१२. शान्तिपर्व
१२.११२.१युधिष्ठिर उवाच

१२.११२.२असौम्याः सौम्यरूपेण सौम्याश्चासौम्यदर्शिनः
ईदृशान्पुरुषांस्तात कथं विद्यामहे वयम्

१२.११२.३भीष्म उवाच

१२.११२.४अत्राप्युदाहरन्तीममितिहासं पुरातनम्
व्याघ्रगोमायुसंवादं तं निबोध युधिष्ठिर

१२.११२.५पुरिकायां पुरि पुरा श्रीमत्यां पौरिको नृपः
परहिंसारुचिः क्रूरो बभूव पुरुषाधमः

१२.११२.६स त्वायुषि परिक्षीणे जगामानीप्सितां गतिम्
गोमायुत्वं च संप्राप्तो दूषितः पूर्वकर्मणा

१२.११२.७संस्मृत्य पूर्वजातिं स निर्वेदं परमं गतः
न भक्षयति मांसानि परैरुपहृतान्यपि

१२.११२.८अहिंस्रः सर्वभूतेषु सत्यवाक्सुदृढव्रतः
चकार च यथाकाममाहारं पतितैः फलैः

१२.११२.९श्मशाने तस्य चावासो गोमायोः संमतोऽभवत्
जन्मभूम्यनुरोधाच्च नान्यद्वासमरोचयत्

१२.११२.१०तस्य शौचममृष्यन्तः सर्वे ते सहजातयः
चालयन्ति स्म तां बुद्धिं वचनैः प्रश्रयोत्तरैः

१२.११२.११वसन्पितृवने रौद्रे शौचं लप्सितुमिच्छसि
इयं विप्रतिपत्तिस्ते यदा त्वं पिशिताशनः

१२.११२.१२तत्समो वा भवास्माभिर्भक्ष्यान्दास्यामहे वयम्
भुङ्क्ष्व शौचं परित्यज्य यद्धि भुक्तं तदस्ति ते

१२.११२.१३इति तेषां वचः श्रुत्वा प्रत्युवाच समाहितः
मधुरैः प्रश्रितैर्वाक्यैर्हेतुमद्भिरनिष्ठुरैः

१२.११२.१४अप्रमाणं प्रसूतिर्मे शीलतः क्रियते कुलम्
प्रार्थयिष्ये तु तत्कर्म येन विस्तीर्यते यशः

१२.११२.१५श्मशाने यदि वासो मे समाधिर्मे निशाम्यताम्
आत्मा फलति कर्माणि नाश्रमो धर्मलक्षणम्

१२.११२.१६आश्रमे यो द्विजं हन्याद्गां वा दद्यादनाश्रमे
किं नु तत्पातकं न स्यात्तद्वा दत्तं वृथा भवेत्

१२.११२.१७भवन्तः सर्वलोभेन केवलं भक्षणे रताः
अनुबन्धे तु ये दोषास्तान्न पश्यन्ति मोहिताः

१२.११२.१८अप्रत्ययकृतां गर्ह्यामर्थापनयदूषिताम्
इह चामुत्र चानिष्टां तस्माद्वृत्तिं न रोचये

१२.११२.१९तं शुचिं पण्डितं मत्वा शार्दूलः ख्यातविक्रमः
कृत्वात्मसदृशां पूजां साचिव्येऽवर्धयत्स्वयम्

१२.११२.२०सौम्य विज्ञातरूपस्त्वं गच्छ यात्रां मया सह
व्रियन्तामीप्सिता भोगाः परिहार्याश्च पुष्कलाः

१२.११२.२१तीक्ष्णा वयमिति ख्याता भवतो ज्ञापयामहे
मृदुपूर्वं घातिनस्ते श्रेयश्चाधिगमिष्यति

१२.११२.२२अथ संपूज्य तद्वाक्यं मृगेन्द्रस्य महात्मनः
गोमायुः प्रश्रितं वाक्यं बभाषे किंचिदानतः

१२.११२.२३सदृशं मृगराजैतत्तव वाक्यं मदन्तरे
यत्सहायान्मृगयसे धर्मार्थकुशलाञ्शुचीन्

