सुखमश्नुते
पुनर्युवा च भवति तस्मात्तं शंतनुं विदुः
१.९०.५१तदस्य शंतनुत्वम्
१.९०.५२शंतनुः खलु गङ्गां भागीरथीमुपयेमे
तस्यामस्य जज्ञे देवव्रतः
यमाहुर्भीष्म इति
१.९०.५३भीष्मः खलु पितुः प्रियचिकीर्षया सत्यवतीमुदवहन्मातरम्
यामाहुर्गन्धकालीति
१.९०.५४तस्यां कानीनो गर्भः पराशराद्द्वैपायनः
तस्यामेव शंतनोर्द्वौ पुत्रौ बभूवतुः
चित्राङ्गदो विचित्रवीर्यश्च
१.९०.५५तयोरप्राप्तयौवन एव चित्राङ्गदो गन्धर्वेण हतः
विचित्रवीर्यस्तु राजा समभवत्
१.९०.५६विचित्रवीर्यः खलु कौसल्यात्मजेऽम्बिकाम्बालिके काशिराजदुहितरावुपयेमे
१.९०.५७विचित्रवीर्यस्त्वनपत्य एव विदेहत्वं प्राप्तः
१.९०.५८ततः सत्यवती चिन्तयामास
दौःषन्तो वंश उच्छिद्यते इति
१.९०.५९सा द्वैपायनमृषिं चिन्तयामास
१.९०.६०स तस्याः पुरतः स्थितः किं करवाणीति
१.९०.६१सा तमुवाच
भ्राता तवानपत्य एव स्वर्यातो विचित्रवीर्यः
साध्वपत्यं तस्योत्पादयेति
१.९०.६२स परमित्युक्त्वा त्रीन्पुत्रानुत्पादयामास धृतराष्ट्रं पाण्डुं विदुरं चेति
१.९०.६३तत्र धृतराष्ट्रस्य राज्ञः पुत्रशतं बभूव गान्धार्यां वरदानाद्द्वैपायनस्य
१.९०.६४तेषां धृतराष्ट्रस्य पुत्राणां चत्वारः प्रधाना बभूवुर्दुर्योधनो दुःशासनो विकर्णश्चित्रसेन इति
१.९०.६५पाण्डोस्तु द्वे भार्ये बभूवतुः कुन्ती माद्री चेत्युभे स्त्रीरत्ने
१.९०.६६अथ पाण्डुर्मृगयां चरन्मैथुनगतमृषिमपश्यन्मृग्यां वर्तमानम्
तथैवाप्लुतमनासादितकामरसमतृप्तं बाणेनाभिजघान
१.९०.६७स बाणविद्ध उवाच पाण्डुम्
चरता धर्ममिमं येन त्वयाभिज्ञेन कामरसस्याहमनवाप्तकामरसोऽभिहतस्तस्मात्त्वमप्येतामवस्थामासाद्यानवाप्तकामरसः पञ्चत्वमाप्स्यसि क्षिप्रमेवेति
१.९०.६८स विवर्णरूपः पाण्डुः शापं परिहरमाणो नोपासर्पत भार्ये
१.९०.६९वाक्यं चोवाच
स्वचापल्यादिदं प्राप्तवानहम्
शृणोमि च नानपत्यस्य लोका सन्तीति
१.९०.७०सा त्वं मदर्थे पुत्रानुत्पादयेति कुन्तीमुवाच
१.९०.७१सा तत्र पुत्रानुत्पादयामास धर्माद्युधिष्ठिरं मारुताद्भीमसेनं शक्रादर्जुनमिति
१.९०.७२स तां हृष्टरूपः पाण्डुरुवाच
इयं ते सपत्न्यनपत्या
साध्वस्यामपत्यमुत्पाद्यतामिति
१.९०.७३स एवमस्त्वित्युक्तः कुन्त्या
१.९०.७४ततो माद्र्यामश्विभ्यां नकुलसहदेवावुत्पादितौ
