१२. शान्तिपर्व
१२.१३६.१युधिष्ठिर उवाच

१२.१३६.२सर्वत्र बुद्धिः कथिता श्रेष्ठा ते भरतर्षभ
अनागता तथोत्पन्ना दीर्घसूत्रा विनाशिनी

१२.१३६.३तदिच्छामि परां बुद्धिं श्रोतुं भरतसत्तम
यथा राजन्न मुह्येत शत्रुभिः परिवारितः

१२.१३६.४धर्मार्थकुशल प्राज्ञ सर्वशास्त्रविशारद
पृच्छामि त्वा कुरुश्रेष्ठ तन्मे व्याख्यातुमर्हसि

१२.१३६.५शत्रुभिर्बहुभिर्ग्रस्तो यथा वर्तेत पार्थिवः
एतदिच्छाम्यहं श्रोतुं सर्वमेव यथाविधि

१२.१३६.६विषमस्थं हि राजानं शत्रवः परिपन्थिनः
बहवोऽप्येकमुद्धर्तुं यतन्ते पूर्वतापिताः

१२.१३६.७सर्वतः प्रार्थ्यमानेन दुर्बलेन महाबलैः
एकेनैवासहायेन शक्यं स्थातुं कथं भवेत्

१२.१३६.८कथं मित्रमरिं चैव विन्देत भरतर्षभ
चेष्टितव्यं कथं चात्र शत्रोर्मित्रस्य चान्तरे

१२.१३६.९प्रज्ञातलक्षणे राजन्नमित्रे मित्रतां गते
कथं नु पुरुषः कुर्यात्किं वा कृत्वा सुखी भवेत्

१२.१३६.१०विग्रहं केन वा कुर्यात्संधिं वा केन योजयेत्
कथं वा शत्रुमध्यस्थो वर्तेताबलवानिति

१२.१३६.११एतद्वै सर्वकृत्यानां परं कृत्यं परंतप
नैतस्य कश्चिद्वक्तास्ति श्रोता चापि सुदुर्लभः

१२.१३६.१२ऋते शांतनवाद्भीष्मात्सत्यसंधाज्जितेन्द्रियात्
तदन्विष्य महाबाहो सर्वमेतद्वदस्व मे

१२.१३६.१३भीष्म उवाच

१२.१३६.१४त्वद्युक्तोऽयमनुप्रश्नो युधिष्ठिर गुणोदयः
शृणु मे पुत्र कार्त्स्न्येन गुह्यमापत्सु भारत

१२.१३६.१५अमित्रो मित्रतां याति मित्रं चापि प्रदुष्यति
सामर्थ्ययोगात्कार्याणां तद्गत्या हि सदा गतिः

१२.१३६.१६तस्माद्विश्वसितव्यं च विग्रहं च समाचरेत्
देशं कालं च विज्ञाय कार्याकार्यविनिश्चये

१२.१३६.१७संधातव्यं बुधैर्नित्यं व्यवस्यं च हितार्थिभिः
अमित्रैरपि संधेयं प्राणा रक्ष्याश्च भारत

१२.१३६.१८यो ह्यमित्रैर्नरो नित्यं न संदध्यादपण्डितः
न सोऽर्थमाप्नुयात्किंचित्फलान्यपि च भारत

१२.१३६.१९यस्त्वमित्रेण संधत्ते मित्रेण च विरुध्यते
अर्थयुक्तिं समालोक्य सुमहद्विन्दते फलम्

१२.१३६.२०अत्राप्युदाहरन्तीममितिहासं पुरातनम्
मार्जारस्य च संवादं न्यग्रोधे मूषकस्य च

१२.१३६.२१वने महति कस्मिंश्चिन्न्यग्रोधः सुमहानभूत्
लताजालपरिच्छन्नो नानाद्विजगणायुतः

१२.१३६.२२स्कन्धवान्मेघसंकाशः शीतच्छायो मनोरमः
वैरन्त्यमभितो जातस्तरुर्व्यालमृगाकुलः

१२.१३६.२३तस्य मूलं समाश्रित्य कृत्वा शतमुखं बिलम्
वसति स्म महाप्राज्ञः पलितो नाम मूषकः

१२.१३६.२४शाखाश्च तस्य संश्रित्य वसति स्म सुखं पुरः
लोमशो नाम मार्जारः पक्षिसत्त्वावसादकः

