१. आदिपर्व
१.९४.१वैशंपायन उवाच

१.९४.२स एवं शंतनुर्धीमान्देवराजर्षिसत्कृतः
धर्मात्मा सर्वलोकेषु सत्यवागिति विश्रुतः

१.९४.३दमो दानं क्षमा बुद्धिर्ह्रीर्धृतिस्तेज उत्तमम्
नित्यान्यासन्महासत्त्वे शंतनौ पुरुषर्षभे

१.९४.४एवं स गुणसंपन्नो धर्मार्थकुशलो नृपः
आसीद्भरतवंशस्य गोप्ता साधुजनस्य च

१.९४.५कम्बुग्रीवः पृथुव्यंसो मत्तवारणविक्रमः
धर्म एव परः कामादर्थाच्चेति व्यवस्थितः

१.९४.६एतान्यासन्महासत्त्वे शंतनौ भरतर्षभ
न चास्य सदृशः कश्चित्क्षत्रियो धर्मतोऽभवत्

१.९४.७वर्तमानं हि धर्मे स्वे सर्वधर्मविदां वरम्
तं महीपा महीपालं राजराज्येऽभ्यषेचयन्

१.९४.८वीतशोकभयाबाधाः सुखस्वप्नविबोधनाः
प्रति भारतगोप्तारं समपद्यन्त भूमिपाः

१.९४.९शंतनुप्रमुखैर्गुप्ते लोके नृपतिभिस्तदा
नियमात्सर्ववर्णानां ब्रह्मोत्तरमवर्तत

१.९४.१०ब्रह्म पर्यचरत्क्षत्रं विशः क्षत्रमनुव्रताः
ब्रह्मक्षत्रानुरक्ताश्च शूद्राः पर्यचरन्विशः

१.९४.११स हास्तिनपुरे रम्ये कुरूणां पुटभेदने
वसन्सागरपर्यन्तामन्वशाद्वै वसुंधराम्

१.९४.१२स देवराजसदृशो धर्मज्ञः सत्यवागृजुः
दानधर्मतपोयोगाच्छ्रिया परमया युतः

१.९४.१३अरागद्वेषसंयुक्तः सोमवत्प्रियदर्शनः
तेजसा सूर्यसंकाशो वायुवेगसमो जवे
अन्तकप्रतिमः कोपे क्षमया पृथिवीसमः

१.९४.१४वधः पशुवराहाणां तथैव मृगपक्षिणाम्
शंतनौ पृथिवीपाले नावर्तत वृथा नृप

१.९४.१५धर्मब्रह्मोत्तरे राज्ये शंतनुर्विनयात्मवान्
समं शशास भूतानि कामरागविवर्जितः

१.९४.१६देवर्षिपितृयज्ञार्थमारभ्यन्त तदा क्रियाः
न चाधर्मेण केषांचित्प्राणिनामभवद्वधः

१.९४.१७असुखानामनाथानां तिर्यग्योनिषु वर्तताम्
स एव राजा भूतानां सर्वेषामभवत्पिता

१.९४.१८तस्मिन्कुरुपतिश्रेष्ठे राजराजेश्वरे सति
श्रिता वागभवत्सत्यं दानधर्माश्रितं मनः

१.९४.१९स समाः षोडशाष्टौ च चतस्रोऽष्टौ तथापराः
रतिमप्राप्नुवन्स्त्रीषु बभूव वनगोचरः

१.९४.२०तथारूपस्तथाचारस्तथावृत्तस्तथाश्रुतः
गाङ्गेयस्तस्य पुत्रोऽभून्नाम्ना देवव्रतो वसुः

१.९४.२१सर्वास्त्रेषु स निष्णातः पार्थिवेष्वितरेषु च
महाबलो महासत्त्वो महावीर्यो महारथः

१.९४.२२स कदाचिन्मृगं विद्ध्वा गङ्गामनुसरन्नदीम्
भागीरथीमल्पजलां शंतनुर्दृष्टवान्नृपः

१.९४.२३तां दृष्ट्वा चिन्तयामास शंतनुः पुरुषर्षभः
स्यन्दते किं न्वियं नाद्य सरिच्छ्रेष्ठा यथा पुरा

१.९४.२४ततो निमित्तमन्विच्छन्ददर्श स महामनाः
कुमारं रूपसंपन्नं बृहन्तं चारुदर्शनम्

१.९४.२५दिव्यमस्त्रं विकुर्वाणं यथा देवं पुरंदरम्
कृत्स्नां गङ्गां समावृत्य शरैस्तीक्ष्णैरवस्थितम्

