१२. शान्तिपर्व
१२.१३.१सहदेव उवाच

१२.१३.२न बाह्यं द्रव्यमुत्सृज्य सिद्धिर्भवति भारत
शारीरं द्रव्यमुत्सृज्य सिद्धिर्भवति वा न वा

१२.१३.३बाह्यद्रव्यविमुक्तस्य शारीरेषु च गृध्यतः
यो धर्मो यत्सुखं वा स्याद्द्विषतां तत्तथास्तु नः

१२.१३.४शारीरं द्रव्यमुत्सृज्य पृथिवीमनुशासतः
यो धर्मो यत्सुखं वा स्यात्सुहृदां तत्तथास्तु नः

१२.१३.५द्व्यक्षरस्तु भवेन्मृत्युस्त्र्यक्षरं ब्रह्म शाश्वतम्
ममेति च भवेन्मृत्युर्न ममेति च शाश्वतम्

१२.१३.६ब्रह्ममृत्यू च तौ राजन्नात्मन्येव समाश्रितौ
अदृश्यमानौ भूतानि योधयेतामसंशयम्

१२.१३.७अविनाशोऽस्य सत्त्वस्य नियतो यदि भारत
भित्त्वा शरीरं भूतानां न हिंसा प्रतिपत्स्यते

१२.१३.८अथापि च सहोत्पत्तिः सत्त्वस्य प्रलयस्तथा
नष्टे शरीरे नष्टं स्याद्वृथा च स्यात्क्रियापथः

१२.१३.९तस्मादेकान्तमुत्सृज्य पूर्वैः पूर्वतरैश्च यः
पन्था निषेवितः सद्भिः स निषेव्यो विजानता

१२.१३.१०लब्ध्वापि पृथिवीं कृत्स्नां सहस्थावरजङ्गमाम्
न भुङ्क्ते यो नृपः सम्यङ्निष्फलं तस्य जीवितम्

१२.१३.११अथ वा वसतो राजन्वने वन्येन जीवतः
द्रव्येषु यस्य ममता मृत्योरास्ये स वर्तते

१२.१३.१२बाह्याभ्यन्तरभूतानां स्वभावं पश्य भारत
ये तु पश्यन्ति तद्भावं मुच्यन्ते महतो भयात्

१२.१३.१३भवान्पिता भवान्माता भवान्भ्राता भवान्गुरुः
दुःखप्रलापानार्तस्य तस्मान्मे क्षन्तुमर्हसि

१२.१३.१४तथ्यं वा यदि वातथ्यं यन्मयैतत्प्रभाषितम्
तद्विद्धि पृथिवीपाल भक्त्या भरतसत्तम