१२.१३६.२५तत्र चागत्य चण्डालो वैरन्त्यकृतकेतनः
अयोजयत्तमुन्माथं नित्यमस्तं गते रवौ

१२.१३६.२६तत्र स्नायुमयान्पाशान्यथावत्संनिधाय सः
गृहं गत्वा सुखं शेते प्रभातामेति शर्वरीम्

१२.१३६.२७तत्र स्म नित्यं बध्यन्ते नक्तं बहुविधा मृगाः
कदाचित्तत्र मार्जारस्त्वप्रमत्तोऽप्यबध्यत

१२.१३६.२८तस्मिन्बद्धे महाप्राज्ञः शत्रौ नित्याततायिनि
तं कालं पलितो ज्ञात्वा विचचार सुनिर्भयः

१२.१३६.२९तेनानुचरता तस्मिन्वने विश्वस्तचारिणा
भक्षं विचरमाणेन नचिराद्दृष्टमामिषम्

१२.१३६.३०स तमुन्माथमारुह्य तदामिषमभक्षयत्
तस्योपरि सपत्नस्य बद्धस्य मनसा हसन्

१२.१३६.३१आमिषे तु प्रसक्तः स कदाचिदवलोकयन्
अपश्यदपरं घोरमात्मनः शत्रुमागतम्

१२.१३६.३२शरप्रसूनसंकाशं महीविवरशायिनम्
नकुलं हरिकं नाम चपलं ताम्रलोचनम्

१२.१३६.३३तेन मूषकगन्धेन त्वरमाणमुपागतम्
भक्षार्थं लेलिहद्वक्त्रं भूमावूर्ध्वमुखं स्थितम्

१२.१३६.३४शाखागतमरिं चान्यदपश्यत्कोटरालयम्
उलूकं चन्द्रकं नाम तीक्ष्णतुण्डं क्षपाचरम्

१२.१३६.३५गतस्य विषयं तस्य नकुलोलूकयोस्तदा
अथास्यासीदियं चिन्ता तत्प्राप्य सुमहद्भयम्

१२.१३६.३६आपद्यस्यां सुकष्टायां मरणे समुपस्थिते
समन्ताद्भय उत्पन्ने कथं कार्यं हितैषिणा

१२.१३६.३७स तथा सर्वतो रुद्धः सर्वत्र समदर्शनः
अभवद्भयसंतप्तश्चक्रे चेमां परां गतिम्

१२.१३६.३८आपद्विनाशभूयिष्ठा शतैकीयं च जीवितम्
समन्तसंशया चेयमस्मानापदुपस्थिता

१२.१३६.३९गतं हि सहसा भूमिं नकुलो मां समाप्नुयात्
उलूकश्चेह तिष्ठन्तं मार्जारः पाशसंक्षयात्

१२.१३६.४०न त्वेवास्मद्विधः प्राज्ञः संमोहं गन्तुमर्हति
करिष्ये जीविते यत्नं यावदुच्छ्वासनिग्रहम्

१२.१३६.४१न हि बुद्ध्यान्विताः प्राज्ञा नीतिशास्त्रविशारदाः
संभ्रमन्त्यापदं प्राप्य महतोऽर्थानवाप्य च

१२.१३६.४२न त्वन्यामिह मार्जाराद्गतिं पश्यामि सांप्रतम्
विषमस्थो ह्ययं जन्तुः कृत्यं चास्य महन्मया

१२.१३६.४३जीवितार्थी कथं त्वद्य प्रार्थितः शत्रुभिस्त्रिभिः
तस्मादिममहं शत्रुं मार्जारं संश्रयामि वै

१२.१३६.४४क्षत्रविद्यां समाश्रित्य हितमस्योपधारये
येनेमं शत्रुसंघातं मतिपूर्वेण वञ्चये

१२.१३६.४५अयमत्यन्तशत्रुर्मे वैषम्यं परमं गतः
मूढो ग्राहयितुं स्वार्थं संगत्या यदि शक्यते

१२.१३६.४६कदाचिद्व्यसनं प्राप्य संधिं कुर्यान्मया सह
बलिना संनिविष्टस्य शत्रोरपि परिग्रहः
कार्य इत्याहुराचार्या विषमे जीवितार्थिना

