१२. शान्तिपर्व
१२.११५.१युधिष्ठिर उवाच

१२.११५.२विद्वान्मूर्खप्रगल्भेन मृदुस्तीक्ष्णेन भारत
आक्रुश्यमानः सदसि कथं कुर्यादरिंदम

१२.११५.३भीष्म उवाच

१२.११५.४श्रूयतां पृथिवीपाल यथैषोऽर्थोऽनुगीयते
सदा सुचेताः सहते नरस्येहाल्पचेतसः

१२.११५.५अरुष्यन्क्रुश्यमानस्य सुकृतं नाम विन्दति
दुष्कृतं चात्मनो मर्षी रुष्यत्येवापमार्ष्टि वै

१२.११५.६टिट्टिभं तमुपेक्षेत वाशमानमिवातुरम्
लोकविद्वेषमापन्नो निष्फलं प्रतिपद्यते

१२.११५.७इति स श्लाघते नित्यं तेन पापेन कर्मणा
इदमुक्तो मया कश्चित्संमतो जनसंसदि
स तत्र व्रीडितः शुष्को मृतकल्पोऽवतिष्ठति

१२.११५.८श्लाघन्नश्लाघनीयेन कर्मणा निरपत्रपः
उपेक्षितव्यो दान्तेन तादृशः पुरुषाधमः

१२.११५.९यद्यद्ब्रूयादल्पमतिस्तत्तदस्य सहेत्सदा
प्राकृतो हि प्रशंसन्वा निन्दन्वा किं करिष्यति
वने काक इवाबुद्धिर्वाशमानो निरर्थकम्

१२.११५.१०यदि वाग्भिः प्रयोगः स्यात्प्रयोगे पापकर्मणः
वागेवार्थो भवेत्तस्य न ह्येवार्थो जिघांसतः

१२.११५.११निषेकं विपरीतं स आचष्टे वृत्तचेष्टया
मयूर इव कौपीनं नृत्यन्संदर्शयन्निव

१२.११५.१२यस्यावाच्यं न लोकेऽस्ति नाकार्यं वापि किंचन
वाचं तेन न संदध्याच्छुचिः संक्लिष्टकर्मणा

१२.११५.१३प्रत्यक्षं गुणवादी यः परोक्षं तु विनिन्दकः
स मानवः श्ववल्लोके नष्टलोकपरायणः

१२.११५.१४तादृग्जनशतस्यापि यद्ददाति जुहोति च
परोक्षेणापवादेन तन्नाशयति स क्षणात्

१२.११५.१५तस्मात्प्राज्ञो नरः सद्यस्तादृशं पापचेतसम्
वर्जयेत्साधुभिर्वर्ज्यं सारमेयामिषं यथा

१२.११५.१६परिवादं ब्रुवाणो हि दुरात्मा वै महात्मने
प्रकाशयति दोषान्स्वान्सर्पः फणमिवोच्छ्रितम्

१२.११५.१७तं स्वकर्माणि कुर्वाणं प्रतिकर्तुं य इच्छति
भस्मकूट इवाबुद्धिः खरो रजसि मज्जति

१२.११५.१८मनुष्यशालावृकमप्रशान्तं; जनापवादे सततं निविष्टम्
मातङ्गमुन्मत्तमिवोन्नदन्तं; त्यजेत तं श्वानमिवातिरौद्रम्

१२.११५.१९अधीरजुष्टे पथि वर्तमानं; दमादपेतं विनयाच्च पापम्
अरिव्रतं नित्यमभूतिकामं; धिगस्तु तं पापमतिं मनुष्यम्

१२.११५.२०प्रत्युच्यमानस्तु हि भूय एभि;र्निशाम्य मा भूस्त्वमथार्तरूपः
उच्चस्य नीचेन हि संप्रयोगं; विगर्हयन्ति स्थिरबुद्धयो ये

१२.११५.२१क्रुद्धो दशार्धेन हि ताडयेद्वा; स पांसुभिर्वापकिरेत्तुषैर्वा
विवृत्य दन्तांश्च विभीषयेद्वा; सिद्धं हि मूर्खे कुपिते नृशंसे

१२.११५.२२विगर्हणां परमदुरात्मना कृतां; सहेत यः संसदि दुर्जनान्नरः
पठेदिदं चापि निदर्शनं सदा; न वाङ्मयं स लभति किंचिदप्रियम्