१२.१११.१युधिष्ठिर उवाच
१२.१११.२क्लिश्यमानेषु भूतेषु तैस्तैर्भावैस्ततस्ततः
दुर्गाण्यतितरेद्येन तन्मे ब्रूहि पितामह
१२.१११.३भीष्म उवाच
१२.१११.४आश्रमेषु यथोक्तेषु यथोक्तं ये द्विजातयः
वर्तन्ते संयतात्मानो दुर्गाण्यतितरन्ति ते
१२.१११.५ये दम्भान्न जपन्ति स्म येषां वृत्तिश्च संवृता
विषयांश्च निगृह्णन्ति दुर्गाण्यतितरन्ति ते
१२.१११.६वासयन्त्यतिथीन्नित्यं नित्यं ये चानसूयकाः
नित्यं स्वाध्यायशीलाश्च दुर्गाण्यतितरन्ति ते
१२.१११.७मातापित्रोश्च ये वृत्तिं वर्तन्ते धर्मकोविदाः
वर्जयन्ति दिवास्वप्नं दुर्गाण्यतितरन्ति ते
१२.१११.८स्वेषु दारेषु वर्तन्ते न्यायवृत्तेष्वृतावृतौ
अग्निहोत्रपराः सन्तो दुर्गाण्यतितरन्ति ते
१२.१११.९ये न लोभान्नयन्त्यर्थान्राजानो रजसावृताः
विषयान्परिरक्षन्तो दुर्गाण्यतितरन्ति ते
१२.१११.१०आहवेषु च ये शूरास्त्यक्त्वा मरणजं भयम्
धर्मेण जयमिच्छन्तो दुर्गाण्यतितरन्ति ते
१२.१११.११ये पापानि न कुर्वन्ति कर्मणा मनसा गिरा
निक्षिप्तदण्डा भूतेषु दुर्गाण्यतितरन्ति ते
१२.१११.१२ये वदन्तीह सत्यानि प्राणत्यागेऽप्युपस्थिते
प्रमाणभूता भूतानां दुर्गाण्यतितरन्ति ते
१२.१११.१३अनध्यायेषु ये विप्राः स्वाध्यायं नैव कुर्वते
तपोनित्याः सुतपसो दुर्गाण्यतितरन्ति ते
१२.१११.१४कर्माण्यकुहकार्थानि येषां वाचश्च सूनृताः
येषामर्थाश्च साध्वर्था दुर्गाण्यतितरन्ति ते
१२.१११.१५ये तपश्च तपस्यन्ति कौमारब्रह्मचारिणः
विद्यावेदव्रतस्नाता दुर्गाण्यतितरन्ति ते
१२.१११.१६ये च संशान्तरजसः संशान्ततमसश्च ये
सत्ये स्थिता महात्मानो दुर्गाण्यतितरन्ति ते
१२.१११.१७येषां न कश्चित्त्रसति त्रसन्ति न च कस्यचित्
येषामात्मसमो लोको दुर्गाण्यतितरन्ति ते
१२.१११.१८परश्रिया न तप्यन्ते ये सन्तः पुरुषर्षभाः
ग्राम्यादन्नान्निवृत्ताश्च दुर्गाण्यतितरन्ति ते
१२.१११.१९सर्वान्देवान्नमस्यन्ति सर्वान्धर्मांश्च शृण्वते
ये श्रद्दधाना दान्ताश्च दुर्गाण्यतितरन्ति ते
१२.१११.२०ये न मानितमिच्छन्ति मानयन्ति च ये परम्
मान्यमाना न मन्यन्ते दुर्गाण्यतितरन्ति ते
१२.१११.२१ये श्राद्धानि च कुर्वन्ति तिथ्यां तिथ्यां प्रजार्थिनः
सुविशुद्धेन मनसा दुर्गाण्यतितरन्ति ते
१२.१११.२२ये क्रोधं नैव कुर्वन्ति क्रुद्धान्संशमयन्ति च
न च कुप्यन्ति भृत्येभ्यो दुर्गाण्यतितरन्ति ते
१२.१११.२३मधु मांसं च ये नित्यं वर्जयन्तीह मानवाः
जन्मप्रभृति मद्यं च दुर्गाण्यतितरन्ति ते
१२.१११.२४यात्रार्थं भोजनं येषां संतानार्थं च मैथुनम्
वाक्सत्यवचनार्थाय दुर्गाण्यतितरन्ति ते
१२.१११.२५ईश्वरं सर्वभूतानां जगतः प्रभवाप्ययम्
भक्ता नारायणं ये च दुर्गाण्यतितरन्ति ते
१२.१११.२६य एष रक्तपद्माक्षः पीतवासा महाभुजः
सुहृद्भ्राता च मित्रं च संबन्धी च तवाच्युतः
१२.१११.२७य इमान्सकलाँल्लोकांश्चर्मवत्परिवेष्टयेत्
इच्छन्प्रभुरचिन्त्यात्मा गोविन्दः पुरुषोत्तमः
१२.१११.२८स्थितः प्रियहिते जिष्णोः स एष पुरुषर्षभ
राजंस्तव च दुर्धर्षो वैकुण्ठः पुरुषोत्तमः
१२.१११.२९य एनं संश्रयन्तीह भक्त्या नारायणं हरिम्
ते तरन्तीह दुर्गाणि न मेऽत्रास्ति विचारणा
१२.१११.३०दुर्गातितरणं ये च पठन्ति श्रावयन्ति च
पाठयन्ति च विप्रेभ्यो दुर्गाण्यतितरन्ति ते
१२.१११.३१इति कृत्यसमुद्देशः कीर्तितस्ते मयानघ
संतरेद्येन दुर्गाणि परत्रेह च मानवः