१.९२.१वैशंपायन उवाच
१.९२.२ततः प्रतीपो राजा स सर्वभूतहिते रतः
निषसाद समा बह्वीर्गङ्गातीरगतो जपन्
१.९२.३तस्य रूपगुणोपेता गङ्गा श्रीरिव रूपिणी
उत्तीर्य सलिलात्तस्माल्लोभनीयतमाकृतिः
१.९२.४अधीयानस्य राजर्षेर्दिव्यरूपा मनस्विनी
दक्षिणं शालसंकाशमूरुं भेजे शुभानना
१.९२.५प्रतीपस्तु महीपालस्तामुवाच मनस्विनीम्
करवाणि किं ते कल्याणि प्रियं यत्तेऽभिकाङ्क्षितम्
१.९२.६स्त्र्युवाच
१.९२.७त्वामहं कामये राजन्कुरुश्रेष्ठ भजस्व माम्
त्यागः कामवतीनां हि स्त्रीणां सद्भिर्विगर्हितः
१.९२.८प्रतीप उवाच
१.९२.९नाहं परस्त्रियं कामाद्गच्छेयं वरवर्णिनि
न चासवर्णां कल्याणि धर्म्यं तद्विद्धि मे व्रतम्
१.९२.१०स्त्र्युवाच
१.९२.११नाश्रेयस्यस्मि नागम्या न वक्तव्या च कर्हिचित्
भज मां भजमानां त्वं राजन्कन्यां वरस्त्रियम्
१.९२.१२प्रतीप उवाच
१.९२.१३मयातिवृत्तमेतत्ते यन्मां चोदयसि प्रियम्
अन्यथा प्रतिपन्नं मां नाशयेद्धर्मविप्लवः
१.९२.१४प्राप्य दक्षिणमूरुं मे त्वमाश्लिष्टा वराङ्गने
अपत्यानां स्नुषाणां च भीरु विद्ध्येतदासनम्
१.९२.१५सव्यतः कामिनीभागस्त्वया स च विवर्जितः
तस्मादहं नाचरिष्ये त्वयि कामं वराङ्गने
१.९२.१६स्नुषा मे भव कल्याणि पुत्रार्थे त्वां वृणोम्यहम्
स्नुषापक्षं हि वामोरु त्वमागम्य समाश्रिता
१.९२.१७स्त्र्युवाच
१.९२.१८एवमप्यस्तु धर्मज्ञ संयुज्येयं सुतेन ते
त्वद्भक्त्यैव भजिष्यामि प्रख्यातं भारतं कुलम्
१.९२.१९पृथिव्यां पार्थिवा ये च तेषां यूयं परायणम्
गुणा न हि मया शक्या वक्तुं वर्षशतैरपि
कुलस्य ये वः प्रस्थितास्तत्साधुत्वमनुत्तमम्
१.९२.२०स मे नाभिजनज्ञः स्यादाचरेयं च यद्विभो
तत्सर्वमेव पुत्रस्ते न मीमांसेत कर्हिचित्
१.९२.२१एवं वसन्ती पुत्रे ते वर्धयिष्याम्यहं प्रियम्
पुत्रैः पुण्यैः प्रियैश्चापि स्वर्गं प्राप्स्यति ते सुतः
१.९२.२२वैशंपायन उवाच
१.९२.२३तथेत्युक्त्वा तु सा राजंस्तत्रैवान्तरधीयत
पुत्रजन्म प्रतीक्षंस्तु स राजा तदधारयत्
१.९२.२४एतस्मिन्नेव काले तु प्रतीपः क्षत्रियर्षभः
तपस्तेपे सुतस्यार्थे सभार्यः कुरुनन्दन
१.९२.२५तयोः समभवत्पुत्रो वृद्धयोः स महाभिषः
शान्तस्य जज्ञे संतानस्तस्मादासीत्स शंतनुः
१.९२.२६संस्मरंश्चाक्षयाँल्लोकान्विजितान्स्वेन कर्मणा
पुण्यकर्मकृदेवासीच्छंतनुः कुरुसत्तम
१.९२.२७प्रतीपः शंतनुं पुत्रं यौवनस्थं ततोऽन्वशात्
पुरा मां स्त्री समभ्यागाच्छंतनो भूतये तव
१.९२.२८त्वामाव्रजेद्यदि रहः सा पुत्र वरवर्णिनी
कामयानाभिरूपाढ्या दिव्या स्त्री पुत्रकाम्यया
सा त्वया नानुयोक्तव्या कासि कस्यासि वाङ्गने
१.९२.२९यच्च कुर्यान्न तत्कार्यं प्रष्टव्या सा त्वयानघ
मन्नियोगाद्भजन्तीं तां भजेथा इत्युवाच तम्
१.९२.३०एवं संदिश्य तनयं प्रतीपः शंतनुं तदा
स्वे च राज्येऽभिषिच्यैनं वनं राजा विवेश ह
१.९२.३१स राजा शंतनुर्धीमान्ख्यातः पृथ्व्यां धनुर्धरः
बभूव मृगयाशीलः सततं वनगोचरः
१.९२.३२स मृगान्महिषांश्चैव विनिघ्नन्राजसत्तमः
गङ्गामनुचचारैकः सिद्धचारणसेविताम्
१.९२.३३स कदाचिन्महाराज ददर्श परमस्त्रियम्
जाज्वल्यमानां वपुषा साक्षात्पद्मामिव श्रियम्
