१२. शान्तिपर्व
१२.११.१अर्जुन उवाच

१२.११.२अत्रैवोदाहरन्तीममितिहासं पुरातनम्
तापसैः सह संवादं शक्रस्य भरतर्षभ

१२.११.३केचिद्गृहान्परित्यज्य वनमभ्यगमन्द्विजाः
अजातश्मश्रवो मन्दाः कुले जाताः प्रवव्रजुः

१२.११.४धर्मोऽयमिति मन्वाना ब्रह्मचर्ये व्यवस्थिताः
त्यक्त्वा गृहान्पितॄंश्चैव तानिन्द्रोऽन्वकृपायत

१२.११.५तानाबभाषे भगवान्पक्षी भूत्वा हिरण्मयः
सुदुष्करं मनुष्यैश्च यत्कृतं विघसाशिभिः

१२.११.६पुण्यं च बत कर्मैषां प्रशस्तं चैव जीवितम्
संसिद्धास्ते गतिं मुख्यां प्राप्ता धर्मपरायणाः

१२.११.७ऋषय ऊचुः

१२.११.८अहो बतायं शकुनिर्विघसाशान्प्रशंसति
अस्मान्नूनमयं शास्ति वयं च विघसाशिनः

१२.११.९शकुनिरुवाच

१२.११.१०नाहं युष्मान्प्रशंसामि पङ्कदिग्धान्रजस्वलान्
उच्छिष्टभोजिनो मन्दानन्ये वै विघसाशिनः

१२.११.११ऋषय ऊचुः

१२.११.१२इदं श्रेयः परमिति वयमेवाभ्युपास्महे
शकुने ब्रूहि यच्छ्रेयो भृशं वै श्रद्दधाम ते

१२.११.१३शकुनिरुवाच

१२.११.१४यदि मां नाभिशङ्कध्वं विभज्यात्मानमात्मना
ततोऽहं वः प्रवक्ष्यामि याथातथ्यं हितं वचः

१२.११.१५ऋषय ऊचुः

१२.११.१६शृणुमस्ते वचस्तात पन्थानो विदितास्तव
नियोगे चैव धर्मात्मन्स्थातुमिच्छाम शाधि नः

१२.११.१७शकुनिरुवाच

१२.११.१८चतुष्पदां गौः प्रवरा लोहानां काञ्चनं वरम्
शब्दानां प्रवरो मन्त्रो ब्राह्मणो द्विपदां वरः

१२.११.१९मन्त्रोऽयं जातकर्मादि ब्राह्मणस्य विधीयते
जीवतो यो यथाकालं श्मशाननिधनादिति

१२.११.२०कर्माणि वैदिकान्यस्य स्वर्ग्यः पन्थास्त्वनुत्तमः
अथ सर्वाणि कर्माणि मन्त्रसिद्धानि चक्षते

१२.११.२१आम्नायदृढवादीनि तथा सिद्धिरिहेष्यते
मासार्धमासा ऋतव आदित्यशशितारकम्

१२.११.२२ईहन्ते सर्वभूतानि तदृतं कर्मसङ्गिनाम्
सिद्धिक्षेत्रमिदं पुण्यमयमेवाश्रमो महान्

१२.११.२३अथ ये कर्म निन्दन्तो मनुष्याः कापथं गताः
मूढानामर्थहीनानां तेषामेनस्तु विद्यते

१२.११.२४देववंशान्पितृवंशान्ब्रह्मवंशांश्च शाश्वतान्
संत्यज्य मूढा वर्तन्ते ततो यान्त्यश्रुतीपथम्

१२.११.२५एतद्वोऽस्तु तपो युक्तं ददानीत्यृषिचोदितम्
तस्मात्तदध्यवसतस्तपस्वि तप उच्यते

१२.११.२६देववंशान्पितृवंशान्ब्रह्मवंशांश्च शाश्वतान्
संविभज्य गुरोश्चर्यां तद्वै दुष्करमुच्यते

१२.११.२७देवा वै दुष्करं कृत्वा विभूतिं परमां गताः
तस्माद्गार्हस्थ्यमुद्वोढुं दुष्करं प्रब्रवीमि वः

१२.११.२८तपः श्रेष्ठं प्रजानां हि मूलमेतन्न संशयः
कुटुम्बविधिनानेन यस्मिन्सर्वं प्रतिष्ठितम्

१२.११.२९एतद्विदुस्तपो विप्रा द्वंद्वातीता विमत्सराः
तस्माद्वनं मध्यमं च लोकेषु तप उच्यते

१२.११.३०दुराधर्षं पदं चैव गच्छन्ति विघसाशिनः
सायंप्रातर्विभज्यान्नं स्वकुटुम्बे यथाविधि

१२.११.३१दत्त्वातिथिभ्यो देवेभ्यः पितृभ्यः स्वजनस्य च
अवशिष्टानि येऽश्नन्ति तानाहुर्विघसाशिनः

१२.११.३२तस्मात्स्वधर्ममास्थाय सुव्रताः सत्यवादिनः
लोकस्य गुरवो भूत्वा ते भवन्त्यनुपस्कृताः

१२.११.३३त्रिदिवं प्राप्य शक्रस्य स्वर्गलोके विमत्सराः
वसन्ति शाश्वतीर्वर्षा जना दुष्करकारिणः

१२.११.३४ततस्ते तद्वचः श्रुत्वा तस्य धर्मार्थसंहितम्
उत्सृज्य नास्तिकगतिं गार्हस्थ्यं धर्ममाश्रिताः

१२.११.३५तस्मात्त्वमपि दुर्धर्ष धैर्यमालम्ब्य शाश्वतम्
प्रशाधि पृथिवीं कृत्स्नां हतामित्रां नरोत्तम