१२.१३६.४७श्रेयान्हि पण्डितः शत्रुर्न च मित्रमपण्डितम्
मम ह्यमित्रे मार्जारे जीवितं संप्रतिष्ठितम्

१२.१३६.४८हन्तैनं संप्रवक्ष्यामि हेतुमात्माभिरक्षणे
अपीदानीमयं शत्रुः संगत्या पण्डितो भवेत्

१२.१३६.४९ततोऽर्थगतितत्त्वज्ञः संधिविग्रहकालवित्
सान्त्वपूर्वमिदं वाक्यं मार्जारं मूषकोऽब्रवीत्

१२.१३६.५०सौहृदेनाभिभाषे त्वा कच्चिन्मार्जार जीवसि
जीवितं हि तवेच्छामि श्रेयः साधारणं हि नौ

१२.१३६.५१न ते सौम्य विषत्तव्यं जीविष्यसि यथा पुरा
अहं त्वामुद्धरिष्यामि प्राणाञ्जह्यां हि ते कृते

१२.१३६.५२अस्ति कश्चिदुपायोऽत्र पुष्कलः प्रतिभाति माम्
येन शक्यस्त्वया मोक्षः प्राप्तुं श्रेयो यथा मया

१२.१३६.५३मया ह्युपायो दृष्टोऽयं विचार्य मतिमात्मनः
आत्मार्थं च त्वदर्थं च श्रेयः साधारणं हि नौ

१२.१३६.५४इदं हि नकुलोलूकं पापबुद्ध्यभितः स्थितम्
न धर्षयति मार्जार तेन मे स्वस्ति सांप्रतम्

१२.१३६.५५कूजंश्चपलनेत्रोऽयं कौशिको मां निरीक्षते
नगशाखाग्रहस्तिष्ठंस्तस्याहं भृशमुद्विजे

१२.१३६.५६सतां साप्तपदं सख्यं सवासो मेऽसि पण्डितः
सांवास्यकं करिष्यामि नास्ति ते मृत्युतो भयम्

१२.१३६.५७न हि शक्नोषि मार्जार पाशं छेत्तुं विना मया
अहं छेत्स्यामि ते पाशं यदि मां त्वं न हिंससि

१२.१३६.५८त्वमाश्रितो नगस्याग्रं मूलं त्वहमुपाश्रितः
चिरोषिताविहावां वै वृक्षेऽस्मिन्विदितं हि ते

१२.१३६.५९यस्मिन्नाश्वसते कश्चिद्यश्च नाश्वसते क्वचित्
न तौ धीराः प्रशंसन्ति नित्यमुद्विग्नचेतसौ

१२.१३६.६०तस्माद्विवर्धतां प्रीतिः सत्या संगतिरस्तु नौ
कालातीतमपार्थं हि न प्रशंसन्ति पण्डिताः

१२.१३६.६१अर्थयुक्तिमिमां तावद्यथाभूतां निशामय
तव जीवितमिच्छामि त्वं ममेच्छसि जीवितम्

१२.१३६.६२कश्चित्तरति काष्ठेन सुगम्भीरां महानदीम्
स तारयति तत्काष्ठं स च काष्ठेन तार्यते

१२.१३६.६३ईदृशो नौ समायोगो भविष्यति सुनिस्तरः
अहं त्वां तारयिष्यामि त्वं च मां तारयिष्यसि

१२.१३६.६४एवमुक्त्वा तु पलितस्तदर्थमुभयोर्हितम्
हेतुमद्ग्रहणीयं च कालाकाङ्क्षी व्यपैक्षत

१२.१३६.६५अथ सुव्याहृतं तस्य श्रुत्वा शत्रुर्विचक्षणः
हेतुमद्ग्रहणीयार्थं मार्जारो वाक्यमब्रवीत्

१२.१३६.६६बुद्धिमान्वाक्यसंपन्नस्तद्वाक्यमनुवर्णयन्
तामवस्थामवेक्ष्यान्त्यां साम्नैव प्रत्यपूजयत्

१२.१३६.६७ततस्तीक्ष्णाग्रदशनो वैडूर्यमणिलोचनः
मूषकं मन्दमुद्वीक्ष्य मार्जारो लोमशोऽब्रवीत्

