११. स्त्रीपर्व
११.२.१वैशंपायन उवाच

११.२.२ततोऽमृतसमैर्वाक्यैर्ह्लादयन्पुरुषर्षभम्
वैचित्रवीर्यं विदुरो यदुवाच निबोध तत्

११.२.३विदुर उवाच

११.२.४उत्तिष्ठ राजन्किं शेषे धारयात्मानमात्मना
स्थिरजङ्गममर्त्यानां सर्वेषामेष निर्णयः

११.२.५सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः
संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम्

११.२.६यदा शूरं च भीरुं च यमः कर्षति भारत
तत्किं न योत्स्यन्ति हि ते क्षत्रियाः क्षत्रियर्षभ

११.२.७अयुध्यमानो म्रियते युध्यमानश्च जीवति
कालं प्राप्य महाराज न कश्चिदतिवर्तते

११.२.८न चाप्येतान्हतान्युद्धे राजञ्शोचितुमर्हसि
प्रमाणं यदि शास्त्राणि गतास्ते परमां गतिम्

११.२.९सर्वे स्वाध्यायवन्तो हि सर्वे च चरितव्रताः
सर्वे चाभिमुखाः क्षीणास्तत्र का परिदेवना

११.२.१०अदर्शनादापतिताः पुनश्चादर्शनं गताः
न ते तव न तेषां त्वं तत्र का परिदेवना

११.२.११हतोऽपि लभते स्वर्गं हत्वा च लभते यशः
उभयं नो बहुगुणं नास्ति निष्फलता रणे

११.२.१२तेषां कामदुघाँल्लोकानिन्द्रः संकल्पयिष्यति
इन्द्रस्यातिथयो ह्येते भवन्ति पुरुषर्षभ

११.२.१३न यज्ञैर्दक्षिणावद्भिर्न तपोभिर्न विद्यया
स्वर्गं यान्ति तथा मर्त्या यथा शूरा रणे हताः

११.२.१४मातापितृसहस्राणि पुत्रदारशतानि च
संसारेष्वनुभूतानि कस्य ते कस्य वा वयम्

११.२.१५शोकस्थानसहस्राणि भयस्थानशतानि च
दिवसे दिवसे मूढमाविशन्ति न पण्डितम्

११.२.१६न कालस्य प्रियः कश्चिन्न द्वेष्यः कुरुसत्तम
न मध्यस्थः क्वचित्कालः सर्वं कालः प्रकर्षति

११.२.१७अनित्यं जीवितं रूपं यौवनं द्रव्यसंचयः
आरोग्यं प्रियसंवासो गृध्येदेषु न पण्डितः

११.२.१८न जानपदिकं दुःखमेकः शोचितुमर्हसि
अप्यभावेन युज्येत तच्चास्य न निवर्तते

११.२.१९अशोचन्प्रतिकुर्वीत यदि पश्येत्पराक्रमम्
भैषज्यमेतद्दुःखस्य यदेतन्नानुचिन्तयेत्
चिन्त्यमानं हि न व्येति भूयश्चापि विवर्धते

११.२.२०अनिष्टसंप्रयोगाच्च विप्रयोगात्प्रियस्य च
मनुष्या मानसैर्दुःखैर्युज्यन्ते येऽल्पबुद्धयः

११.२.२१नार्थो न धर्मो न सुखं यदेतदनुशोचसि
न च नापैति कार्यार्थात्त्रिवर्गाच्चैव भ्रश्यते

११.२.२२अन्यामन्यां धनावस्थां प्राप्य वैशेषिकीं नराः
असंतुष्टाः प्रमुह्यन्ति संतोषं यान्ति पण्डिताः

११.२.२३प्रज्ञया मानसं दुःखं हन्याच्छारीरमौषधैः
एतज्ज्ञानस्य सामर्थ्यं न बालैः समतामियात्

११.२.२४शयानं चानुशयति तिष्ठन्तं चानुतिष्ठति
अनुधावति धावन्तं कर्म पूर्वकृतं नरम्

११.२.२५यस्यां यस्यामवस्थायां यत्करोति शुभाशुभम्
तस्यां तस्यामवस्थायां तत्तत्फलमुपाश्नुते