१२.११६.१युधिष्ठिर उवाच
१२.११६.२पितामह महाप्राज्ञ संशयो मे महानयम्
स च्छेत्तव्यस्त्वया राजन्भवान्कुलकरो हि नः
१२.११६.३पुरुषाणामयं तात दुर्वृत्तानां दुरात्मनाम्
कथितो वाक्यसंचारस्ततो विज्ञापयामि ते
१२.११६.४यद्धितं राज्यतन्त्रस्य कुलस्य च सुखोदयम्
आयत्यां च तदात्वे च क्षेमवृद्धिकरं च यत्
१२.११६.५पुत्रपौत्राभिरामं च राष्ट्रवृद्धिकरं च यत्
अन्नपाने शरीरे च हितं यत्तद्ब्रवीहि मे
१२.११६.६अभिषिक्तो हि यो राजा राज्यस्थो मित्रसंवृतः
असुहृत्समुपेतो वा स कथं रञ्जयेत्प्रजाः
१२.११६.७यो ह्यसत्प्रग्रहरतिः स्नेहरागबलात्कृतः
इन्द्रियाणामनीशत्वादसज्जनबुभूषकः
१२.११६.८तस्य भृत्या विगुणतां यान्ति सर्वे कुलोद्गताः
न च भृत्यफलैरर्थैः स राजा संप्रयुज्यते
१२.११६.९एतान्मे संशयस्थस्य राजधर्मान्सुदुर्लभान्
बृहस्पतिसमो बुद्ध्या भवाञ्शंसितुमर्हति
१२.११६.१०शंसिता पुरुषव्याघ्र त्वं नः कुलहिते रतः
क्षत्ता चैव पटुप्रज्ञो यो नः शंसति सर्वदा
१२.११६.११त्वत्तः कुलहितं वाक्यं श्रुत्वा राज्यहितोदयम्
अमृतस्याव्ययस्येव तृप्तः स्वप्स्याम्यहं सुखम्
१२.११६.१२कीदृषाः संनिकर्षस्था भृत्याः स्युर्वा गुणान्विताः
कीदृशैः किंकुलीनैर्वा सह यात्रा विधीयते
१२.११६.१३न ह्येको भृत्यरहितो राजा भवति रक्षिता
राज्यं चेदं जनः सर्वस्तत्कुलीनोऽभिशंसति
१२.११६.१४न हि प्रशास्तुं राज्यं हि शक्यमेकेन भारत
असहायवता तात नैवार्थाः केचिदप्युत
लब्धुं लब्ध्वा चापि सदा रक्षितुं भरतर्षभ
१२.११६.१५भीष्म उवाच
१२.११६.१६यस्य भृत्यजनः सर्वो ज्ञानविज्ञानकोविदः
हितैषी कुलजः स्निग्धः स राज्यफलमश्नुते
१२.११६.१७मन्त्रिणो यस्य कुलजा असंहार्याः सहोषिताः
नृपतेर्मतिदाः सन्ति संबन्धज्ञानकोविदाः
१२.११६.१८अनागतविधातारः कालज्ञानविशारदाः
अतिक्रान्तमशोचन्तः स राज्यफलमश्नुते
१२.११६.१९समदुःखसुखा यस्य सहायाः सत्यकारिणः
अर्थचिन्तापरा यस्य स राज्यफलमश्नुते
१२.११६.२०यस्य नार्तो जनपदः संनिकर्षगतः सदा
अक्षुद्रः सत्पथालम्बी स राज्यफलभाग्भवेत्
१२.११६.२१कोशाक्षपटलं यस्य कोशवृद्धिकरैर्जनैः
आप्तैस्तुष्टैश्च सततं धार्यते स नृपोत्तमः
१२.११६.२२कोष्ठागारमसंहार्यैराप्तैः संचयतत्परैः
पात्रभूतैरलुब्धैश्च पाल्यमानं गुणीभवेत्
१२.११६.२३व्यवहारश्च नगरे यस्य कर्मफलोदयः
दृश्यते शङ्खलिखितः स धर्मफलभाग्भवेत्
१२.११६.२४संगृहीतमनुष्यश्च यो राजा राजधर्मवित्
षड्वर्गं प्रतिगृह्णन्स धर्मात्फलमुपाश्नुते