१. आदिपर्व
१.९३.१शंतनुरुवाच

१.९३.२आपवो नाम को न्वेष वसूनां किं च दुष्कृतम्
यस्याभिशापात्ते सर्वे मानुषीं तनुमागताः

१.९३.३अनेन च कुमारेण गङ्गादत्तेन किं कृतम्
यस्य चैव कृतेनायं मानुषेषु निवत्स्यति

१.९३.४ईशानाः सर्वलोकस्य वसवस्ते च वै कथम्
मानुषेषूदपद्यन्त तन्ममाचक्ष्व जाह्नवि

१.९३.५वैशंपायन उवाच

१.९३.६सैवमुक्ता ततो गङ्गा राजानमिदमब्रवीत्
भर्तारं जाह्नवी देवी शंतनुं पुरुषर्षभम्

१.९३.७यं लेभे वरुणः पुत्रं पुरा भरतसत्तम
वसिष्ठो नाम स मुनिः ख्यात आपव इत्युत

१.९३.८तस्याश्रमपदं पुण्यं मृगपक्षिगणान्वितम्
मेरोः पार्श्वे नगेन्द्रस्य सर्वर्तुकुसुमावृतम्

१.९३.९स वारुणिस्तपस्तेपे तस्मिन्भरतसत्तम
वने पुण्यकृतां श्रेष्ठः स्वादुमूलफलोदके

१.९३.१०दक्षस्य दुहिता या तु सुरभीत्यतिगर्विता
गां प्रजाता तु सा देवी कश्यपाद्भरतर्षभ

१.९३.११अनुग्रहार्थं जगतः सर्वकामदुघां वराम्
तां लेभे गां तु धर्मात्मा होमधेनुं स वारुणिः

१.९३.१२सा तस्मिंस्तापसारण्ये वसन्ती मुनिसेविते
चचार रम्ये धर्म्ये च गौरपेतभया तदा

१.९३.१३अथ तद्वनमाजग्मुः कदाचिद्भरतर्षभ
पृथ्वाद्या वसवः सर्वे देवदेवर्षिसेवितम्

१.९३.१४ते सदारा वनं तच्च व्यचरन्त समन्ततः
रेमिरे रमणीयेषु पर्वतेषु वनेषु च

१.९३.१५तत्रैकस्य तु भार्या वै वसोर्वासवविक्रम
सा चरन्ती वने तस्मिन्गां ददर्श सुमध्यमा
या सा वसिष्ठस्य मुनेः सर्वकामधुगुत्तमा

१.९३.१६सा विस्मयसमाविष्टा शीलद्रविणसंपदा
दिवे वै दर्शयामास तां गां गोवृषभेक्षण

१.९३.१७स्वापीनां च सुदोग्ध्रीं च सुवालधिमुखां शुभाम्
उपपन्नां गुणैः सर्वैः शीलेनानुत्तमेन च

१.९३.१८एवंगुणसमायुक्तां वसवे वसुनन्दिनी
दर्शयामास राजेन्द्र पुरा पौरवनन्दन

१.९३.१९द्यौस्तदा तां तु दृष्ट्वैव गां गजेन्द्रेन्द्रविक्रम
उवाच राजंस्तां देवीं तस्या रूपगुणान्वदन्

१.९३.२०एषा गौरुत्तमा देवि वारुणेरसितेक्षणे
ऋषेस्तस्य वरारोहे यस्येदं वनमुत्तमम्

१.९३.२१अस्याः क्षीरं पिबेन्मर्त्यः स्वादु यो वै सुमध्यमे
दश वर्षसहस्राणि स जीवेत्स्थिरयौवनः

१.९३.२२एतच्छ्रुत्वा तु सा देवी नृपोत्तम सुमध्यमा
तमुवाचानवद्याङ्गी भर्तारं दीप्ततेजसम्

१.९३.२३अस्ति मे मानुषे लोके नरदेवात्मजा सखी
नाम्ना जिनवती नाम रूपयौवनशालिनी

१.९३.२४उशीनरस्य राजर्षेः सत्यसंधस्य धीमतः
दुहिता प्रथिता लोके मानुषे रूपसंपदा

१.९३.२५तस्या हेतोर्महाभाग सवत्सां गां ममेप्सिताम्
आनयस्वामरश्रेष्ठ त्वरितं पुण्यवर्धन

