११.१८.१गान्धार्युवाच
११.१८.२पश्य माधव पुत्रान्मे शतसंख्याञ्जितक्लमान्
गदया भीमसेनेन भूयिष्ठं निहतान्रणे
११.१८.३इदं दुःखतरं मेऽद्य यदिमा मुक्तमूर्धजाः
हतपुत्रा रणे बालाः परिधावन्ति मे स्नुषाः
११.१८.४प्रासादतलचारिण्यश्चरणैर्भूषणान्वितैः
आपन्ना यत्स्पृशन्तीमा रुधिरार्द्रां वसुंधराम्
११.१८.५गृध्रानुत्सारयन्त्यश्च गोमायून्वायसांस्तथा
शोकेनार्ता विघूर्णन्त्यो मत्ता इव चरन्त्युत
११.१८.६एषान्या त्वनवद्याङ्गी करसंमितमध्यमा
घोरं तद्वैशसं दृष्ट्वा निपतत्यतिदुःखिता
११.१८.७दृष्ट्वा मे पार्थिवसुतामेतां लक्ष्मणमातरम्
राजपुत्रीं महाबाहो मनो न व्युपशाम्यति
११.१८.८भ्रातॄंश्चान्याः पतींश्चान्याः पुत्रांश्च निहतान्भुवि
दृष्ट्वा परिपतन्त्येताः प्रगृह्य सुभुजा भुजान्
११.१८.९मध्यमानां तु नारीणां वृद्धानां चापराजित
आक्रन्दं हतबन्धूनां दारुणे वैशसे शृणु
११.१८.१०रथनीडानि देहांश्च हतानां गजवाजिनाम्
आश्रिताः श्रममोहार्ताः स्थिताः पश्य महाबल
११.१८.११अन्या चापहृतं कायाच्चारुकुण्डलमुन्नसम्
स्वस्य बन्धोः शिरः कृष्ण गृहीत्वा पश्य तिष्ठति
११.१८.१२पूर्वजातिकृतं पापं मन्ये नाल्पमिवानघ
एताभिरनवद्याभिर्मया चैवाल्पमेधया
११.१८.१३तदिदं धर्मराजेन यातितं नो जनार्दन
न हि नाशोऽस्ति वार्ष्णेय कर्मणोः शुभपापयोः
११.१८.१४प्रत्यग्रवयसः पश्य दर्शनीयकुचोदराः
कुलेषु जाता ह्रीमत्यः कृष्णपक्षाक्षिमूर्धजाः
११.१८.१५हंसगद्गदभाषिण्यो दुःखशोकप्रमोहिताः
सारस्य इव वाशन्त्यः पतिताः पश्य माधव
११.१८.१६फुल्लपद्मप्रकाशानि पुण्डरीकाक्ष योषिताम्
अनवद्यानि वक्त्राणि तपत्यसुखरश्मिवान्
११.१८.१७ईर्षूणां मम पुत्राणां वासुदेवावरोधनम्
मत्तमातङ्गदर्पाणां पश्यन्त्यद्य पृथग्जनाः
११.१८.१८शतचन्द्राणि चर्माणि ध्वजांश्चादित्यसंनिभान्
रौक्माणि चैव वर्माणि निष्कानपि च काञ्चनान्
११.१८.१९शीर्षत्राणानि चैतानि पुत्राणां मे महीतले
पश्य दीप्तानि गोविन्द पावकान्सुहुतानिव
११.१८.२०एष दुःशासनः शेते शूरेणामित्रघातिना
पीतशोणितसर्वाङ्गो भीमसेनेन पातितः
११.१८.२१गदया वीरघातिन्या पश्य माधव मे सुतम्
द्यूतक्लेशाननुस्मृत्य द्रौपद्या चोदितेन च
११.१८.२२उक्ता ह्यनेन पाञ्चाली सभायां द्यूतनिर्जिता
प्रियं चिकीर्षता भ्रातुः कर्णस्य च जनार्दन
११.१८.२३सहैव सहदेवेन नकुलेनार्जुनेन च
दासभार्यासि पाञ्चालि क्षिप्रं प्रविश नो गृहान्
११.१८.२४ततोऽहमब्रुवं कृष्ण तदा दुर्योधनं नृपम्
मृत्युपाशपरिक्षिप्तं शकुनिं पुत्र वर्जय
११.१८.२५निबोधैनं सुदुर्बुद्धिं मातुलं कलहप्रियम्
क्षिप्रमेनं परित्यज्य पुत्र शाम्यस्व पाण्डवैः
११.१८.२६न बुध्यसे त्वं दुर्बुद्धे भीमसेनममर्षणम्
वाङ्नाराचैस्तुदंस्तीक्ष्णैरुल्काभिरिव कुञ्जरम्
११.१८.२७तानेष रभसः क्रूरो वाक्शल्यानवधारयन्
उत्ससर्ज विषं तेषु सर्पो गोवृषभेष्विव
११.१८.२८एष दुःशासनः शेते विक्षिप्य विपुलौ भुजौ
निहतो भीमसेनेन सिंहेनेव महर्षभः
११.१८.२९अत्यर्थमकरोद्रौद्रं भीमसेनोऽत्यमर्षणः
दुःशासनस्य यत्क्रुद्धोऽपिबच्छोणितमाहवे