१२. शान्तिपर्व
१२.११३.१युधिष्ठिर उवाच

१२.११३.२किं पार्थिवेन कर्तव्यं किं च कृत्वा सुखी भवेत्
तन्ममाचक्ष्व तत्त्वेन सर्वं धर्मभृतां वर

१२.११३.३भीष्म उवाच

१२.११३.४हन्त तेऽहं प्रवक्ष्यामि शृणु कार्यैकनिश्चयम्
यथा राज्ञेह कर्तव्यं यच्च कृत्वा सुखी भवेत्

१२.११३.५न त्वेवं वर्तितव्यं स्म यथेदमनुशुश्रुमः
उष्ट्रस्य सुमहद्वृत्तं तन्निबोध युधिष्ठिर

१२.११३.६जातिस्मरो महानुष्ट्रः प्राजापत्ययुगोद्भवः
तपः सुमहदातिष्ठदरण्ये संशितव्रतः

१२.११३.७तपसस्तस्य चान्ते वै प्रीतिमानभवत्प्रभुः
वरेण छन्दयामास ततश्चैनं पितामहः

१२.११३.८उष्ट्र उवाच

१२.११३.९भगवंस्त्वत्प्रसादान्मे दीर्घा ग्रीवा भवेदियम्
योजनानां शतं साग्रं या गच्छेच्चरितुं विभो

१२.११३.१०भीष्म उवाच

१२.११३.११एवमस्त्विति चोक्तः स वरदेन महात्मना
प्रतिलभ्य वरं श्रेष्ठं ययावुष्ट्रः स्वकं वनम्

१२.११३.१२स चकार तदालस्यं वरदानात्स दुर्मतिः
न चैच्छच्चरितुं गन्तुं दुरात्मा कालमोहितः

१२.११३.१३स कदाचित्प्रसार्यैवं तां ग्रीवां शतयोजनाम्
चचाराश्रान्तहृदयो वातश्चागात्ततो महान्

१२.११३.१४स गुहायां शिरोग्रीवं निधाय पशुरात्मनः
आस्ताथ वर्षमभ्यागात्सुमहत्प्लावयज्जगत्

१२.११३.१५अथ शीतपरीताङ्गो जम्बुकः क्षुच्छ्रमान्वितः
सदारस्तां गुहामाशु प्रविवेश जलार्दितः

१२.११३.१६स दृष्ट्वा मांसजीवी तु सुभृशं क्षुच्छ्रमान्वितः
अभक्षयत्ततो ग्रीवामुष्ट्रस्य भरतर्षभ

१२.११३.१७यदा त्वबुध्यतात्मानं भक्ष्यमाणं स वै पशुः
तदा संकोचने यत्नमकरोद्भृशदुःखितः

१२.११३.१८यावदूर्ध्वमधश्चैव ग्रीवां संक्षिपते पशुः
तावत्तेन सदारेण जम्बुकेन स भक्षितः

१२.११३.१९स हत्वा भक्षयित्वा च जम्बुकोष्ट्रं ततस्तदा
विगते वातवर्षे च निश्चक्राम गुहामुखात्

१२.११३.२०एवं दुर्बुद्धिना प्राप्तमुष्ट्रेण निधनं तदा
आलस्यस्य क्रमात्पश्य महद्दोषमुपागतम्

१२.११३.२१त्वमप्येतं विधिं त्यक्त्वा योगेन नियतेन्द्रियः
वर्तस्व बुद्धिमूलं हि विजयं मनुरब्रवीत्

१२.११३.२२बुद्धिश्रेष्ठानि कर्माणि बाहुमध्यानि भारत
तानि जङ्घाजघन्यानि भारप्रत्यवराणि च

१२.११३.२३राज्यं तिष्ठति दक्षस्य संगृहीतेन्द्रियस्य च
गुप्तमन्त्रश्रुतवतः सुसहायस्य चानघ

१२.११३.२४परीक्ष्यकारिणोऽर्थाश्च तिष्ठन्तीह युधिष्ठिर
सहाययुक्तेन मही कृत्स्ना शक्या प्रशासितुम्

१२.११३.२५इदं हि सद्भिः कथितं विधिज्ञैः; पुरा महेन्द्रप्रतिमप्रभाव
मयापि चोक्तं तव शास्त्रदृष्ट्या; त्वमत्र युक्तः प्रचरस्व राजन्