१२.१३६.६८नन्दामि सौम्य भद्रं ते यो मां जीवन्तमिच्छसि
श्रेयश्च यदि जानीषे क्रियतां मा विचारय

१२.१३६.६९अहं हि दृढमापन्नस्त्वमापन्नतरो मया
द्वयोरापन्नयोः संधिः क्रियतां मा विचारय

१२.१३६.७०विधत्स्व प्राप्तकालं यत्कार्यं सिध्यतु चावयोः
मयि कृच्छ्राद्विनिर्मुक्ते न विनङ्क्ष्यति ते कृतम्

१२.१३६.७१न्यस्तमानोऽस्मि भक्तोऽस्मि शिष्यस्त्वद्धितकृत्तथा
निदेशवशवर्ती च भवन्तं शरणं गतः

१२.१३६.७२इत्येवमुक्तः पलितो मार्जारं वशमागतम्
वाक्यं हितमुवाचेदमभिनीतार्थमर्थवत्

१२.१३६.७३उदारं यद्भवानाह नैतच्चित्रं भवद्विधे
विदितो यस्तु मार्गो मे हितार्थं शृणु तं मम

१२.१३६.७४अहं त्वानुप्रवेक्ष्यामि नकुलान्मे महद्भयम्
त्रायस्व मां मा वधीश्च शक्तोऽस्मि तव मोक्षणे

१२.१३६.७५उलूकाच्चैव मां रक्ष क्षुद्रः प्रार्थयते हि माम्
अहं छेत्स्यामि ते पाशान्सखे सत्येन ते शपे

१२.१३६.७६तद्वचः संगतं श्रुत्वा लोमशो युक्तमर्थवत्
हर्षादुद्वीक्ष्य पलितं स्वागतेनाभ्यपूजयत्

१२.१३६.७७स तं संपूज्य पलितं मार्जारः सौहृदे स्थितः
सुविचिन्त्याब्रवीद्धीरः प्रीतस्त्वरित एव हि

१२.१३६.७८क्षिप्रमागच्छ भद्रं ते त्वं मे प्राणसमः सखा
तव प्राज्ञ प्रसादाद्धि क्षिप्रं प्राप्स्यामि जीवितम्

१२.१३६.७९यद्यदेवंगतेनाद्य शक्यं कर्तुं मया तव
तदाज्ञापय कर्ताहं संधिरेवास्तु नौ सखे

१२.१३६.८०अस्मात्ते संशयान्मुक्तः समित्रगणबान्धवः
सर्वकार्याणि कर्ताहं प्रियाणि च हितानि च

१२.१३६.८१मुक्तश्च व्यसनादस्मात्सौम्याहमपि नाम ते
प्रीतिमुत्पादयेयं च प्रतिकर्तुं च शक्नुयाम्

१२.१३६.८२ग्राहयित्वा तु तं स्वार्थं मार्जारं मूषकस्तदा
प्रविवेश सुविस्रब्धः सम्यगर्थांश्चचार ह

१२.१३६.८३एवमाश्वासितो विद्वान्मार्जारेण स मूषकः
मार्जारोरसि विस्रब्धः सुष्वाप पितृमातृवत्

१२.१३६.८४लीनं तु तस्य गात्रेषु मार्जारस्याथ मूषकम्
तौ दृष्ट्वा नकुलोलूकौ निराशौ जग्मतुर्गृहान्

१२.१३६.८५लीनस्तु तस्य गात्रेषु पलितो देशकालवित्
चिच्छेद पाशान्नृपते कालाकाङ्क्षी शनैः शनैः

१२.१३६.८६अथ बन्धपरिक्लिष्टो मार्जारो वीक्ष्य मूषकम्
छिन्दन्तं वै तदा पाशानत्वरन्तं त्वरान्वितः

१२.१३६.८७तमत्वरन्तं पलितं पाशानां छेदने तदा
संचोदयितुमारेभे मार्जारो मूषकं तदा

१२.१३६.८८किं सौम्य नाभित्वरसे किं कृतार्थोऽवमन्यसे
छिन्धि पाशानमित्रघ्न पुरा श्वपच एति सः

१२.१३६.८९इत्युक्तस्त्वरता तेन मतिमान्पलितोऽब्रवीत्
मार्जारमकृतप्रज्ञं वश्यमात्महितं वचः

