११.१६.१वैशंपायन उवाच
११.१६.२एवमुक्त्वा तु गान्धारी कुरूणामाविकर्तनम्
अपश्यत्तत्र तिष्ठन्ती सर्वं दिव्येन चक्षुषा
११.१६.३पतिव्रता महाभागा समानव्रतचारिणी
उग्रेण तपसा युक्ता सततं सत्यवादिनी
११.१६.४वरदानेन कृष्णस्य महर्षेः पुण्यकर्मणः
दिव्यज्ञानबलोपेता विविधं पर्यदेवयत्
११.१६.५ददर्श सा बुद्धिमती दूरादपि यथान्तिके
रणाजिरं नृवीराणामद्भुतं लोमहर्षणम्
११.१६.६अस्थिकेशपरिस्तीर्णं शोणितौघपरिप्लुतम्
शरीरैर्बहुसाहस्रैर्विनिकीर्णं समन्ततः
११.१६.७गजाश्वरथयोधानामावृतं रुधिराविलैः
शरीरैरशिरस्कैश्च विदेहैश्च शिरोगणैः
११.१६.८गजाश्वनरवीराणां निःसत्त्वैरभिसंवृतम्
सृगालबडकाकोलकङ्ककाकनिषेवितम्
११.१६.९रक्षसां पुरुषादानां मोदनं कुरराकुलम्
अशिवाभिः शिवाभिश्च नादितं गृध्रसेवितम्
११.१६.१०ततो व्यासाभ्यनुज्ञातो धृतराष्ट्रो महीपतिः
पाण्डुपुत्राश्च ते सर्वे युधिष्ठिरपुरोगमाः
११.१६.११वासुदेवं पुरस्कृत्य हतबन्धुं च पार्थिवम्
कुरुस्त्रियः समासाद्य जग्मुरायोधनं प्रति
११.१६.१२समासाद्य कुरुक्षेत्रं ताः स्त्रियो निहतेश्वराः
अपश्यन्त हतांस्तत्र पुत्रान्भ्रातॄन्पितॄन्पतीन्
११.१६.१३क्रव्यादैर्भक्ष्यमाणान्वै गोमायुबडवायसैः
भूतैः पिशाचै रक्षोभिर्विविधैश्च निशाचरैः
११.१६.१४रुद्राक्रीडनिभं दृष्ट्वा तदा विशसनं स्त्रियः
महार्हेभ्योऽथ यानेभ्यो विक्रोशन्त्यो निपेतिरे
११.१६.१५अदृष्टपूर्वं पश्यन्त्यो दुःखार्ता भरतस्त्रियः
शरीरेष्वस्खलन्नन्या न्यपतंश्चापरा भुवि
११.१६.१६श्रान्तानां चाप्यनाथानां नासीत्काचन चेतना
पाञ्चालकुरुयोषाणां कृपणं तदभून्महत्
११.१६.१७दुःखोपहतचित्ताभिः समन्तादनुनादितम्
दृष्ट्वायोधनमत्युग्रं धर्मज्ञा सुबलात्मजा
११.१६.१८ततः सा पुण्डरीकाक्षमामन्त्र्य पुरुषोत्तमम्
कुरूणां वैशसं दृष्ट्वा दुःखाद्वचनमब्रवीत्
११.१६.१९पश्यैताः पुण्डरीकाक्ष स्नुषा मे निहतेश्वराः
प्रकीर्णकेशाः क्रोशन्तीः कुररीरिव माधव
११.१६.२०अमूस्त्वभिसमागम्य स्मरन्त्यो भरतर्षभान्
पृथगेवाभ्यधावन्त पुत्रान्भ्रातॄन्पितॄन्पतीन्
११.१६.२१वीरसूभिर्महाबाहो हतपुत्राभिरावृतम्
क्वचिच्च वीरपत्नीभिर्हतवीराभिराकुलम्
११.१६.२२शोभितं पुरुषव्याघ्रैर्भीष्मकर्णाभिमन्युभिः
द्रोणद्रुपदशल्यैश्च ज्वलद्भिरिव पावकैः
११.१६.२३काञ्चनैः कवचैर्निष्कैर्मणिभिश्च महात्मनाम्
अङ्गदैर्हस्तकेयूरैः स्रग्भिश्च समलंकृतम्
११.१६.२४वीरबाहुविसृष्टाभिः शक्तिभिः परिघैरपि
खड्गैश्च विमलैस्तीक्ष्णैः सशरैश्च शरासनैः
११.१६.२५क्रव्यादसंघैर्मुदितैस्तिष्ठद्भिः सहितैः क्वचित्
क्वचिदाक्रीडमानैश्च शयानैरपरैः क्वचित्
११.१६.२६एतदेवंविधं वीर संपश्यायोधनं विभो
पश्यमाना च दह्यामि शोकेनाहं जनार्दन
११.१६.२७पाञ्चालानां कुरूणां च विनाशं मधुसूदन
पञ्चानामिव भूतानां नाहं वधमचिन्तयम्
११.१६.२८तान्सुपर्णाश्च गृध्राश्च निष्कर्षन्त्यसृगुक्षितान्
निगृह्य कवचेषूग्रा भक्षयन्ति सहस्रशः
११.१६.२९जयद्रथस्य कर्णस्य तथैव द्रोणभीष्मयोः
अभिमन्योर्विनाशं च कश्चिन्तयितुमर्हति
११.१६.३०अवध्यकल्पान्निहतान्दृष्ट्वाहं मधुसूदन
गृध्रकङ्कबडश्येनश्वसृगालादनीकृतान्
११.१६.३१अमर्षवशमापन्नान्दुर्योधनवशे स्थितान्
पश्येमान्पुरुषव्याघ्रान्संशान्तान्पावकानिव