१.९३.२६यावदस्याः पयः पीत्वा सा सखी मम मानद
मानुषेषु भवत्वेका जरारोगविवर्जिता

१.९३.२७एतन्मम महाभाग कर्तुमर्हस्यनिन्दित
प्रियं प्रियतरं ह्यस्मान्नास्ति मेऽन्यत्कथंचन

१.९३.२८एतच्छ्रुत्वा वचस्तस्या देव्याः प्रियचिकीर्षया
पृथ्वाद्यैर्भ्रातृभिः सार्धं द्यौस्तदा तां जहार गाम्

१.९३.२९तया कमलपत्राक्ष्या नियुक्तो द्यौस्तदा नृप
ऋषेस्तस्य तपस्तीव्रं न शशाक निरीक्षितुम्
हृता गौः सा तदा तेन प्रपातस्तु न तर्कितः

१.९३.३०अथाश्रमपदं प्राप्तः फलान्यादाय वारुणिः
न चापश्यत गां तत्र सवत्सां काननोत्तमे

१.९३.३१ततः स मृगयामास वने तस्मिंस्तपोधनः
नाध्यगच्छच्च मृगयंस्तां गां मुनिरुदारधीः

१.९३.३२ज्ञात्वा तथापनीतां तां वसुभिर्दिव्यदर्शनः
ययौ क्रोधवशं सद्यः शशाप च वसूंस्तदा

१.९३.३३यस्मान्मे वसवो जह्रुर्गां वै दोग्ध्रीं सुवालधिम्
तस्मात्सर्वे जनिष्यन्ति मानुषेषु न संशयः

१.९३.३४एवं शशाप भगवान्वसूंस्तान्मुनिसत्तमः
वशं कोपस्य संप्राप्त आपवो भरतर्षभ

१.९३.३५शप्त्वा च तान्महाभागस्तपस्येव मनो दधे
एवं स शप्तवान्राजन्वसूनष्टौ तपोधनः
महाप्रभावो ब्रह्मर्षिर्देवान्रोषसमन्वितः

१.९३.३६अथाश्रमपदं प्राप्य तं स्म भूयो महात्मनः
शप्ताः स्म इति जानन्त ऋषिं तमुपचक्रमुः

१.९३.३७प्रसादयन्तस्तमृषिं वसवः पार्थिवर्षभ
न लेभिरे च तस्मात्ते प्रसादमृषिसत्तमात्
आपवात्पुरुषव्याघ्र सर्वधर्मविशारदात्

१.९३.३८उवाच च स धर्मात्मा सप्त यूयं धरादयः
अनु संवत्सराच्छापमोक्षं वै समवाप्स्यथ

१.९३.३९अयं तु यत्कृते यूयं मया शप्ताः स वत्स्यति
द्यौस्तदा मानुषे लोके दीर्घकालं स्वकर्मणा

१.९३.४०नानृतं तच्चिकीर्षामि युष्मान्क्रुद्धो यदब्रुवम्
न प्रजास्यति चाप्येष मानुषेषु महामनाः

१.९३.४१भविष्यति च धर्मात्मा सर्वशास्त्रविशारदः
पितुः प्रियहिते युक्तः स्त्रीभोगान्वर्जयिष्यति
एवमुक्त्वा वसून्सर्वाञ्जगाम भगवानृषिः

१.९३.४२ततो मामुपजग्मुस्ते समस्ता वसवस्तदा
अयाचन्त च मां राजन्वरं स च मया कृतः
जाताञ्जातान्प्रक्षिपास्मान्स्वयं गङ्गे त्वमम्भसि

१.९३.४३एवं तेषामहं सम्यक्शप्तानां राजसत्तम
मोक्षार्थं मानुषाल्लोकाद्यथावत्कृतवत्यहम्

१.९३.४४अयं शापादृषेस्तस्य एक एव नृपोत्तम
द्यौ राजन्मानुषे लोके चिरं वत्स्यति भारत

१.९३.४५एतदाख्याय सा देवी तत्रैवान्तरधीयत
आदाय च कुमारं तं जगामाथ यथेप्सितम्

१.९३.४६स तु देवव्रतो नाम गाङ्गेय इति चाभवत्
द्विनामा शंतनोः पुत्रः शंतनोरधिको गुणैः

१.९३.४७शंतनुश्चापि शोकार्तो जगाम स्वपुरं ततः
तस्याहं कीर्तयिष्यामि शंतनोरमितान्गुणान्

१.९३.४८महाभाग्यं च नृपतेर्भारतस्य यशस्विनः
यस्येतिहासो द्युतिमान्महाभारतमुच्यते