१.९२.३४सर्वानवद्यां सुदतीं दिव्याभरणभूषिताम्
सूक्ष्माम्बरधरामेकां पद्मोदरसमप्रभाम्
१.९२.३५तां दृष्ट्वा हृष्टरोमाभूद्विस्मितो रूपसंपदा
पिबन्निव च नेत्राभ्यां नातृप्यत नराधिपः
१.९२.३६सा च दृष्ट्वैव राजानं विचरन्तं महाद्युतिम्
स्नेहादागतसौहार्दा नातृप्यत विलासिनी
१.९२.३७तामुवाच ततो राजा सान्त्वयञ्श्लक्ष्णया गिरा
देवी वा दानवी वा त्वं गन्धर्वी यदि वाप्सराः
१.९२.३८यक्षी वा पन्नगी वापि मानुषी वा सुमध्यमे
या वा त्वं सुरगर्भाभे भार्या मे भव शोभने
१.९२.३९एतच्छ्रुत्वा वचो राज्ञः सस्मितं मृदु वल्गु च
वसूनां समयं स्मृत्वा अभ्यगच्छदनिन्दिता
१.९२.४०उवाच चैव राज्ञः सा ह्लादयन्ती मनो गिरा
भविष्यामि महीपाल महिषी ते वशानुगा
१.९२.४१यत्तु कुर्यामहं राजञ्शुभं वा यदि वाशुभम्
न तद्वारयितव्यास्मि न वक्तव्या तथाप्रियम्
१.९२.४२एवं हि वर्तमानेऽहं त्वयि वत्स्यामि पार्थिव
वारिता विप्रियं चोक्ता त्यजेयं त्वामसंशयम्
१.९२.४३तथेति राज्ञा सा तूक्ता तदा भरतसत्तम
प्रहर्षमतुलं लेभे प्राप्य तं पार्थिवोत्तमम्
१.९२.४४आसाद्य शंतनुस्तां च बुभुजे कामतो वशी
न प्रष्टव्येति मन्वानो न स तां किंचिदूचिवान्
१.९२.४५स तस्याः शीलवृत्तेन रूपौदार्यगुणेन च
उपचारेण च रहस्तुतोष जगतीपतिः
१.९२.४६दिव्यरूपा हि सा देवी गङ्गा त्रिपथगा नदी
मानुषं विग्रहं श्रीमत्कृत्वा सा वरवर्णिनी
१.९२.४७भाग्योपनतकामस्य भार्येवोपस्थिताभवत्
शंतनो राजसिंहस्य देवराजसमद्युतेः
१.९२.४८संभोगस्नेहचातुर्यैर्हावलास्यैर्मनोहरैः
राजानं रमयामास यथा रेमे तथैव सः
१.९२.४९स राजा रतिसक्तत्वादुत्तमस्त्रीगुणैर्हृतः
संवत्सरानृतून्मासान्न बुबोध बहून्गतान्
१.९२.५०रममाणस्तया सार्धं यथाकामं जनेश्वरः
अष्टावजनयत्पुत्रांस्तस्याममरवर्णिनः
१.९२.५१जातं जातं च सा पुत्रं क्षिपत्यम्भसि भारत
प्रीणामि त्वाहमित्युक्त्वा गङ्गास्रोतस्यमज्जयत्
१.९२.५२तस्य तन्न प्रियं राज्ञः शंतनोरभवत्तदा
न च तां किंचनोवाच त्यागाद्भीतो महीपतिः
१.९२.५३अथ तामष्टमे पुत्रे जाते प्रहसितामिव
उवाच राजा दुःखार्तः परीप्सन्पुत्रमात्मनः
१.९२.५४मा वधीः कासि कस्यासि किं हिंससि सुतानिति
पुत्रघ्नि सुमहत्पापं मा प्रापस्तिष्ठ गर्हिते
१.९२.५५स्त्र्युवाच
१.९२.५६पुत्रकाम न ते हन्मि पुत्रं पुत्रवतां वर
जीर्णस्तु मम वासोऽयं यथा स समयः कृतः
१.९२.५७अहं गङ्गा जह्नुसुता महर्षिगणसेविता
देवकार्यार्थसिद्ध्यर्थमुषिटाहं त्वया सह
१.९२.५८अष्टेमे वसवो देवा महाभागा महौजसः
वसिष्ठशापदोषेण मानुषत्वमुपागताः
१.९२.५९तेषां जनयिता नान्यस्त्वदृते भुवि विद्यते
मद्विधा मानुषी धात्री न चैवास्तीह काचन
१.९२.६०तस्मात्तज्जननीहेतोर्मानुषत्वमुपागता
जनयित्वा वसूनष्टौ जिता लोकास्त्वयाक्षयाः
१.९२.६१देवानां समयस्त्वेष वसूनां संश्रुतो मया
जातं जातं मोक्षयिष्ये जन्मतो मानुषादिति
१.९२.६२तत्ते शापाद्विनिर्मुक्ता आपवस्य महात्मनः
स्वस्ति तेऽस्तु गमिष्यामि पुत्रं पाहि महाव्रतम्
१.९२.६३एष पर्यायवासो मे वसूनां संनिधौ कृतः
मत्प्रसूतं विजानीहि गङ्गादत्तमिमं सुतम्