११.१६.३२शयनान्युचिताः सर्वे मृदूनि विमलानि च
विपन्नास्तेऽद्य वसुधां विवृतामधिशेरते
११.१६.३३बन्दिभिः सततं काले स्तुवद्भिरभिनन्दिताः
शिवानामशिवा घोराः शृण्वन्ति विविधा गिरः
११.१६.३४ये पुरा शेरते वीराः शयनेषु यशस्विनः
चन्दनागुरुदिग्धाङ्गास्तेऽद्य पांसुषु शेरते
११.१६.३५तेषामाभरणान्येते गृध्रगोमायुवायसाः
आक्षिपन्त्यशिवा घोरा विनदन्तः पुनः पुनः
११.१६.३६चापानि विशिखान्पीतान्निस्त्रिंशान्विमला गदाः
युद्धाभिमानिनः प्रीता जीवन्त इव बिभ्रति
११.१६.३७सुरूपवर्णा बहवः क्रव्यादैरवघट्टिताः
ऋषभप्रतिरूपाक्षाः शेरते हरितस्रजः
११.१६.३८अपरे पुनरालिङ्ग्य गदाः परिघबाहवः
शेरतेऽभिमुखाः शूरा दयिता इव योषितः
११.१६.३९बिभ्रतः कवचान्यन्ये विमलान्यायुधानि च
न धर्षयन्ति क्रव्यादा जीवन्तीति जनार्दन
११.१६.४०क्रव्यादैः कृष्यमाणानामपरेषां महात्मनाम्
शातकौम्भ्यः स्रजश्चित्रा विप्रकीर्णाः समन्ततः
११.१६.४१एते गोमायवो भीमा निहतानां यशस्विनाम्
कण्ठान्तरगतान्हारानाक्षिपन्ति सहस्रशः
११.१६.४२सर्वेष्वपररात्रेषु याननन्दन्त बन्दिनः
स्तुतिभिश्च परार्ध्याभिरुपचारैश्च शिक्षिताः
११.१६.४३तानिमाः परिदेवन्ति दुःखार्ताः परमाङ्गनाः
कृपणं वृष्णिशार्दूल दुःखशोकार्दिता भृशम्
११.१६.४४रक्तोत्पलवनानीव विभान्ति रुचिराणि वै
मुखानि परमस्त्रीणां परिशुष्काणि केशव
११.१६.४५रुदितोपरता ह्येता ध्यायन्त्यः संपरिप्लुताः
कुरुस्त्रियोऽभिगच्छन्ति तेन तेनैव दुःखिताः
११.१६.४६एतान्यादित्यवर्णानि तपनीयनिभानि च
रोषरोदनताम्राणि वक्त्राणि कुरुयोषिताम्
११.१६.४७आसामपरिपूर्णार्थं निशम्य परिदेवितम्
इतरेतरसंक्रन्दान्न विजानन्ति योषितः
११.१६.४८एता दीर्घमिवोच्छ्वस्य विक्रुश्य च विलप्य च
विस्पन्दमाना दुःखेन वीरा जहति जीवितम्
११.१६.४९बह्व्यो दृष्ट्वा शरीराणि क्रोशन्ति विलपन्ति च
पाणिभिश्चापरा घ्नन्ति शिरांसि मृदुपाणयः
११.१६.५०शिरोभिः पतितैर्हस्तैः सर्वाङ्गैर्यूथशः कृतैः
इतरेतरसंपृक्तैराकीर्णा भाति मेदिनी
११.१६.५१विशिरस्कानथो कायान्दृष्ट्वा घोराभिनन्दिनः
मुह्यन्त्यनुचिता नार्यो विदेहानि शिरांसि च
११.१६.५२शिरः कायेन संधाय प्रेक्षमाणा विचेतसः
अपश्यन्त्यो परं तत्र नेदमस्येति दुःखिताः
११.१६.५३बाहूरुचरणानन्यान्विशिखोन्मथितान्पृथक्
संदधत्योऽसुखाविष्टा मूर्छन्त्येताः पुनः पुनः
११.१६.५४उत्कृत्तशिरसश्चान्यान्विजग्धान्मृगपक्षिभिः
दृष्ट्वा काश्चिन्न जानन्ति भर्तॄन्भरतयोषितः
११.१६.५५पाणिभिश्चापरा घ्नन्ति शिरांसि मधुसूदन
प्रेक्ष्य भ्रातॄन्पितॄन्पुत्रान्पतींश्च निहतान्परैः
११.१६.५६बाहुभिश्च सखड्गैश्च शिरोभिश्च सकुण्डलैः
अगम्यकल्पा पृथिवी मांसशोणितकर्दमा
११.१६.५७न दुःखेषूचिताः पूर्वं दुःखं गाहन्त्यनिन्दिताः
भ्रातृभिः पितृभिः पुत्रैरुपकीर्णां वसुंधराम्
११.१६.५८यूथानीव किशोरीणां सुकेशीनां जनार्दन
स्नुषाणां धृतराष्ट्रस्य पश्य वृन्दान्यनेकशः
११.१६.५९अतो दुःखतरं किं नु केशव प्रतिभाति मे
यदिमाः कुर्वते सर्वा रूपमुच्चावचं स्त्रियः
११.१६.६०नूनमाचरितं पापं मया पूर्वेषु जन्मसु
या पश्यामि हतान्पुत्रान्पौत्रान्भ्रातॄंश्च केशव
एवमार्ता विलपती ददर्श निहतं सुतम्