१.९४.२६तां शरैरावृतां दृष्ट्वा नदीं गङ्गां तदन्तिके
अभवद्विस्मितो राजा कर्म दृष्ट्वातिमानुषम्

१.९४.२७जातमात्रं पुरा दृष्टं तं पुत्रं शंतनुस्तदा
नोपलेभे स्मृतिं धीमानभिज्ञातुं तमात्मजम्

१.९४.२८स तु तं पितरं दृष्ट्वा मोहयामास मायया
संमोह्य तु ततः क्षिप्रं तत्रैवान्तरधीयत

१.९४.२९तदद्भुतं तदा दृष्ट्वा तत्र राजा स शंतनुः
शङ्कमानः सुतं गङ्गामब्रवीद्दर्शयेति ह

१.९४.३०दर्शयामास तं गङ्गा बिभ्रती रूपमुत्तमम्
गृहीत्वा दक्षिणे पाणौ तं कुमारमलंकृतम्

१.९४.३१अलंकृतामाभरणैररजोम्बरधारिणीम्
दृष्टपूर्वामपि सतीं नाभ्यजानात्स शंतनुः

१.९४.३२गङ्गोवाच

१.९४.३३यं पुत्रमष्टमं राजंस्त्वं पुरा मय्यजायिथाः
स तेऽयं पुरुषव्याघ्र नयस्वैनं गृहान्तिकम्

१.९४.३४वेदानधिजगे साङ्गान्वसिष्ठादेव वीर्यवान्
कृतास्त्रः परमेष्वासो देवराजसमो युधि

१.९४.३५सुराणां संमतो नित्यमसुराणां च भारत
उशना वेद यच्छास्त्रमयं तद्वेद सर्वशः

१.९४.३६तथैवाङ्गिरसः पुत्रः सुरासुरनमस्कृतः
यद्वेद शास्त्रं तच्चापि कृत्स्नमस्मिन्प्रतिष्ठितम्
तव पुत्रे महाबाहौ साङ्गोपाङ्गं महात्मनि

१.९४.३७ऋषिः परैरनाधृष्यो जामदग्न्यः प्रतापवान्
यदस्त्रं वेद रामश्च तदप्यस्मिन्प्रतिष्ठितम्

१.९४.३८महेष्वासमिमं राजन्राजधर्मार्थकोविदम्
मया दत्तं निजं पुत्रं वीरं वीर गृहान्नय

१.९४.३९वैशंपायन उवाच

१.९४.४०तयैवं समनुज्ञातः पुत्रमादाय शंतनुः
भ्राजमानं यथादित्यमाययौ स्वपुरं प्रति

१.९४.४१पौरवः स्वपुरं गत्वा पुरंदरपुरोपमम्
सर्वकामसमृद्धार्थं मेने आत्मानमात्मना
पौरवेषु ततः पुत्रं यौवराज्येऽभ्यषेचयत्

१.९४.४२पौरवाञ्शंतनोः पुत्रः पितरं च महायशाः
राष्ट्रं च रञ्जयामास वृत्तेन भरतर्षभ

१.९४.४३स तथा सह पुत्रेण रममाणो महीपतिः
वर्तयामास वर्षाणि चत्वार्यमितविक्रमः

१.९४.४४स कदाचिद्वनं यातो यमुनामभितो नदीम्
महीपतिरनिर्देश्यमाजिघ्रद्गन्धमुत्तमम्

१.९४.४५तस्य प्रभवमन्विच्छन्विचचार समन्ततः
स ददर्श तदा कन्यां दाशानां देवरूपिणीम्

१.९४.४६तामपृच्छत्स दृष्ट्वैव कन्यामसितलोचनाम्
कस्य त्वमसि का चासि किं च भीरु चिकीर्षसि

१.९४.४७साब्रवीद्दाशकन्यास्मि धर्मार्थं वाहये तरीम्
पितुर्नियोगाद्भद्रं ते दाशराज्ञो महात्मनः

१.९४.४८रूपमाधुर्यगन्धैस्तां संयुक्तां देवरूपिणीम्
समीक्ष्य राजा दाशेयीं कामयामास शंतनुः

१.९४.४९स गत्वा पितरं तस्या वरयामास तां तदा
पर्यपृच्छत्ततस्तस्याः पितरं चात्मकारणात्

१.९४.५०स च तं प्रत्युवाचेदं दाशराजो महीपतिम्
जातमात्रैव मे देया वराय वरवर्णिनी
हृदि कामस्तु मे कश्चित्तं निबोध जनेश्वर

