११.२६.१वासुदेव उवाच
११.२६.२उत्तिष्ठोत्तिष्ठ गान्धारि मा च शोके मनः कृथाः
तवैव ह्यपराधेन कुरवो निधनं गताः
११.२६.३या त्वं पुत्रं दुरात्मानमीर्षुमत्यन्तमानिनम्
दुर्योधनं पुरस्कृत्य दुष्कृतं साधु मन्यसे
११.२६.४निष्ठुरं वैरपरुषं वृद्धानां शासनातिगम्
कथमात्मकृतं दोषं मय्याधातुमिहेच्छसि
११.२६.५मृतं वा यदि वा नष्टं योऽतीतमनुशोचति
दुःखेन लभते दुःखं द्वावनर्थौ प्रपद्यते
११.२६.६तपोर्थीयं ब्राह्मणी धत्त गर्भं; गौर्वोढारं धावितारं तुरंगी
शूद्रा दासं पशुपालं तु वैश्या; वधार्थीयं त्वद्विधा राजपुत्री
११.२६.७वैशंपायन उवाच
११.२६.८तच्छ्रुत्वा वासुदेवस्य पुनरुक्तं वचोऽप्रियम्
तूष्णीं बभूव गान्धारी शोकव्याकुललोचना
११.२६.९धृतराष्ट्रस्तु राजर्षिर्निगृह्याबुद्धिजं तमः
पर्यपृच्छत धर्मात्मा धर्मराजं युधिष्ठिरम्
११.२६.१०जीवतां परिमाणज्ञः सैन्यानामसि पाण्डव
हतानां यदि जानीषे परिमाणं वदस्व मे
११.२६.११युधिष्ठिर उवाच
११.२६.१२दशायुतानामयुतं सहस्राणि च विंशतिः
कोट्यः षष्टिश्च षट्चैव येऽस्मिन्राजमृधे हताः
११.२६.१३अलक्ष्याणां तु वीराणां सहस्राणि चतुर्दश
दश चान्यानि राजेन्द्र शतं षष्टिश्च पञ्च च
११.२६.१४धृतराष्ट्र उवाच
११.२६.१५युधिष्ठिर गतिं कां ते गताः पुरुषसत्तमाः
आचक्ष्व मे महाबाहो सर्वज्ञो ह्यसि मे मतः
११.२६.१६युधिष्ठिर उवाच
११.२६.१७यैर्हुतानि शरीराणि हृष्टैः परमसंयुगे
देवराजसमाँल्लोकान्गतास्ते सत्यविक्रमाः
११.२६.१८ये त्वहृष्टेन मनसा मर्तव्यमिति भारत
युध्यमाना हताः संख्ये ते गन्धर्वैः समागताः
११.२६.१९ये तु संग्रामभूमिष्ठा याचमानाः पराङ्मुखाः
शस्त्रेण निधनं प्राप्ता गतास्ते गुह्यकान्प्रति
११.२६.२०पीड्यमानाः परैर्ये तु हीयमाना निरायुधाः
ह्रीनिषेधा महात्मानः परानभिमुखा रणे
११.२६.२१छिद्यमानाः शितैः शस्त्रैः क्षत्रधर्मपरायणाः
गतास्ते ब्रह्मसदनं हता वीराः सुवर्चसः
११.२६.२२ये तत्र निहता राजन्नन्तरायोधनं प्रति
यथा कथंचित्ते राजन्संप्राप्ता उत्तरान्कुरून्
११.२६.२३धृतराष्ट्र उवाच
११.२६.२४केन ज्ञानबलेनैवं पुत्र पश्यसि सिद्धवत्
तन्मे वद महाबाहो श्रोतव्यं यदि वै मया
११.२६.२५युधिष्ठिर उवाच
११.२६.२६निदेशाद्भवतः पूर्वं वने विचरता मया
तीर्थयात्राप्रसङ्गेन संप्राप्तोऽयमनुग्रहः
११.२६.२७देवर्षिर्लोमशो दृष्टस्ततः प्राप्तोऽस्म्यनुस्मृतिम्
दिव्यं चक्षुरपि प्राप्तं ज्ञानयोगेन वै पुरा
११.२६.२८धृतराष्ट्र उवाच
११.२६.२९येऽत्रानाथा जनस्यास्य सनाथा ये च भारत
कच्चित्तेषां शरीराणि धक्ष्यन्ति विधिपूर्वकम्