१२.१३६.९०तूष्णीं भव न ते सौम्य त्वरा कार्या न संभ्रमः
वयमेवात्र कालज्ञा न कालः परिहास्यते

१२.१३६.९१अकाले कृत्यमारब्धं कर्तुं नार्थाय कल्पते
तदेव काल आरब्धं महतेऽर्थाय कल्पते

१२.१३६.९२अकालविप्रमुक्तान्मे त्वत्त एव भयं भवेत्
तस्मात्कालं प्रतीक्षस्व किमिति त्वरसे सखे

१२.१३६.९३यावत्पश्यामि चण्डालमायान्तं शस्त्रपाणिनम्
ततश्छेत्स्यामि ते पाशं प्राप्ते साधारणे भये

१२.१३६.९४तस्मिन्काले प्रमुक्तस्त्वं तरुमेवाधिरोहसि
न हि ते जीवितादन्यत्किंचित्कृत्यं भविष्यति

१२.१३६.९५ततो भवत्यतिक्रान्ते त्रस्ते भीते च लोमश
अहं बिलं प्रवेक्ष्यामि भवाञ्शाखां गमिष्यति

१२.१३६.९६एवमुक्तस्तु मार्जारो मूषकेणात्मनो हितम्
वचनं वाक्यतत्त्वज्ञो जीवितार्थी महामतिः

१२.१३६.९७अथात्मकृत्यत्वरितः सम्यक्प्रश्रयमाचरन्
उवाच लोमशो वाक्यं मूषकं चिरकारिणम्

१२.१३६.९८न ह्येवं मित्रकार्याणि प्रीत्या कुर्वन्ति साधवः
यथा त्वं मोक्षितः कृच्छ्रात्त्वरमाणेन वै मया

१२.१३६.९९तथैव त्वरमाणेन त्वया कार्यं हितं मम
यत्नं कुरु महाप्राज्ञ यथा स्वस्त्यावयोर्भवेत्

१२.१३६.१००अथ वा पूर्ववैरं त्वं स्मरन्कालं विकर्षसि
पश्य दुष्कृतकर्मत्वं व्यक्तमायुःक्षयो मम

१२.१३६.१०१यच्च किंचिन्मयाज्ञानात्पुरस्ताद्विप्रियं कृतम्
न तन्मनसि कर्तव्यं क्षमये त्वां प्रसीद मे

१२.१३६.१०२तमेवंवादिनं प्राज्ञः शास्त्रविद्बुद्धिसंमतः
उवाचेदं वचः श्रेष्ठं मार्जारं मूषकस्तदा

१२.१३६.१०३श्रुतं मे तव मार्जार स्वमर्थं परिगृह्णतः
ममापि त्वं विजानीहि स्वमर्थं परिगृह्णतः

१२.१३६.१०४यन्मित्रं भीतवत्साध्यं यन्मित्रं भयसंहितम्
सुरक्षितं ततः कार्यं पाणिः सर्पमुखादिव

१२.१३६.१०५कृत्वा बलवता संधिमात्मानं यो न रक्षति
अपथ्यमिव तद्भुक्तं तस्यानर्थाय कल्पते

१२.१३६.१०६न कश्चित्कस्यचिन्मित्रं न कश्चित्कस्यचित्सुहृत्
अर्थैरर्था निबध्यन्ते गजैर्वनगजा इव

१२.१३६.१०७न हि कश्चित्कृते कार्ये कर्तारं समवेक्षते
तस्मात्सर्वाणि कार्याणि सावशेषाणि कारयेत्

१२.१३६.१०८तस्मिन्कालेऽपि च भवान्दिवाकीर्तिभयान्वितः
मम न ग्रहणे शक्तः पलायनपरायणः

१२.१३६.१०९छिन्नं तु तन्तुबाहुल्यं तन्तुरेकोऽवशेषितः
छेत्स्याम्यहं तदप्याशु निर्वृतो भव लोमश

१२.१३६.११०तयोः संवदतोरेवं तथैवापन्नयोर्द्वयोः
क्षयं जगाम सा रात्रिर्लोमशं चाविशद्भयम्

१२.१३६.१११ततः प्रभातसमये विकृतः कृष्णपिङ्गलः
स्थूलस्फिग्विकचो रूक्षः श्वचक्रपरिवारितः

