१२.१२.१वैशंपायन उवाच
१२.१२.२अर्जुनस्य वचः श्रुत्वा नकुलो वाक्यमब्रवीत्
राजानमभिसंप्रेक्ष्य सर्वधर्मभृतां वरम्
१२.१२.३अनुरुध्य महाप्राज्ञो भ्रातुश्चित्तमरिंदमः
व्यूढोरस्को महाबाहुस्ताम्रास्यो मितभाषिता
१२.१२.४विशाखयूपे देवानां सर्वेषामग्नयश्चिताः
तस्माद्विद्धि महाराज देवान्कर्मपथि स्थितान्
१२.१२.५अनास्तिकानास्तिकानां प्राणदाः पितरश्च ये
तेऽपि कर्मैव कुर्वन्ति विधिं पश्यस्व पार्थिव
वेदवादापविद्धांस्तु तान्विद्धि भृशनास्तिकान्
१२.१२.६न हि वेदोक्तमुत्सृज्य विप्रः सर्वेषु कर्मसु
देवयानेन नाकस्य पृष्ठमाप्नोति भारत
१२.१२.७अत्याश्रमानयं सर्वानित्याहुर्वेदनिश्चयाः
ब्राह्मणाः श्रुतिसंपन्नास्तान्निबोध जनाधिप
१२.१२.८वित्तानि धर्मलब्धानि क्रतुमुख्येष्ववासृजन्
कृतात्मसु महाराज स वै त्यागी स्मृतो नरः
१२.१२.९अनवेक्ष्य सुखादानं तथैवोर्ध्वं प्रतिष्ठितः
आत्मत्यागी महाराज स त्यागी तामसः प्रभो
१२.१२.१०अनिकेतः परिपतन्वृक्षमूलाश्रयो मुनिः
अपाचकः सदा योगी स त्यागी पार्थ भिक्षुकः
१२.१२.११क्रोधहर्षावनादृत्य पैशुन्यं च विशां पते
विप्रो वेदानधीते यः स त्यागी गुरुपूजकः
१२.१२.१२आश्रमांस्तुलया सर्वान्धृतानाहुर्मनीषिणः
एकतस्ते त्रयो राजन्गृहस्थाश्रम एकतः
१२.१२.१३समीक्षते तु योऽर्थं वै कामं स्वर्गं च भारत
अयं पन्था महर्षीणामियं लोकविदां गतिः
१२.१२.१४इति यः कुरुते भावं स त्यागी भरतर्षभ
न यः परित्यज्य गृहान्वनमेति विमूढवत्
१२.१२.१५यदा कामान्समीक्षेत धर्मवैतंसिकोऽनृजुः
अथैनं मृत्युपाशेन कण्ठे बध्नाति मृत्युराट्
१२.१२.१६अभिमानकृतं कर्म नैतत्फलवदुच्यते
त्यागयुक्तं महाराज सर्वमेव महाफलम्
१२.१२.१७शमो दमस्तपो दानं सत्यं शौचमथार्जवम्
यज्ञो धृतिश्च धर्मश्च नित्यमार्षो विधिः स्मृतः
१२.१२.१८पितृदेवातिथिकृते समारम्भोऽत्र शस्यते
अत्रैव हि महाराज त्रिवर्गः केवलं फलम्
१२.१२.१९एतस्मिन्वर्तमानस्य विधौ विप्रनिषेविते
त्यागिनः प्रसृतस्येह नोच्छित्तिर्विद्यते क्वचित्
१२.१२.२०असृजद्धि प्रजा राजन्प्रजापतिरकल्मषः
मां यक्ष्यन्तीति शान्तात्मा यज्ञैर्विविधदक्षिणैः
१२.१२.२१वीरुधश्चैव वृक्षांश्च यज्ञार्थं च तथौषधीः
पशूंश्चैव तथा मेध्यान्यज्ञार्थानि हवींषि च
१२.१२.२२गृहस्थाश्रमिणस्तच्च यज्ञकर्म विरोधकम्
तस्माद्गार्हस्थ्यमेवेह दुष्करं दुर्लभं तथा
१२.१२.२३तत्संप्राप्य गृहस्था ये पशुधान्यसमन्विताः
न यजन्ते महाराज शाश्वतं तेषु किल्बिषम्
१२.१२.२४स्वाध्याययज्ञा ऋषयो ज्ञानयज्ञास्तथापरे
अथापरे महायज्ञान्मनसैव वितन्वते
१२.१२.२५एवं दानसमाधानं मार्गमातिष्ठतो नृप
द्विजातेर्ब्रह्मभूतस्य स्पृहयन्ति दिवौकसः
१२.१२.२६स रत्नानि विचित्राणि संभृतानि ततस्ततः
मखेष्वनभिसंत्यज्य नास्तिक्यमभिजल्पसि
कुटुम्बमास्थिते त्यागं न पश्यामि नराधिप
१२.१२.२७राजसूयाश्वमेधेषु सर्वमेधेषु वा पुनः
य चान्ये क्रतवस्तात ब्राह्मणैरभिपूजिताः
तैर्यजस्व महाराज शक्रो देवपतिर्यथा
१२.१२.२८राज्ञः प्रमाददोषेण दस्युभिः परिमुष्यताम्
अशरण्यः प्रजानां यः स राजा कलिरुच्यते
१२.१२.२९अश्वान्गाश्चैव दासीश्च करेणूश्च स्वलंकृताः
ग्रामाञ्जनपदांश्चैव क्षेत्राणि च गृहाणि च
१२.१२.३०अप्रदाय द्विजातिभ्यो मात्सर्याविष्टचेतसः
वयं ते राजकलयो भविष्यामो विशां पते
१२.१२.३१अदातारोऽशरण्याश्च राजकिल्बिषभागिनः
दुःखानामेव भोक्तारो न सुखानां कदाचन
१२.१२.३२अनिष्ट्वा च महायज्ञैरकृत्वा च पितृस्वधाम्
तीर्थेष्वनभिसंत्यज्य प्रव्रजिष्यसि चेदथ
१२.१२.३३छिन्नाभ्रमिव गन्तासि विलयं मारुतेरितम्
लोकयोरुभयोर्भ्रष्टो ह्यन्तराले व्यवस्थितः
१२.१२.३४अन्तर्बहिश्च यत्किंचिन्मनोव्यासङ्गकारकम्
परित्यज्य भवेत्त्यागी न यो हित्वा प्रतिष्ठते
१२.१२.३५एतस्मिन्वर्तमानस्य विधौ विप्रनिषेविते
ब्राह्मणस्य महाराज नोच्छित्तिर्विद्यते क्वचित्
१२.१२.३६निहत्य शत्रूंस्तरसा समृद्धा;न्शक्रो यथा दैत्यबलानि संख्ये
कः पार्थ शोचेन्निरतः स्वधर्मे; पूर्वैः स्मृते पार्थिव शिष्टजुष्टे
१२.१२.३७क्षात्रेण धर्मेण पराक्रमेण; जित्वा महीं मन्त्रविद्भ्यः प्रदाय
नाकस्य पृष्ठेऽसि नरेन्द्र गन्ता; न शोचितव्यं भवताद्य पार्थ