११. स्त्रीपर्व
११.१९.१गान्धार्युवाच

११.१९.२एष माधव पुत्रो मे विकर्णः प्राज्ञसंमतः
भूमौ विनिहतः शेते भीमेन शतधा कृतः

११.१९.३गजमध्यगतः शेते विकर्णो मधुसूदन
नीलमेघपरिक्षिप्तः शरदीव दिवाकरः

११.१९.४अस्य चापग्रहेणैष पाणिः कृतकिणो महान्
कथंचिच्छिद्यते गृध्रैरत्तुकामैस्तलत्रवान्

११.१९.५अस्य भार्यामिषप्रेप्सून्गृध्रानेतांस्तपस्विनी
वारयत्यनिशं बाला न च शक्नोति माधव

११.१९.६युवा वृन्दारकः शूरो विकर्णः पुरुषर्षभ
सुखोचितः सुखार्हश्च शेते पांसुषु माधव

११.१९.७कर्णिनालीकनाराचैर्भिन्नमर्माणमाहवे
अद्यापि न जहात्येनं लक्ष्मीर्भरतसत्तमम्

११.१९.८एष संग्रामशूरेण प्रतिज्ञां पालयिष्यता
दुर्मुखोऽभिमुखः शेते हतोऽरिगणहा रणे

११.१९.९तस्यैतद्वदनं कृष्ण श्वापदैरर्धभक्षितम्
विभात्यभ्यधिकं तात सप्तम्यामिव चन्द्रमाः

११.१९.१०शूरस्य हि रणे कृष्ण यस्याननमथेदृशम्
स कथं निहतोऽमित्रैः पांसून्ग्रसति मे सुतः

११.१९.११यस्याहवमुखे सौम्य स्थाता नैवोपपद्यते
स कथं दुर्मुखोऽमित्रैर्हतो विबुधलोकजित्

११.१९.१२चित्रसेनं हतं भूमौ शयानं मधुसूदन
धार्तराष्ट्रमिमं पश्य प्रतिमानं दनुष्मताम्

११.१९.१३तं चित्रमाल्याभरणं युवत्यः शोककर्शिताः
क्रव्यादसंघैः सहिता रुदन्त्यः पर्युपासते

११.१९.१४स्त्रीणां रुदितनिर्घोषः श्वापदानां च गर्जितम्
चित्ररूपमिदं कृष्ण विचित्रं प्रतिभाति मे

११.१९.१५युवा वृन्दारको नित्यं प्रवरस्त्रीनिषेवितः
विविंशतिरसौ शेते ध्वस्तः पांसुषु माधव

११.१९.१६शरसंकृत्तवर्माणं वीरं विशसने हतम्
परिवार्यासते गृध्राः परिविंशा विविंशतिम्

११.१९.१७प्रविश्य समरे वीरः पाण्डवानामनीकिनीम्
आविश्य शयने शेते पुनः सत्पुरुषोचितम्

११.१९.१८स्मितोपपन्नं सुनसं सुभ्रु ताराधिपोपमम्
अतीव शुभ्रं वदनं पश्य कृष्ण विविंशतेः

११.१९.१९यं स्म तं पर्युपासन्ते वसुं वासवयोषितः
क्रीडन्तमिव गन्धर्वं देवकन्याः सहस्रशः

११.१९.२०हन्तारं वीरसेनानां शूरं समितिशोभनम्
निबर्हणममित्राणां दुःसहं विषहेत कः

११.१९.२१दुःसहस्यैतदाभाति शरीरं संवृतं शरैः
गिरिरात्मरुहैः फुल्लैः कर्णिकारैरिवावृतः

११.१९.२२शातकौम्भ्या स्रजा भाति कवचेन च भास्वता
अग्निनेव गिरिः श्वेतो गतासुरपि दुःसहः