१२.११२.२४न शक्यमनमात्येन महत्त्वमनुशासितुम्
दुष्टामात्येन वा वीर शरीरपरिपन्थिना

१२.११२.२५सहायाननुरक्तांस्तु यतेतानुपसंहितान्
परस्परमसंघुष्टान्विजिगीषूनलोलुपान्

१२.११२.२६तानतीतोपधान्प्राज्ञान्हिते युक्तान्मनस्विनः
पूजयेथा महाभागान्यथाचार्यान्यथा पितॄन्

१२.११२.२७न त्वेवं मम संतोषाद्रोचतेऽन्यन्मृगाधिप
न कामये सुखान्भोगानैश्वर्यं वा त्वदाश्रयम्

१२.११२.२८न योक्ष्यति हि मे शीलं तव भृत्यैः पुरातनैः
ते त्वां विभेदयिष्यन्ति दुःखशीला मदन्तरे

१२.११२.२९संश्रयः श्लाघनीयस्त्वमन्येषामपि भास्वताम्
कृतात्मा सुमहाभागः पापकेष्वप्यदारुणः

१२.११२.३०दीर्घदर्शी महोत्साहः स्थूललक्ष्यो महाबलः
कृती चामोघकर्तासि भाव्यैश्च समलंकृतः

१२.११२.३१किं तु स्वेनास्मि संतुष्टो दुःखा वृत्तिरनुष्ठिता
सेवायाश्चापि नाभिज्ञः स्वच्छन्देन वनेचरः

१२.११२.३२राजोपक्रोशदोषाश्च सर्वे संश्रयवासिनाम्
वनचर्या च निःसङ्गा निर्भया निरवग्रहा

१२.११२.३३नृपेणाहूयमानस्य यत्तिष्ठति भयं हृदि
न तत्तिष्ठति तुष्टानां वने मूलफलाशिनाम्

१२.११२.३४पानीयं वा निरायासं स्वाद्वन्नं वा भयोत्तरम्
विचार्य खलु पश्यामि तत्सुखं यत्र निर्वृतिः

१२.११२.३५अपराधैर्न तावन्तो भृत्याः शिष्टा नराधिपैः
उपघातैर्यथा भृत्या दूषिता निधनं गताः

१२.११२.३६यदि त्वेतन्मया कार्यं मृगेन्द्रो यदि मन्यते
समयं कृतमिच्छामि वर्तितव्यं यथा मयि

१२.११२.३७मदीया माननीयास्ते श्रोतव्यं च हितं वचः
कल्पिता या च ते वृत्तिः सा भवेत्तव सुस्थिरा

१२.११२.३८न मन्त्रयेयमन्यैस्ते सचिवैः सह कर्हिचित्
नीतिमन्तः परीप्सन्तो वृथा ब्रूयुः परे मयि

१२.११२.३९एक एकेन संगम्य रहो ब्रूयां हितं तव
न च ते ज्ञातिकार्येषु प्रष्टव्योऽहं हिताहिते

१२.११२.४०मया संमन्त्र्य पश्चाच्च न हिंस्याः सचिवास्त्वया
मदीयानां च कुपितो मा त्वं दण्डं निपातयेः

१२.११२.४१एवमस्त्विति तेनासौ मृगेन्द्रेणाभिपूजितः
प्राप्तवान्मतिसाचिव्यं गोमायुर्व्याघ्रयोनितः

१२.११२.४२तं तथा सत्कृतं दृष्ट्वा युज्यमानं च कर्मणि
प्राद्विषन्कृतसंघाताः पूर्वभृत्या मुहुर्मुहुः

१२.११२.४३मित्रबुद्ध्या च गोमायुं सान्त्वयित्वा प्रवेश्य च
दोषेषु समतां नेतुमैच्छन्नशुभबुद्धयः

१२.११२.४४अन्यथा ह्युचिताः पूर्वं परद्रव्यापहारिणः
अशक्ताः किंचिदादातुं द्रव्यं गोमायुयन्त्रिताः

१२.११२.४५व्युत्थानं चात्र काङ्क्षद्भिः कथाभिः प्रविलोभ्यते
धनेन महता चैव बुद्धिरस्य विलोभ्यते

१२.११२.४६न चापि स महाप्राज्ञस्तस्माद्धैर्याच्चचाल ह
अथास्य समयं कृत्वा विनाशाय स्थिताः परे

