१२.१३४.१भीष्म उवाच
१२.१३४.२अत्र गाथा ब्रह्मगीताः कीर्तयन्ति पुराविदः
येन मार्गेण राजानः कोशं संजनयन्ति च
१२.१३४.३न धनं यज्ञशीलानां हार्यं देवस्वमेव तत्
दस्यूनां निष्क्रियाणां च क्षत्रियो हर्तुमर्हति
१२.१३४.४इमाः प्रजाः क्षत्रियाणां रक्ष्याश्चाद्याश्च भारत
धनं हि क्षत्रियस्येह द्वितीयस्य न विद्यते
१२.१३४.५तदस्य स्याद्बलार्थं वा धनं यज्ञार्थमेव वा
अभोग्या ह्योषधीश्छित्त्वा भोग्या एव पचन्त्युत
१२.१३४.६यो वै न देवान्न पितॄन्न मर्त्यान्हविषार्चति
आनन्तिकां तां धनितामाहुर्वेदविदो जनाः
१२.१३४.७हरेत्तद्द्रविणं राजन्धार्मिकः पृथिवीपतिः
न हि तत्प्रीणयेल्लोकान्न कोशं तद्विधं नृपः
१२.१३४.८असाधुभ्यो निरादाय साधुभ्यो यः प्रयच्छति
आत्मानं संक्रमं कृत्वा मन्ये धर्मविदेव सः
१२.१३४.९औद्भिज्जा जन्तवः केचिद्युक्तवाचो यथा तथा
अनिष्टतः संभवन्ति तथायज्ञः प्रतायते
१२.१३४.१०यथैव दंशमशकं यथा चाण्डपिपीलिकम्
सैव वृत्तिरयज्ञेषु तथा धर्मो विधीयते
१२.१३४.११यथा ह्यकस्माद्भवति भूमौ पांसुतृणोलपम्
तथैवेह भवेद्धर्मः सूक्ष्मः सूक्ष्मतरोऽपि च