११.२०.१गान्धार्युवाच
११.२०.२अध्यर्धगुणमाहुर्यं बले शौर्ये च माधव
पित्रा त्वया च दाशार्ह दृप्तं सिंहमिवोत्कटम्
११.२०.३यो बिभेद चमूमेको मम पुत्रस्य दुर्भिदाम्
स भूत्वा मृत्युरन्येषां स्वयं मृत्युवशं गतः
११.२०.४तस्योपलक्षये कृष्ण कार्ष्णेरमिततेजसः
अभिमन्योर्हतस्यापि प्रभा नैवोपशाम्यति
११.२०.५एषा विराटदुहिता स्नुषा गाण्डीवधन्वनः
आर्ता बाला पतिं वीरं शोच्या शोचत्यनिन्दिता
११.२०.६तमेषा हि समासाद्य भार्या भर्तारमन्तिके
विराटदुहिता कृष्ण पाणिना परिमार्जति
११.२०.७तस्य वक्त्रमुपाघ्राय सौभद्रस्य यशस्विनी
विबुद्धकमलाकारं कम्बुवृत्तशिरोधरम्
११.२०.८काम्यरूपवती चैषा परिष्वजति भामिनी
लज्जमाना पुरेवैनं माध्वीकमदमूर्छिता
११.२०.९तस्य क्षतजसंदिग्धं जातरूपपरिष्कृतम्
विमुच्य कवचं कृष्ण शरीरमभिवीक्षते
११.२०.१०अवेक्षमाणा तं बाला कृष्ण त्वामभिभाषते
अयं ते पुण्डरीकाक्ष सदृशाक्षो निपातितः
११.२०.११बले वीर्ये च सदृशस्तेजसा चैव तेऽनघ
रूपेण च तवात्यर्थं शेते भुवि निपातितः
११.२०.१२अत्यन्तसुकुमारस्य राङ्कवाजिनशायिनः
कच्चिदद्य शरीरं ते भूमौ न परितप्यते
११.२०.१३मातङ्गभुजवर्ष्माणौ ज्याक्षेपकठिनत्वचौ
काञ्चनाङ्गदिनौ शेषे निक्षिप्य विपुलौ भुजौ
११.२०.१४व्यायम्य बहुधा नूनं सुखसुप्तः श्रमादिव
एवं विलपतीमार्तां न हि मामभिभाषसे
११.२०.१५आर्यामार्य सुभद्रां त्वमिमांश्च त्रिदशोपमान्
पितॄन्मां चैव दुःखार्तां विहाय क्व गमिष्यसि
११.२०.१६तस्य शोणितसंदिग्धान्केशानुन्नाम्य पाणिना
उत्सङ्गे वक्त्रमाधाय जीवन्तमिव पृच्छति
स्वस्रीयं वासुदेवस्य पुत्रं गाण्डीवधन्वनः
११.२०.१७कथं त्वां रणमध्यस्थं जघ्नुरेते महारथाः
धिगस्तु क्रूरकर्तॄंस्तान्कृपकर्णजयद्रथान्
११.२०.१८द्रोणद्रौणायनी चोभौ यैरसि व्यसनीकृतः
रथर्षभाणां सर्वेषां कथमासीत्तदा मनः
११.२०.१९बालं त्वां परिवार्यैकं मम दुःखाय जघ्नुषाम्
कथं नु पाण्डवानां च पाञ्चालानां च पश्यताम्
त्वं वीर निधनं प्राप्तो नाथवान्सन्ननाथवत्
११.२०.२०दृष्ट्वा बहुभिराक्रन्दे निहतं त्वामनाथवत्
वीरः पुरुषशार्दूलः कथं जीवति पाण्डवः
११.२०.२१न राज्यलाभो विपुलः शत्रूणां वा पराभवः
प्रीतिं दास्यति पार्थानां त्वामृते पुष्करेक्षण
११.२०.२२तव शस्त्रजिताँल्लोकान्धर्मेण च दमेन च
क्षिप्रमन्वागमिष्यामि तत्र मां प्रतिपालय
११.२०.२३दुर्मरं पुनरप्राप्ते काले भवति केनचित्
यदहं त्वां रणे दृष्ट्वा हतं जीवामि दुर्भगा
११.२०.२४कामिदानीं नरव्याघ्र श्लक्ष्णया स्मितया गिरा
पितृलोके समेत्यान्यां मामिवामन्त्रयिष्यसि
११.२०.२५नूनमप्सरसां स्वर्गे मनांसि प्रमथिष्यसि
परमेण च रूपेण गिरा च स्मितपूर्वया
११.२०.२६प्राप्य पुण्यकृताँल्लोकानप्सरोभिः समेयिवान्
सौभद्र विहरन्काले स्मरेथाः सुकृतानि मे
११.२०.२७एतावानिह संवासो विहितस्ते मया सह
षण्मासान्सप्तमे मासि त्वं वीर निधनं गतः
११.२०.२८इत्युक्तवचनामेतामपकर्षन्ति दुःखिताम्
उत्तरां मोघसंकल्पां मत्स्यराजकुलस्त्रियः
११.२०.२९उत्तरामपकृष्यैनामार्तामार्ततराः स्वयम्
विराटं निहतं दृष्ट्वा क्रोशन्ति विलपन्ति च
११.२०.३०द्रोणास्त्रशरसंकृत्तं शयानं रुधिरोक्षितम्
विराटं वितुदन्त्येते गृध्रगोमायुवायसाः
११.२०.३१वितुद्यमानं विहगैर्विराटमसितेक्षणाः
न शक्नुवन्ति विवशा निवर्तयितुमातुराः
११.२०.३२आसामातपतप्तानामायासेन च योषिताम्
श्रमेण च विवर्णानां रूपाणां विगतं वपुः
११.२०.३३उत्तरं चाभिमन्युं च काम्बोजं च सुदक्षिणम्
शिशूनेतान्हतान्पश्य लक्ष्मणं च सुदर्शनम्
आयोधनशिरोमध्ये शयानं पश्य माधव