१२. शान्तिपर्व
१२.९९.१युधिष्ठिर उवाच

१२.९९.२के लोका युध्यमानानां शूराणामनिवर्तिनाम्
भवन्ति निधनं प्राप्य तन्मे ब्रूहि पितामह

१२.९९.३भीष्म उवाच

१२.९९.४अत्राप्युदाहरन्तीममितिहासं पुरातनम्
अम्बरीषस्य संवादमिन्द्रस्य च युधिष्ठिर

१२.९९.५अम्बरीषो हि नाभागः स्वर्गं गत्वा सुदुर्लभम्
ददर्श सुरलोकस्थं शक्रेण सचिवं सह

१२.९९.६सर्वतेजोमयं दिव्यं विमानवरमास्थितम्
उपर्युपरि गच्छन्तं स्वं वै सेनापतिं प्रभुम्

१२.९९.७स दृष्ट्वोपरि गच्छन्तं सेनापतिमुदारधीः
ऋद्धिं दृष्ट्वा सुदेवस्य विस्मितः प्राह वासवम्

१२.९९.८सागरान्तां महीं कृत्स्नामनुशिष्य यथाविधि
चातुर्वर्ण्ये यथाशास्त्रं प्रवृत्तो धर्मकाम्यया

१२.९९.९ब्रह्मचर्येण घोरेण आचार्यकुलसेवया
वेदानधीत्य धर्मेण राजशास्त्रं च केवलम्

१२.९९.१०अतिथीनन्नपानेन पितॄंश्च स्वधया तथा
ऋषीन्स्वाध्यायदीक्षाभिर्देवान्यज्ञैरनुत्तमैः

१२.९९.११क्षत्रधर्मे स्थितो भूत्वा यथाशास्त्रं यथाविधि
उदीक्षमाणः पृतनां जयामि युधि वासव

१२.९९.१२देवराज सुदेवोऽयं मम सेनापतिः पुरा
आसीद्योधः प्रशान्तात्मा सोऽयं कस्मादतीव माम्

१२.९९.१३नानेन क्रतुभिर्मुख्यैरिष्टं नैव द्विजातयः
तर्पिता विधिवच्छक्र सोऽयं कस्मादतीव माम्

१२.९९.१४इन्द्र उवाच

१२.९९.१५एतस्य विततस्तात सुदेवस्य बभूव ह
संग्रामयज्ञः सुमहान्यश्चान्यो युध्यते नरः

१२.९९.१६संनद्धो दीक्षितः सर्वो योधः प्राप्य चमूमुखम्
युद्धयज्ञाधिकारस्थो भवतीति विनिश्चयः

१२.९९.१७अम्बरीष उवाच

१२.९९.१८कानि यज्ञे हवींष्यत्र किमाज्यं का च दक्षिणा
ऋत्विजश्चात्र के प्रोक्तास्तन्मे ब्रूहि शतक्रतो

१२.९९.१९इन्द्र उवाच

१२.९९.२०ऋत्विजः कुञ्जरास्तत्र वाजिनोऽध्वर्यवस्तथा
हवींषि परमांसानि रुधिरं त्वाज्यमेव च

१२.९९.२१सृगालगृध्रकाकोलाः सदस्यास्तत्र सत्रिणः
आज्यशेषं पिबन्त्येते हविः प्राश्नन्ति चाध्वरे

१२.९९.२२प्रासतोमरसंघाताः खड्गशक्तिपरश्वधाः
ज्वलन्तो निशिताः पीताः स्रुचस्तस्याथ सत्रिणः

१२.९९.२३चापवेगायतस्तीक्ष्णः परकायावदारणः
ऋजुः सुनिशितः पीतः सायकोऽस्य स्रुवो महान्

१२.९९.२४द्वीपिचर्मावनद्धश्च नागदन्तकृतत्सरुः
हस्तिहस्तगतः खड्गः स्फ्यो भवेत्तस्य संयुगे

१२.९९.२५ज्वलितैर्निशितैः पीतैः प्रासशक्तिपरश्वधैः
शैक्यायसमयैस्तीक्ष्णैरभिघातो भवेद्वसु

१२.९९.२६आवेगाद्यत्तु रुधिरं संग्रामे स्यन्दते भुवि
सास्य पूर्णाहुतिर्होत्रे समृद्धा सर्वकामधुक्

१२.९९.२७छिन्धि भिन्धीति यस्यैतच्छ्रूयते वाहिनीमुखे
सामानि सामगास्तस्य गायन्ति यमसादने

१२.९९.२८हविर्धानं तु तस्याहुः परेषां वाहिनीमुखम्
कुञ्जराणां हयानां च वर्मिणां च समुच्चयः
अग्निः श्येनचितो नाम तस्य यज्ञे विधीयते

१२.९९.२९उत्तिष्ठति कबन्धोऽत्र सहस्रे निहते तु यः
स यूपस्तस्य शूरस्य खादिरोऽष्टाश्रिरुच्यते

