१. आदिपर्व
१.९५.१वैशंपायन उवाच

१.९५.२ततो विवाहे निर्वृत्ते स राजा शंतनुर्नृपः
तां कन्यां रूपसंपन्नां स्वगृहे संन्यवेशयत्

१.९५.३ततः शांतनवो धीमान्सत्यवत्यामजायत
वीरश्चित्राङ्गदो नाम वीर्येण मनुजानति

१.९५.४अथापरं महेष्वासं सत्यवत्यां पुनः प्रभुः
विचित्रवीर्यं राजानं जनयामास वीर्यवान्

१.९५.५अप्राप्तवति तस्मिंश्च यौवनं भरतर्षभ
स राजा शंतनुर्धीमान्कालधर्ममुपेयिवान्

१.९५.६स्वर्गते शंतनौ भीष्मश्चित्राङ्गदमरिंदमम्
स्थापयामास वै राज्ये सत्यवत्या मते स्थितः

१.९५.७स तु चित्राङ्गदः शौर्यात्सर्वांश्चिक्षेप पार्थिवान्
मनुष्यं न हि मेने स कंचित्सदृशमात्मनः

१.९५.८तं क्षिपन्तं सुरांश्चैव मनुष्यानसुरांस्तथा
गन्धर्वराजो बलवांस्तुल्यनामाभ्ययात्तदा
तेनास्य सुमहद्युद्धं कुरुक्षेत्रे बभूव ह

१.९५.९तयोर्बलवतोस्तत्र गन्धर्वकुरुमुख्ययोः
नद्यास्तीरे हिरण्वत्याः समास्तिस्रोऽभवद्रणः

१.९५.१०तस्मिन्विमर्दे तुमुले शस्त्रवृष्टिसमाकुले
मायाधिकोऽवधीद्वीरं गन्धर्वः कुरुसत्तमम्

१.९५.११चित्राङ्गदं कुरुश्रेष्ठं विचित्रशरकार्मुकम्
अन्ताय कृत्वा गन्धर्वो दिवमाचक्रमे ततः

१.९५.१२तस्मिन्नृपतिशार्दूले निहते भूरिवर्चसि
भीष्मः शांतनवो राजन्प्रेतकार्याण्यकारयत्

१.९५.१३विचित्रवीर्यं च तदा बालमप्राप्तयौवनम्
कुरुराज्ये महाबाहुरभ्यषिञ्चदनन्तरम्

१.९५.१४विचित्रवीर्यस्तु तदा भीष्मस्य वचने स्थितः
अन्वशासन्महाराज पितृपैतामहं पदम्

१.९५.१५स धर्मशास्त्रकुशलो भीष्मं शांतनवं नृपः
पूजयामास धर्मेण स चैनं प्रत्यपालयत्