१२. शान्तिपर्व
१२.११४.१युधिष्ठिर उवाच

१२.११४.२राजा राज्यमनुप्राप्य दुर्बलो भरतर्षभ
अमित्रस्यातिवृद्धस्य कथं तिष्ठेदसाधनः

१२.११४.३भीष्म उवाच

१२.११४.४अत्राप्युदाहरन्तीममितिहासं पुरातनम्
सरितां चैव संवादं सागरस्य च भारत

१२.११४.५सुरारिनिलयः शश्वत्सागरः सरितां पतिः
पप्रच्छ सरितः सर्वाः संशयं जातमात्मनः

१२.११४.६समूलशाखान्पश्यामि निहतांश्छायिनो द्रुमान्
युष्माभिरिह पूर्णाभिरन्यांस्तत्र न वेतसम्

१२.११४.७अकायश्चाल्पसारश्च वेतसः कूलजश्च वः
अवज्ञाय नशक्यो वा किंचिद्वा तेन वः कृतम्

१२.११४.८तदहं श्रोतुमिच्छामि सर्वासामेव वो मतम्
यथा कूलानि चेमानि भित्त्वा नानीयते वशम्

१२.११४.९ततः प्राह नदी गङ्गा वाक्यमुत्तरमर्थवत्
हेतुमद्ग्राहकं चैव सागरं सरितां पतिम्

१२.११४.१०तिष्ठन्त्येते यथास्थानं नगा ह्येकनिकेतनाः
ततस्त्यजन्ति तत्स्थानं प्रातिलोम्यादचेतसः

१२.११४.११वेतसो वेगमायान्तं दृष्ट्वा नमति नेतरः
स च वेगेऽभ्यतिक्रान्ते स्थानमासाद्य तिष्ठति

१२.११४.१२कालज्ञः समयज्ञश्च सदा वश्यश्च नोद्रुमः
अनुलोमस्तथास्तब्धस्तेन नाभ्येति वेतसः

१२.११४.१३मारुतोदकवेगेन ये नमन्त्युन्नमन्ति च
ओषध्यः पादपा गुल्मा न ते यान्ति पराभवम्

१२.११४.१४यो हि शत्रोर्विवृद्धस्य प्रभोर्वधविनाशने
पूर्वं न सहते वेगं क्षिप्रमेव स नश्यति

१२.११४.१५सारासारं बलं वीर्यमात्मनो द्विषतश्च यः
जानन्विचरति प्राज्ञो न स याति पराभवम्

१२.११४.१६एवमेव यदा विद्वान्मन्येतातिबलं रिपुम्
संश्रयेद्वैतसीं वृत्तिमेवं प्रज्ञानलक्षणम्