१२.१३६.११२शङ्कुकर्णो महावक्त्रः पलितो घोरदर्शनः
परिघो नाम चण्डालः शस्त्रपाणिरदृश्यत

१२.१३६.११३तं दृष्ट्वा यमदूताभं मार्जारस्त्रस्तचेतनः
उवाच पलितं भीतः किमिदानीं करिष्यसि

१२.१३६.११४अथ चापि सुसंत्रस्तौ तं दृष्ट्वा घोरदर्शनम्
क्षणेन नकुलोलूकौ नैराश्यं जग्मतुस्तदा

१२.१३६.११५बलिनौ मतिमन्तौ च संघातं चाप्युपागतौ
अशक्यौ सुनयात्तस्मात्संप्रधर्षयितुं बलात्

१२.१३६.११६कार्यार्थं कृतसंधी तौ दृष्ट्वा मार्जारमूषकौ
उलूकनकुलौ तूर्णं जग्मतुः स्वं स्वमालयम्

१२.१३६.११७ततश्चिच्छेद तं तन्तुं मार्जारस्य स मूषकः
विप्रमुक्तोऽथ मार्जारस्तमेवाभ्यपतद्द्रुमम्

१२.१३६.११८स च तस्माद्भयान्मुक्तो मुक्तो घोरेण शत्रुणा
बिलं विवेश पलितः शाखां भेजे च लोमशः

१२.१३६.११९उन्माथमप्यथादाय चण्डालो वीक्ष्य सर्वशः
विहताशः क्षणेनाथ तस्माद्देशादपाक्रमत्
जगाम च स्वभवनं चण्डालो भरतर्षभ

१२.१३६.१२०ततस्तस्माद्भयान्मुक्तो दुर्लभं प्राप्य जीवितम्
बिलस्थं पादपाग्रस्थः पलितं लोमशोऽब्रवीत्

१२.१३६.१२१अकृत्वा संविदं कांचित्सहसाहमुपप्लुतः
कृतज्ञं कृतकल्याणं कच्चिन्मां नाभिशङ्कसे

१२.१३६.१२२गत्वा च मम विश्वासं दत्त्वा च मम जीवितम्
मित्रोपभोगसमये किं त्वं नैवोपसर्पसि

१२.१३६.१२३कृत्वा हि पूर्वं मित्राणि यः पश्चान्नानुतिष्ठति
न स मित्राणि लभते कृच्छ्रास्वापत्सु दुर्मतिः

१२.१३६.१२४तत्कृतोऽहं त्वया मित्रं सामर्थ्यादात्मनः सखे
स मां मित्रत्वमापन्नमुपभोक्तुं त्वमर्हसि

१२.१३६.१२५यानि मे सन्ति मित्राणि ये च मे सन्ति बान्धवाः
सर्वे त्वां पूजयिष्यन्ति शिष्या गुरुमिव प्रियम्

१२.१३६.१२६अहं च पूजयिष्ये त्वां समित्रगणबान्धवम्
जीवितस्य प्रदातारं कृतज्ञः को न पूजयेत्

१२.१३६.१२७ईश्वरो मे भवानस्तु शरीरस्य गृहस्य च
अर्थानां चैव सर्वेषामनुशास्ता च मे भव

१२.१३६.१२८अमात्यो मे भव प्राज्ञ पितेव हि प्रशाधि माम्
न तेऽस्ति भयमस्मत्तो जीवितेनात्मनः शपे

१२.१३६.१२९बुद्ध्या त्वमुशनाः साक्षाद्बले त्वधिकृता वयम्
त्वन्मन्त्रबलयुक्तो हि विन्देत जयमेव ह

१२.१३६.१३०एवमुक्तः परं सान्त्वं मार्जारेण स मूषकः
उवाच परमार्थज्ञः श्लक्ष्णमात्महितं वचः

१२.१३६.१३१यद्भवानाह तत्सर्वं मया ते लोमश श्रुतम्
ममापि तावद्ब्रुवतः शृणु यत्प्रतिभाति माम्

१२.१३६.१३२वेदितव्यानि मित्राणि बोद्धव्याश्चापि शत्रवः
एतत्सुसूक्ष्मं लोकेऽस्मिन्दृश्यते प्राज्ञसंमतम्