१२.९९.३०इडोपहूतं क्रोशन्ति कुञ्जरा अङ्कुशेरिताः
व्याघुष्टतलनादेन वषट्कारेण पार्थिव
उद्गाता तत्र संग्रामे त्रिसामा दुन्दुभिः स्मृतः

१२.९९.३१ब्रह्मस्वे ह्रियमाणे यः प्रियां युद्धे तनुं त्यजेत्
आत्मानं यूपमुच्छ्रित्य स यज्ञोऽनन्तदक्षिणः

१२.९९.३२भर्तुरर्थे तु यः शूरो विक्रमेद्वाहिनीमुखे
भयान्न च निवर्तेत तस्य लोका यथा मम

१२.९९.३३नीलचन्द्राकृतैः खड्गैर्बाहुभिः परिघोपमैः
यस्य वेदिरुपस्तीर्णा तस्य लोका यथा मम

१२.९९.३४यस्तु नावेक्षते कंचित्सहायं विजये स्थितः
विगाह्य वाहिनीमध्यं तस्य लोका यथा मम

१२.९९.३५यस्य तोमरसंघाटा भेरीमण्डूककच्छपा
वीरास्थिशर्करा दुर्गा मांसशोणितकर्दमा

१२.९९.३६असिचर्मप्लवा सिन्धुः केशशैवलशाद्वला
अश्वनागरथैश्चैव संभिन्नैः कृतसंक्रमा

१२.९९.३७पताकाध्वजवानीरा हतवाहनवाहिनी
शोणितोदा सुसंपूर्णा दुस्तरा पारगैर्नरैः

१२.९९.३८हतनागमहानक्रा परलोकवहाशिवा
ऋष्टिखड्गध्वजानूका गृध्रकङ्कवडप्लवा

१२.९९.३९पुरुषादानुचरिता भीरूणां कश्मलावहा
नदी योधमहायज्ञे तदस्यावभृथं स्मृतम्

१२.९९.४०वेदी यस्य त्वमित्राणां शिरोभिरवकीर्यते
अश्वस्कन्धैर्गजस्कन्धैस्तस्य लोका यथा मम

१२.९९.४१पत्नीशाला कृता यस्य परेषां वाहिनीमुखम्
हविर्धानं स्ववाहिन्यस्तदस्याहुर्मनीषिणः

१२.९९.४२सदश्चान्तरयोधाग्निराग्नीध्रश्चोत्तरां दिशम्
शत्रुसेनाकलत्रस्य सर्वलोकानदूरतः

१२.९९.४३यदा तूभयतो व्यूहो भवत्याकाशमग्रतः
सास्य वेदी तथा यज्ञे नित्यं वेदास्त्रयोऽग्नयः

१२.९९.४४यस्तु योधः परावृत्तः संत्रस्तो हन्यते परैः
अप्रतिष्ठं स नरकं याति नास्त्यत्र संशयः

१२.९९.४५यस्य शोणितवेगेन नदी स्यात्समभिप्लुता
केशमांसास्थिसंकीर्णा स गच्छेत्परमां गतिम्

१२.९९.४६यस्तु सेनापतिं हत्वा तद्यानमधिरोहति
स विष्णुविक्रमक्रामी बृहस्पतिसमः क्रतुः

१२.९९.४७नायकं वा प्रमाणं वा यो वा स्यात्तत्र पूजितः
जीवग्राहं निगृह्णाति तस्य लोका यथा मम

१२.९९.४८आहवे निहतं शूरं न शोचेत कदाचन
अशोच्यो हि हतः शूरः स्वर्गलोके महीयते

१२.९९.४९न ह्यन्नं नोदकं तस्य न स्नानं नाप्यशौचकम्
हतस्य कर्तुमिच्छन्ति तस्य लोकाञ्शृणुष्व मे

१२.९९.५०वराप्सरःसहस्राणि शूरमायोधने हतम्
त्वरमाणा हि धावन्ति मम भर्ता भवेदिति

१२.९९.५१एतत्तपश्च पुण्यं च धर्मश्चैव सनातनः
चत्वारश्चाश्रमास्तस्य यो युद्धे न पलायते

१२.९९.५२वृद्धं बलं न हन्तव्यं नैव स्त्री न च वै द्विजः
तृणपूर्णमुखश्चैव तवास्मीति च यो वदेत्

१२.९९.५३अहं वृत्रं बलं पाकं शतमायं विरोचनम्
दुरावार्यं च नमुचिं नैकमायं च शम्बरम्

१२.९९.५४विप्रचित्तिं च दैतेयं दनोः पुत्रांश्च सर्वशः
प्रह्रादं च निहत्याजौ ततो देवाधिपोऽभवम्

१२.९९.५५भीष्म उवाच

१२.९९.५६इत्येतच्छक्रवचनं निशम्य प्रतिगृह्य च
योधानामात्मनः सिद्धिमम्बरीषोऽभिपन्नवान्