१२. शान्तिपर्व
१२.११०.१युधिष्ठिर उवाच

१२.११०.२कथं धर्मे स्थातुमिच्छन्नरो वर्तेत भारत
विद्वञ्जिज्ञासमानाय प्रब्रूहि भरतर्षभ

१२.११०.३सत्यं चैवानृतं चोभे लोकानावृत्य तिष्ठतः
तयोः किमाचरेद्राजन्पुरुषो धर्मनिश्चितः

१२.११०.४किं स्वित्सत्यं किमनृतं किं स्विद्धर्म्यं सनातनम्
कस्मिन्काले वदेत्सत्यं कस्मिन्कालेऽनृतं वदेत्

१२.११०.५भीष्म उवाच

१२.११०.६सत्यस्य वचनं साधु न सत्याद्विद्यते परम्
यद्भूलोके सुदुर्ज्ञातं तत्ते वक्ष्यामि भारत

१२.११०.७भवेत्सत्यं न वक्तव्यं वक्तव्यमनृतं भवेत्
यत्रानृतं भवेत्सत्यं सत्यं वाप्यनृतं भवेत्

१२.११०.८तादृशे मुह्यते बालो यत्र सत्यमनिष्ठितम्
सत्यानृते विनिश्चित्य ततो भवति धर्मवित्

१२.११०.९अप्यनार्योऽकृतप्रज्ञः पुरुषोऽपि सुदारुणः
सुमहत्प्राप्नुयात्पुण्यं बलाकोऽन्धवधादिव

१२.११०.१०किमाश्चर्यं च यन्मूढो धर्मकामोऽप्यधर्मवित्
सुमहत्प्राप्नुयात्पापं गङ्गायामिव कौशिकः

१२.११०.११तादृशोऽयमनुप्रश्नो यत्र धर्मः सुदुर्वचः
दुष्करः प्रतिसंख्यातुं तर्केणात्र व्यवस्यति

१२.११०.१२प्रभावार्थाय भूतानां धर्मप्रवचनं कृतम्
यत्स्यादहिंसासंयुक्तं स धर्म इति निश्चयः

१२.११०.१३धारणाद्धर्म इत्याहुर्धर्मेण विधृताः प्रजाः
यत्स्याद्धारणसंयुक्तं स धर्म इति निश्चयः

१२.११०.१४श्रुतिधर्म इति ह्येके नेत्याहुरपरे जनाः
न तु तत्प्रत्यसूयामो न हि सर्वं विधीयते

१२.११०.१५येऽन्यायेन जिहीर्षन्तो धनमिच्छन्ति कर्हिचित्
तेभ्यस्तन्न तदाख्येयं स धर्म इति निश्चयः

१२.११०.१६अकूजनेन चेन्मोक्षो नात्र कूजेत्कथंचन
अवश्यं कूजितव्यं वा शङ्केरन्वाप्यकूजनात्

१२.११०.१७श्रेयस्तत्रानृतं वक्तुं सत्यादिति विचारितम्
यः पापैः सह संबन्धान्मुच्यते शपथादिति

१२.११०.१८न च तेभ्यो धनं देयं शक्ये सति कथंचन
पापेभ्यो हि धनं दत्तं दातारमपि पीडयेत्

१२.११०.१९स्वशरीरोपरोधेन वरमादातुमिच्छतः
सत्यसंप्रतिपत्त्यर्थं ये ब्रूयुः साक्षिणः क्वचित्
अनुक्त्वा तत्र तद्वाच्यं सर्वे तेऽनृतवादिनः

१२.११०.२०प्राणात्यये विवाहे च वक्तव्यमनृतं भवेत्
अर्थस्य रक्षणार्थाय परेषां धर्मकारणात्
परेषां धर्ममाकाङ्क्षन्नीचः स्याद्धर्मभिक्षुकः

१२.११०.२१प्रतिश्रुत्य तु दातव्यं श्वःकार्यस्तु बलात्कृतः
यः कश्चिद्धर्मसमयात्प्रच्युतोऽधर्ममास्थितः

१२.११०.२२शठः स्वधर्ममुत्सृज्य तमिच्छेदुपजीवितुम्
सर्वोपायैर्निहन्तव्यः पापो निकृतिजीवनः

१२.११०.२३धनमित्येव पापानां सर्वेषामिह निश्चयः
येऽविषह्या ह्यसंभोज्या निकृत्या पतनं गताः

१२.११०.२४च्युता देवमनुष्येभ्यो यथा प्रेतास्तथैव ते
धनादानाद्दुःखतरं जीविताद्विप्रयोजनम्

१२.११०.२५अयं वो रोचतां धर्म इति वाच्यः प्रयत्नतः
न कश्चिदस्ति पापानां धर्म इत्येष निश्चयः

१२.११०.२६तथागतं च यो हन्यान्नासौ पापेन लिप्यते
स्वकर्मणा हतं हन्ति हत एव स हन्यते
तेषु यः समयं कश्चित्कुर्वीत हतबुद्धिषु

१२.११०.२७यथा काकश्च गृध्रश्च तथैवोपधिजीविनः
ऊर्ध्वं देहविमोक्षान्ते भवन्त्येतासु योनिषु

१२.११०.२८यस्मिन्यथा वर्तते यो मनुष्य;स्तस्मिंस्तथा वर्तितव्यं स धर्मः
मायाचारो मायया वर्तितव्यः; साध्वाचारः साधुना प्रत्युदेयः