११. स्त्रीपर्व
११.१७.१वैशंपायन उवाच

११.१७.२ततो दुर्योधनं दृष्ट्वा गान्धारी शोककर्शिता
सहसा न्यपतद्भूमौ छिन्नेव कदली वने

११.१७.३सा तु लब्ध्वा पुनः संज्ञां विक्रुश्य च पुनः पुनः
दुर्योधनमभिप्रेक्ष्य शयानं रुधिरोक्षितम्

११.१७.४परिष्वज्य च गान्धारी कृपणं पर्यदेवयत्
हा हा पुत्रेति शोकार्ता विललापाकुलेन्द्रिया

११.१७.५सुगूढजत्रु विपुलं हारनिष्कनिषेवितम्
वारिणा नेत्रजेनोरः सिञ्चन्ती शोकतापिता
समीपस्थं हृषीकेशमिदं वचनमब्रवीत्

११.१७.६उपस्थितेऽस्मिन्संग्रामे ज्ञातीनां संक्षये विभो
मामयं प्राह वार्ष्णेय प्राञ्जलिर्नृपसत्तमः
अस्मिञ्ज्ञातिसमुद्धर्षे जयमम्बा ब्रवीतु मे

११.१७.७इत्युक्ते जानती सर्वमहं स्वं व्यसनागमम्
अब्रुवं पुरुषव्याघ्र यतो धर्मस्ततो जयः

११.१७.८यथा न युध्यमानस्त्वं संप्रमुह्यसि पुत्रक
ध्रुवं शस्त्रजिताँल्लोकान्प्राप्तास्यमरवद्विभो

११.१७.९इत्येवमब्रुवं पूर्वं नैनं शोचामि वै प्रभो
धृतराष्ट्रं तु शोचामि कृपणं हतबान्धवम्

११.१७.१०अमर्षणं युधां श्रेष्ठं कृतास्त्रं युद्धदुर्मदम्
शयानं वीरशयने पश्य माधव मे सुतम्

११.१७.११योऽयं मूर्धावसिक्तानामग्रे याति परंतपः
सोऽयं पांसुषु शेतेऽद्य पश्य कालस्य पर्ययम्

११.१७.१२ध्रुवं दुर्योधनो वीरो गतिं नसुलभां गतः
तथा ह्यभिमुखः शेते शयने वीरसेविते

११.१७.१३यं पुरा पर्युपासीना रमयन्ति महीक्षितः
महीतलस्थं निहतं गृध्रास्तं पर्युपासते

११.१७.१४यं पुरा व्यजनैरग्र्यैरुपवीजन्ति योषितः
तमद्य पक्षव्यजनैरुपवीजन्ति पक्षिणः

११.१७.१५एष शेते महाबाहुर्बलवान्सत्यविक्रमः
सिंहेनेव द्विपः संख्ये भीमसेनेन पातितः

११.१७.१६पश्य दुर्योधनं कृष्ण शयानं रुधिरोक्षितम्
निहतं भीमसेनेन गदामुद्यम्य भारत

११.१७.१७अक्षौहिणीर्महाबाहुर्दश चैकां च केशव
अनयद्यः पुरा संख्ये सोऽनयान्निधनं गतः

११.१७.१८एष दुर्योधनः शेते महेष्वासो महारथः
शार्दूल इव सिंहेन भीमसेनेन पातितः

११.१७.१९विदुरं ह्यवमन्यैष पितरं चैव मन्दभाक्
बालो वृद्धावमानेन मन्दो मृत्युवशं गतः

११.१७.२०निःसपत्ना मही यस्य त्रयोदश समाः स्थिता
स शेते निहतो भूमौ पुत्रो मे पृथिवीपतिः

११.१७.२१अपश्यं कृष्ण पृथिवीं धार्तराष्ट्रानुशासनात्
पूर्णां हस्तिगवाश्वस्य वार्ष्णेय न तु तच्चिरम्

११.१७.२२तामेवाद्य महाबाहो पश्याम्यन्यानुशासनात्
हीनां हस्तिगवाश्वेन किं नु जीवामि माधव

११.१७.२३इदं कृच्छ्रतरं पश्य पुत्रस्यापि वधान्मम
यदिमाः पर्युपासन्ते हताञ्शूरान्रणे स्त्रियः

११.१७.२४प्रकीर्णकेशां सुश्रोणीं दुर्योधनभुजाङ्कगाम्
रुक्मवेदीनिभां पश्य कृष्ण लक्ष्मणमातरम्

११.१७.२५नूनमेषा पुरा बाला जीवमाने महाभुजे
भुजावाश्रित्य रमते सुभुजस्य मनस्विनी

११.१७.२६कथं तु शतधा नेदं हृदयं मम दीर्यते
पश्यन्त्या निहतं पुत्रं पुत्रेण सहितं रणे

११.१७.२७पुत्रं रुधिरसंसिक्तमुपजिघ्रत्यनिन्दिता
दुर्योधनं तु वामोरूः पाणिना परिमार्जति

११.१७.२८किं नु शोचति भर्तारं पुत्रं चैषा मनस्विनी
तथा ह्यवस्थिता भाति पुत्रं चाप्यभिवीक्ष्य सा

११.१७.२९स्वशिरः पञ्चशाखाभ्यामभिहत्यायतेक्षणा
पतत्युरसि वीरस्य कुरुराजस्य माधव

११.१७.३०पुण्डरीकनिभा भाति पुण्डरीकान्तरप्रभा
मुखं विमृज्य पुत्रस्य भर्तुश्चैव तपस्विनी

११.१७.३१यदि चाप्यागमाः सन्ति यदि वा श्रुतयस्तथा
ध्रुवं लोकानवाप्तोऽयं नृपो बाहुबलार्जितान्