१.९४.५१यदीमां धर्मपत्नीं त्वं मत्तः प्रार्थयसेऽनघ
सत्यवागसि सत्येन समयं कुरु मे ततः

१.९४.५२समयेन प्रदद्यां ते कन्यामहमिमां नृप
न हि मे त्वत्समः कश्चिद्वरो जातु भविष्यति

१.९४.५३शंतनुरुवाच

१.९४.५४श्रुत्वा तव वरं दाश व्यवस्येयमहं न वा
दातव्यं चेत्प्रदास्यामि न त्वदेयं कथंचन

१.९४.५५दाश उवाच

१.९४.५६अस्यां जायेत यः पुत्रः स राजा पृथिवीपतिः
त्वदूर्ध्वमभिषेक्तव्यो नान्यः कश्चन पार्थिव

१.९४.५७वैशंपायन उवाच

१.९४.५८नाकामयत तं दातुं वरं दाशाय शंतनुः
शरीरजेन तीव्रेण दह्यमानोऽपि भारत

१.९४.५९स चिन्तयन्नेव तदा दाशकन्यां महीपतिः
प्रत्ययाद्धास्तिनपुरं शोकोपहतचेतनः

१.९४.६०ततः कदाचिच्छोचन्तं शंतनुं ध्यानमास्थितम्
पुत्रो देवव्रतोऽभ्येत्य पितरं वाक्यमब्रवीत्

१.९४.६१सर्वतो भवतः क्षेमं विधेयाः सर्वपार्थिवाः
तत्किमर्थमिहाभीक्ष्णं परिशोचसि दुःखितः
ध्यायन्निव च किं राजन्नाभिभाषसि किंचन

१.९४.६२एवमुक्तः स पुत्रेण शंतनुः प्रत्यभाषत
असंशयं ध्यानपरं यथा मात्थ तथास्म्युत

१.९४.६३अपत्यं नस्त्वमेवैकः कुले महति भारत
अनित्यता च मर्त्यानामतः शोचामि पुत्रक

१.९४.६४कथंचित्तव गाङ्गेय विपत्तौ नास्ति नः कुलम्
असंशयं त्वमेवैकः शतादपि वरः सुतः

१.९४.६५न चाप्यहं वृथा भूयो दारान्कर्तुमिहोत्सहे
संतानस्याविनाशाय कामये भद्रमस्तु ते
अनपत्यतैकपुत्रत्वमित्याहुर्धर्मवादिनः

१.९४.६६अग्निहोत्रं त्रयो वेदा यज्ञाश्च सहदक्षिणाः
सर्वाण्येतान्यपत्यस्य कलां नार्हन्ति षोडशीम्

१.९४.६७एवमेव मनुष्येषु स्याच्च सर्वप्रजास्वपि
यदपत्यं महाप्राज्ञ तत्र मे नास्ति संशयः
एषा त्रयी पुराणानामुत्तमानां च शाश्वती

१.९४.६८त्वं च शूरः सदामर्षी शस्त्रनित्यश्च भारत
नान्यत्र शस्त्रात्तस्मात्ते निधनं विद्यतेऽनघ

१.९४.६९सोऽस्मि संशयमापन्नस्त्वयि शान्ते कथं भवेत्
इति ते कारणं तात दुःखस्योक्तमशेषतः

१.९४.७०ततस्तत्कारणं ज्ञात्वा कृत्स्नं चैवमशेषतः
देवव्रतो महाबुद्धिः प्रययावनुचिन्तयन्

१.९४.७१अभ्यगच्छत्तदैवाशु वृद्धामात्यं पितुर्हितम्
तमपृच्छत्तदाभ्येत्य पितुस्तच्छोककारणम्

१.९४.७२तस्मै स कुरुमुख्याय यथावत्परिपृच्छते
वरं शशंस कन्यां तामुद्दिश्य भरतर्षभ

१.९४.७३ततो देवव्रतो वृद्धैः क्षत्रियैः सहितस्तदा
अभिगम्य दाशराजानं कन्यां वव्रे पितुः स्वयम्

१.९४.७४तं दाशः प्रतिजग्राह विधिवत्प्रतिपूज्य च
अब्रवीच्चैनमासीनं राजसंसदि भारत

१.९४.७५त्वमेव नाथः पर्याप्तः शंतनोः पुरुषर्षभ
पुत्रः पुत्रवतां श्रेष्ठः किं नु वक्ष्यामि ते वचः

१.९४.७६को हि संबन्धकं श्लाघ्यमीप्सितं यौनमीदृशम्
अतिक्रामन्न तप्येत साक्षादपि शतक्रतुः

