१२. शान्तिपर्व
१२.१३३.१भीष्म उवाच

१२.१३३.२अत्राप्युदाहरन्तीममितिहासं पुरातनम्
यथा दस्युः समर्यादः प्रेत्यभावे न नश्यति

१२.१३३.३प्रहर्ता मतिमाञ्शूरः श्रुतवाननृशंसवान्
रक्षन्नक्षयिणं धर्मं ब्रह्मण्यो गुरुपूजकः

१२.१३३.४निषाद्यां क्षत्रियाज्जातः क्षत्रधर्मानुपालकः
कापव्यो नाम नैषादिर्दस्युत्वात्सिद्धिमाप्तवान्

१२.१३३.५अरण्ये सायपूर्वाह्णे मृगयूथप्रकोपिता
विधिज्ञो मृगजातीनां निपानानां च कोविदः

१२.१३३.६सर्वकाननदेशज्ञः पारियात्रचरः सदा
धर्मज्ञः सर्वभूतानाममोघेषुर्दृढायुधः

१२.१३३.७अप्यनेकशताः सेना एक एव जिगाय सः
स वृद्धावन्धपितरौ महारण्येऽभ्यपूजयत्

१२.१३३.८मधुमांसैर्मूलफलैरन्नैरुच्चावचैरपि
सत्कृत्य भोजयामास सम्यक्परिचचार च

१२.१३३.९आरण्यकान्प्रव्रजितान्ब्राह्मणान्परिपालयन्
अपि तेभ्यो मृगान्हत्वा निनाय च महावने

१२.१३३.१०ये स्म न प्रतिगृह्णन्ति दस्युभोजनशङ्कया
तेषामासज्य गेहेषु काल्य एव स गच्छति

१२.१३३.११तं बहूनि सहस्राणि ग्रामणित्वेऽभिवव्रिरे
निर्मर्यादानि दस्यूनां निरनुक्रोशकारिणाम्

१२.१३३.१२दस्यव ऊचुः

१२.१३३.१३मुहूर्तदेशकालज्ञ प्राज्ञ शीलदृढायुध
ग्रामणीर्भव नो मुख्यः सर्वेषामेव संमतः

१२.१३३.१४यथा यथा वक्ष्यसि नः करिष्यामस्तथा तथा
पालयास्मान्यथान्यायं यथा माता यथा पिता

१२.१३३.१५कापव्य उवाच

१२.१३३.१६मा वधीस्त्वं स्त्रियं भीरुं मा शिशुं मा तपस्विनम्
नायुध्यमानो हन्तव्यो न च ग्राह्या बलात्स्त्रियः

१२.१३३.१७सर्वथा स्त्री न हन्तव्या सर्वसत्त्वेषु युध्यता
नित्यं गोब्राह्मणे स्वस्ति योद्धव्यं च तदर्थतः

१२.१३३.१८सस्यं च नापहन्तव्यं सीरविघ्नं च मा कृथाः
पूज्यन्ते यत्र देवाश्च पितरोऽतिथयस्तथा

१२.१३३.१९सर्वभूतेष्वपि च वै ब्राह्मणो मोक्षमर्हति
कार्या चापचितिस्तेषां सर्वस्वेनापि या भवेत्

१२.१३३.२०यस्य ह्येते संप्ररुष्टा मन्त्रयन्ति पराभवम्
न तस्य त्रिषु लोकेषु त्राता भवति कश्चन

१२.१३३.२१यो ब्राह्मणान्परिभवेद्विनाशं वापि रोचयेत्
सूर्योदय इवावश्यं ध्रुवं तस्य पराभवः

१२.१३३.२२इहैव फलमासीनः प्रत्याकाङ्क्षति शक्तितः
ये ये नो न प्रदास्यन्ति तांस्तान्सेनाभियास्यति

१२.१३३.२३शिष्ट्यर्थं विहितो दण्डो न वधार्थं विनिश्चयः
ये च शिष्टान्प्रबाधन्ते धर्मस्तेषां वधः स्मृतः

१२.१३३.२४ये हि राष्ट्रोपरोधेन वृत्तिं कुर्वन्ति केचन
तदेव तेऽनु मीयन्ते कुणपं कृमयो यथा

१२.१३३.२५ये पुनर्धर्मशास्त्रेण वर्तेरन्निह दस्यवः
अपि ते दस्यवो भूत्वा क्षिप्रं सिद्धिमवाप्नुयुः

१२.१३३.२६भीष्म उवाच

१२.१३३.२७तत्सर्वमुपचक्रुस्ते कापव्यस्यानुशासनम्
वृत्तिं च लेभिरे सर्वे पापेभ्यश्चाप्युपारमन्

१२.१३३.२८कापव्यः कर्मणा तेन महतीं सिद्धिमाप्तवान्
साधूनामाचरन्क्षेमं दस्यून्पापान्निवर्तयन्

१२.१३३.२९इदं कापव्यचरितं यो नित्यमनुकीर्तयेत्
नारण्येभ्यः स भूतेभ्यो भयमार्छेत्कदाचन

१२.१३३.३०भयं तस्य न मर्त्येभ्यो नामर्त्येभ्यः कथंचन
न सतो नासतो राजन्स ह्यरण्येषु गोपतिः