१२.११२.४७ईप्सितं च मृगेन्द्रस्य मांसं यत्तत्र संस्कृतम्
अपनीय स्वयं तद्धि तैर्न्यस्तं तस्य वेश्मनि

१२.११२.४८यदर्थं चाप्यपहृतं येन यच्चैव मन्त्रितम्
तस्य तद्विदितं सर्वं कारणार्थं च मर्षितम्

१२.११२.४९समयोऽयं कृतस्तेन साचिव्यमुपगच्छता
नोपघातस्त्वया ग्राह्यो राजन्मैत्रीमिहेच्छता

१२.११२.५०भोजने चोपहर्तव्ये तन्मांसं न स्म दृश्यते
मृगराजेन चाज्ञप्तं मृग्यतां चोर इत्युत

१२.११२.५१कृतकैश्चापि तन्मांसं मृगेन्द्रायोपवर्णितम्
सचिवेनोपनीतं ते विदुषा प्राज्ञमानिना

१२.११२.५२सरोषस्त्वथ शार्दूलः श्रुत्वा गोमायुचापलम्
बभूवामर्षितो राजा वधं चास्याभ्यरोचयत्

१२.११२.५३छिद्रं तु तस्य तद्दृष्ट्वा प्रोचुस्ते पूर्वमन्त्रिणः
सर्वेषामेव सोऽस्माकं वृत्तिभङ्गेषु वर्तते

१२.११२.५४इदं चास्येदृशं कर्म वाल्लभ्येन तु रक्ष्यते
श्रुतश्च स्वामिना पूर्वं यादृशो नैष तादृशः

१२.११२.५५वाङ्मात्रेणैव धर्मिष्ठः स्वभावेन तु दारुणः
धर्मच्छद्मा ह्ययं पापो वृथाचारपरिग्रहः
कार्यार्थं भोजनार्थेषु व्रतेषु कृतवाञ्श्रमम्

१२.११२.५६मांसापनयनं ज्ञात्वा व्याघ्रस्तेषां तु तद्वचः
आज्ञापयामास तदा गोमायुर्वध्यतामिति

१२.११२.५७शार्दूलवचनं श्रुत्वा शार्दूलजननी ततः
मृगराजं हितैर्वाक्यैः संबोधयितुमागमत्

१२.११२.५८पुत्र नैतत्त्वया ग्राह्यं कपटारम्भसंवृतम्
कर्मसंघर्षजैर्दोषैर्दुष्यत्यशुचिभिः शुचिः

१२.११२.५९नोच्छ्रितं सहते कश्चित्प्रक्रिया वैरकारिका
शुचेरपि हि युक्तस्य दोष एव निपात्यते

१२.११२.६०लुब्धानां शुचयो द्वेष्याः कातराणां तरस्विनः
मूर्खाणां पण्डिता द्वेष्या दरिद्राणां महाधनाः
अधार्मिकाणां धर्मिष्ठा विरूपाणां सुरूपकाः

१२.११२.६१बहवः पण्डिता लुब्धाः सर्वे मायोपजीविनः
कुर्युर्दोषमदोषस्य बृहस्पतिमतेरपि

१२.११२.६२शून्यात्तच्च गृहान्मांसं यदद्यापहृतं तव
नेच्छते दीयमानं च साधु तावद्विमृश्यताम्

१२.११२.६३असत्याः सत्यसंकाशाः सत्याश्चासत्यदर्शिनः
दृश्यन्ते विविधा भावास्तेषु युक्तं परीक्षणम्

१२.११२.६४तलवद्दृश्यते व्योम खद्योतो हव्यवाडिव
न चैवास्ति तलं व्योम्नि न खद्योते हुताशनः

१२.११२.६५तस्मात्प्रत्यक्षदृष्टोऽपि युक्तमर्थः परीक्षितुम्
परीक्ष्य ज्ञापयन्ह्यर्थान्न पश्चात्परितप्यते

१२.११२.६६न दुष्करमिदं पुत्र यत्प्रभुर्घातयेत्परम्
श्लाघनीया च वर्या च लोके प्रभवतां क्षमा