१.९४.७७अपत्यं चैतदार्यस्य यो युष्माकं समो गुणैः
यस्य शुक्रात्सत्यवती प्रादुर्भूता यशस्विनी

१.९४.७८तेन मे बहुशस्तात पिता ते परिकीर्तितः
अर्हः सत्यवतीं वोढुं सर्वराजसु भारत

१.९४.७९असितो ह्यपि देवर्षिः प्रत्याख्यातः पुरा मया
सत्यवत्या भृशं ह्यर्थी स आसीदृषिसत्तमः

१.९४.८०कन्यापितृत्वात्किंचित्तु वक्ष्यामि भरतर्षभ
बलवत्सपत्नतामत्र दोषं पश्यामि केवलम्

१.९४.८१यस्य हि त्वं सपत्नः स्या गन्धर्वस्यासुरस्य वा
न स जातु सुखं जीवेत्त्वयि क्रुद्धे परंतप

१.९४.८२एतावानत्र दोषो हि नान्यः कश्चन पार्थिव
एतज्जानीहि भद्रं ते दानादाने परंतप

१.९४.८३एवमुक्तस्तु गाङ्गेयस्तद्युक्तं प्रत्यभाषत
शृण्वतां भूमिपालानां पितुरर्थाय भारत

१.९४.८४इदं मे मतमादत्स्व सत्यं सत्यवतां वर
नैव जातो न वाजात ईदृशं वक्तुमुत्सहेत्

१.९४.८५एवमेतत्करिष्यामि यथा त्वमनुभाषसे
योऽस्यां जनिष्यते पुत्रः स नो राजा भविष्यति

१.९४.८६इत्युक्तः पुनरेवाथ तं दाशः प्रत्यभाषत
चिकीर्षुर्दुष्करं कर्म राज्यार्थे भरतर्षभ

१.९४.८७त्वमेव नाथः पर्याप्तः शंतनोरमितद्युतेः
कन्यायाश्चैव धर्मात्मन्प्रभुर्दानाय चेश्वरः

१.९४.८८इदं तु वचनं सौम्य कार्यं चैव निबोध मे
कौमारिकाणां शीलेन वक्ष्याम्यहमरिंदम

१.९४.८९यत्त्वया सत्यवत्यर्थे सत्यधर्मपरायण
राजमध्ये प्रतिज्ञातमनुरूपं तवैव तत्

१.९४.९०नान्यथा तन्महाबाहो संशयोऽत्र न कश्चन
तवापत्यं भवेद्यत्तु तत्र नः संशयो महान्

१.९४.९१तस्य तन्मतमाज्ञाय सत्यधर्मपरायणः
प्रत्यजानात्तदा राजन्पितुः प्रियचिकीर्षया

१.९४.९२देवव्रत उवाच

१.९४.९३दाशराज निबोधेदं वचनं मे नृपोत्तम
शृण्वतां भूमिपालानां यद्ब्रवीमि पितुः कृते

१.९४.९४राज्यं तावत्पूर्वमेव मया त्यक्तं नराधिप
अपत्यहेतोरपि च करोम्येष विनिश्चयम्

१.९४.९५अद्य प्रभृति मे दाश ब्रह्मचर्यं भविष्यति
अपुत्रस्यापि मे लोका भविष्यन्त्यक्षया दिवि

१.९४.९६वैशंपायन उवाच

१.९४.९७तस्य तद्वचनं श्रुत्वा संप्रहृष्टतनूरुहः
ददानीत्येव तं दाशो धर्मात्मा प्रत्यभाषत

१.९४.९८ततोऽन्तरिक्षेऽप्सरसो देवाः सर्षिगणास्तथा
अभ्यवर्षन्त कुसुमैर्भीष्मोऽयमिति चाब्रुवन्

१.९४.९९ततः स पितुरर्थाय तामुवाच यशस्विनीम्
अधिरोह रथं मातर्गच्छावः स्वगृहानिति

१.९४.१००एवमुक्त्वा तु भीष्मस्तां रथमारोप्य भामिनीम्
आगम्य हास्तिनपुरं शंतनोः संन्यवेदयत्

१.९४.१०१तस्य तद्दुष्करं कर्म प्रशशंसुर्नराधिपाः
समेताश्च पृथक्चैव भीष्मोऽयमिति चाब्रुवन्

१.९४.१०२तद्दृष्ट्वा दुष्करं कर्म कृतं भीष्मेण शंतनुः
स्वच्छन्दमरणं तस्मै ददौ तुष्टः पिता स्वयम्