१.९०.७५माद्रीं खल्वलंकृतां दृष्ट्वा पाण्डुर्भावं चक्रे
१.९०.७६स तां स्पृष्ट्वैव विदेहत्वं प्राप्तः
१.९०.७७तत्रैनं चितास्थं माद्री समन्वारुरोह
१.९०.७८उवाच कुन्तीम्
यमयोरार्ययाप्रमत्तया भवितव्यमिति
१.९०.७९ततस्ते पञ्च पाण्डवाः कुन्त्या सहिता हास्तिनपुरमानीय तापसैर्भीष्मस्य विदुरस्य च निवेदिताः
१.९०.८०तत्रापि जतुगृहे दग्धुं समारब्धा न शकिता विदुरमन्त्रितेन
१.९०.८१ततश्च हिडिम्बमन्तरा हत्वा एकचक्रां गताः
१.९०.८२तस्यामप्येकचक्रायां बकं नाम राक्षसं हत्वा पाञ्चालनगरमभिगताः
१.९०.८३तस्माद्द्रौपदीं भार्यामविन्दन्स्वविषयं चाजग्मुः कुशलिनः
१.९०.८४पुत्रांश्चोत्पादयामासुः
प्रतिविन्ध्यं युधिष्ठिरः
सुतसोमं वृकोदरः
श्रुतकीर्तिमर्जुनः
शतानीकं नकुलः
श्रुतकर्माणं सहदेव इति
१.९०.८५युधिष्ठिरस्तु गोवासनस्य शैब्यस्य देविकां नाम कन्यां स्वयंवरे लेभे
तस्यां पुत्रं जनयामास यौधेयं नाम
१.९०.८६भीमसेनोऽपि काश्यां बलधरां नामोपयेमे वीर्यशुल्काम्
तस्यां पुत्रं सर्वगं नामोत्पादयामास
१.९०.८७अर्जुनः खलु द्वारवतीं गत्वा भगिनीं वासुदेवस्य सुभद्रां नाम भार्यामुदवहत्
तस्यां पुत्रमभिमन्युं नाम जनयामास
१.९०.८८नकुलस्तु चैद्यां करेणुवतीं नाम भार्यामुदवहत्
तस्यां पुत्रं निरमित्रं नामाजनयत्
१.९०.८९सहदेवोऽपि माद्रीमेव स्वयंवरे विजयां नामोपयेमे
तस्यां पुत्रमजनयत्सुहोत्रं नाम
१.९०.९०भीमसेनस्तु पूर्वमेव हिडिम्बायां राक्षस्यां घटोत्कचं नाम पुत्रं जनयामास
१.९०.९१इत्येते एकादश पाण्डवानां पुत्राः
१.९०.९२विराटस्य दुहितरमुत्तरां नामाभिमन्युरुपयेमे
तस्यामस्य परासुर्गर्भोऽजायत
१.९०.९३तमुत्सङ्गेन प्रतिजग्राह पृथा नियोगात्पुरुषोत्तमस्य वासुदेवस्य
षाण्मासिकं गर्भमहमेनं जीवयिष्यामीति
१.९०.९४संजीवयित्वा चैनमुवाच
परिक्षीणे कुले जातो भवत्वयं परिक्षिन्नामेति
१.९०.९५परिक्षित्तु खलु माद्रवतीं नामोपयेमे
तस्यामस्य जनमेजयः
१.९०.९६जनमेजयात्तु वपुष्टमायां द्वौ पुत्रौ शतानीकः शङ्कुश्च
१.९०.९७शतानीकस्तु खलु वैदेहीमुपयेमे
तस्यामस्य जज्ञे पुत्रोऽश्वमेधदत्तः
१.९०.९८इत्येष पूरोर्वंशस्तु पाण्डवानां च कीर्तितः
पूरोर्वंशमिमं श्रुत्वा सर्वपापैः प्रमुच्यते