१२.११२.६७स्थापितोऽयं पुत्र त्वया सामन्तेष्वधि विश्रुतः
दुःखेनासाद्यते पात्रं धार्यतामेष ते सुहृत्

१२.११२.६८दूषितं परदोषैर्हि गृह्णीते योऽन्यथा शुचिम्
स्वयं संदूषितामात्यः क्षिप्रमेव विनश्यति

१२.११२.६९तस्मादथारिसंघाताद्गोमायोः कश्चिदागतः
धर्मात्मा तेन चाख्यातं यथैतत्कपटं कृतम्

१२.११२.७०ततो विज्ञातचारित्रः सत्कृत्य स विमोक्षितः
परिष्वक्तश्च सस्नेहं मृगेन्द्रेण पुनः पुनः

१२.११२.७१अनुज्ञाप्य मृगेन्द्रं तु गोमायुर्नीतिशास्त्रवित्
तेनामर्षेण संतप्तः प्रायमासितुमैच्छत

१२.११२.७२शार्दूलस्तत्र गोमायुं स्नेहात्प्रस्रुतलोचनः
अवारयत्स धर्मिष्ठं पूजया प्रतिपूजयन्

१२.११२.७३तं स गोमायुरालोक्य स्नेहादागतसंभ्रमम्
बभाषे प्रणतो वाक्यं बाष्पगद्गदया गिरा

१२.११२.७४पूजितोऽहं त्वया पूर्वं पश्चाच्चैव विमानितः
परेषामास्पदं नीतो वस्तुं नार्हाम्यहं त्वयि

१२.११२.७५स्वसंतुष्टाश्च्युताः स्थानान्मानात्प्रत्यवरोपिताः
स्वयं चोपहृता भृत्या ये चाप्युपहृताः परैः

१२.११२.७६परिक्षीणाश्च लुब्धाश्च क्रूराः काराभितापिताः
हृतस्वा मानिनो ये च त्यक्तोपात्ता महेप्सवः

१२.११२.७७संतापिताश्च ये केचिद्व्यसनौघप्रतीक्षिणः
अन्तर्हिताः सोपहिताः सर्वे ते परसाधनाः

१२.११२.७८अवमानेन युक्तस्य स्थापितस्य च मे पुनः
कथं यास्यसि विश्वासमहमेष्यामि वा पुनः

१२.११२.७९समर्थ इति संगृह्य स्थापयित्वा परीक्ष्य च
कृतं च समयं भित्त्वा त्वयाहमवमानितः

१२.११२.८०प्रथमं यः समाख्यातः शीलवानिति संसदि
न वाच्यं तस्य वैगुण्यं प्रतिज्ञां परिरक्षता

१२.११२.८१एवं चावमतस्येह विश्वासं किं प्रयास्यसि
त्वयि चैव ह्यविश्वासे ममोद्वेगो भविष्यति

१२.११२.८२शङ्कितस्त्वमहं भीतः परे छिद्रानुदर्शिनः
अस्निग्धाश्चैव दुस्तोषाः कर्म चैतद्बहुच्छलम्

१२.११२.८३दुःखेन श्लेष्यते भिन्नं श्लिष्टं दुःखेन भिद्यते
भिन्नश्लिष्टा तु या प्रीतिर्न सा स्नेहेन वर्तते

१२.११२.८४कश्चिदेव हि भीतस्तु दृश्यते न परात्मनोः
कार्यापेक्षा हि वर्तन्ते भावाः स्निग्धास्तु दुर्लभाः

१२.११२.८५सुदुःखं पुरुषज्ञानं चित्तं ह्येषां चलाचलम्
समर्थो वाप्यशक्तो वा शतेष्वेकोऽधिगम्यते

१२.११२.८६अकस्मात्प्रक्रिया नॄणामकस्माच्चापकर्षणम्
शुभाशुभे महत्त्वं च प्रकर्तुं बुद्धिलाघवात्

१२.११२.८७एवं बहुविधं सान्त्वमुक्त्वा धर्मार्थहेतुमत्
प्रसादयित्वा राजानं गोमायुर्वनमभ्यगात्

१२.११२.८८अगृह्यानुनयं तस्य मृगेन्द्रस्य स बुद्धिमान्
गोमायुः प्रायमासीनस्त्यक्त्वा देहं दिवं ययौ