११.२६.३०न येषां सन्ति कर्तारो न च येऽत्राहिताग्नयः
वयं च कस्य कुर्यामो बहुत्वात्तात कर्मणः
११.२६.३१यान्सुपर्णाश्च गृध्राश्च विकर्षन्ति ततस्ततः
तेषां तु कर्मणा लोका भविष्यन्ति युधिष्ठिर
११.२६.३२वैशंपायन उवाच
११.२६.३३एवमुक्तो महाप्राज्ञः कुन्तीपुत्रो युधिष्ठिरः
आदिदेश सुधर्माणं धौम्यं सूतं च संजयम्
११.२६.३४विदुरं च महाबुद्धिं युयुत्सुं चैव कौरवम्
इन्द्रसेनमुखांश्चैव भृत्यान्सूतांश्च सर्वशः
११.२६.३५भवन्तः कारयन्त्वेषां प्रेतकार्याणि सर्वशः
यथा चानाथवत्किंचिच्छरीरं न विनश्यति
११.२६.३६शासनाद्धर्मराजस्य क्षत्ता सूतश्च संजयः
सुधर्मा धौम्यसहित इन्द्रसेनादयस्तथा
११.२६.३७चन्दनागुरुकाष्ठानि तथा कालीयकान्युत
घृतं तैलं च गन्धांश्च क्षौमाणि वसनानि च
११.२६.३८समाहृत्य महार्हाणि दारूणां चैव संचयान्
रथांश्च मृदितांस्तत्र नानाप्रहरणानि च
११.२६.३९चिताः कृत्वा प्रयत्नेन यथामुख्यान्नराधिपान्
दाहयामासुरव्यग्रा विधिदृष्टेन कर्मणा
११.२६.४०दुर्योधनं च राजानं भ्रातॄंश्चास्य शताधिकान्
शल्यं शलं च राजानं भूरिश्रवसमेव च
११.२६.४१जयद्रथं च राजानमभिमन्युं च भारत
दौःशासनिं लक्ष्मणं च धृष्टकेतुं च पार्थिवम्
११.२६.४२बृहन्तं सोमदत्तं च सृञ्जयांश्च शताधिकान्
राजानं क्षेमधन्वानं विराटद्रुपदौ तथा
११.२६.४३शिखण्डिनं च पाञ्चाल्यं धृष्टद्युम्नं च पार्षतम्
युधामन्युं च विक्रान्तमुत्तमौजसमेव च
११.२६.४४कौसल्यं द्रौपदेयांश्च शकुनिं चापि सौबलम्
अचलं वृषकं चैव भगदत्तं च पार्थिवम्
११.२६.४५कर्णं वैकर्तनं चैव सहपुत्रममर्षणम्
केकयांश्च महेष्वासांस्त्रिगर्तांश्च महारथान्
११.२६.४६घटोत्कचं राक्षसेन्द्रं बकभ्रातरमेव च
अलम्बुसं च राजानं जलसंधं च पार्थिवम्
११.२६.४७अन्यांश्च पार्थिवान्राजञ्शतशोऽथ सहस्रशः
घृतधाराहुतैर्दीप्तैः पावकैः समदाहयन्
११.२६.४८पितृमेधाश्च केषांचिदवर्तन्त महात्मनाम्
सामभिश्चाप्यगायन्त तेऽन्वशोच्यन्त चापरैः
११.२६.४९साम्नामृचां च नादेन स्त्रीणां च रुदितस्वनैः
कश्मलं सर्वभूतानां निशायां समपद्यत
११.२६.५०ते विधूमाः प्रदीप्ताश्च दीप्यमानाश्च पावकाः
नभसीवान्वदृश्यन्त ग्रहास्तन्वभ्रसंवृताः
११.२६.५१ये चाप्यनाथास्तत्रासन्नानादेशसमागताः
तांश्च सर्वान्समानाय्य राशीन्कृत्वा सहस्रशः
११.२६.५२चित्वा दारुभिरव्यग्रः प्रभूतैः स्नेहतापितैः
दाहयामास विदुरो धर्मराजस्य शासनात्
११.२६.५३कारयित्वा क्रियास्तेषां कुरुराजो युधिष्ठिरः
धृतराष्ट्रं पुरस्कृत्य गङ्गामभिमुखोऽगमत्