१२.१३६.१३३शत्रुरूपाश्च सुहृदो मित्ररूपाश्च शत्रवः
सान्त्वितास्ते न बुध्यन्ते रागलोभवशं गताः

१२.१३६.१३४नास्ति जात्या रिपुर्नाम मित्रं नाम न विद्यते
सामर्थ्ययोगाज्जायन्ते मित्राणि रिपवस्तथा

१२.१३६.१३५यो यस्मिञ्जीवति स्वार्थं पश्येत्तावत्स जीवति
स तस्य तावन्मित्रं स्याद्यावन्न स्याद्विपर्ययः

१२.१३६.१३६नास्ति मैत्री स्थिरा नाम न च ध्रुवमसौहृदम्
अर्थयुक्त्या हि जायन्ते मित्राणि रिपवस्तथा

१२.१३६.१३७मित्रं च शत्रुतामेति कस्मिंश्चित्कालपर्यये
शत्रुश्च मित्रतामेति स्वार्थो हि बलवत्तरः

१२.१३६.१३८यो विश्वसति मित्रेषु न चाश्वसति शत्रुषु
अर्थयुक्तिमविज्ञाय चलितं तस्य जीवितम्

१२.१३६.१३९अर्थयुक्तिमविज्ञाय यः शुभे कुरुते मतिम्
मित्रे वा यदि वा शत्रौ तस्यापि चलिता मतिः

१२.१३६.१४०न विश्वसेदविश्वस्ते विश्वस्तेऽपि न विश्वसेत्
विश्वासाद्भयमुत्पन्नं मूलान्यपि निकृन्तति

१२.१३६.१४१अर्थयुक्त्या हि दृश्यन्ते पिता माता सुतास्तथा
मातुला भागिनेयाश्च तथा संबन्धिबान्धवाः

१२.१३६.१४२पुत्रं हि मातापितरु त्यजतः पतितं प्रियम्
लोको रक्षति चात्मानं पश्य स्वार्थस्य सारताम्

१२.१३६.१४३तं मन्ये निकृतिप्रज्ञं यो मोक्षं प्रत्यनन्तरम्
कृत्यं मृगयसे कर्तुं सुखोपायमसंशयम्

१२.१३६.१४४अस्मिन्निलय एव त्वं न्यग्रोधादवतारितः
पूर्वं निविष्टमुन्माथं चपलत्वान्न बुद्धवान्

१२.१३६.१४५आत्मनश्चपलो नास्ति कुतोऽन्येषां भविष्यति
तस्मात्सर्वाणि कार्याणि चपलो हन्त्यसंशयम्

१२.१३६.१४६ब्रवीति मधुरं कंचित्प्रियो मे ह भवानिति
तन्मिथ्याकरणं सर्वं विस्तरेणापि मे शृणु

१२.१३६.१४७कारणात्प्रियतामेति द्वेष्यो भवति कारणात्
अर्थार्थी जीवलोकोऽयं न कश्चित्कस्यचित्प्रियः

१२.१३६.१४८सख्यं सोदरयोर्भ्रात्रोर्दंपत्योर्वा परस्परम्
कस्यचिन्नाभिजानामि प्रीतिं निष्कारणामिह

१२.१३६.१४९यद्यपि भ्रातरः क्रुद्धा भार्या वा कारणान्तरे
स्वभावतस्ते प्रीयन्ते नेतरः प्रीयते जनः

१२.१३६.१५०प्रियो भवति दानेन प्रियवादेन चापरः
मन्त्रहोमजपैरन्यः कार्यार्थं प्रीयते जनः

१२.१३६.१५१उत्पन्ने कारणे प्रीतिर्नास्ति नौ कारणान्तरे
प्रध्वस्ते कारणस्थाने सा प्रीतिर्विनिवर्तते

१२.१३६.१५२किं नु तत्कारणं मन्ये येनाहं भवतः प्रियः
अन्यत्राभ्यवहारार्थात्तत्रापि च बुधा वयम्

१२.१३६.१५३कालो हेतुं विकुरुते स्वार्थस्तमनुवर्तते
स्वार्थं प्राज्ञोऽभिजानाति प्राज्ञं लोकोऽनुवर्तते

१२.१३६.१५४न त्वीदृशं त्वया वाच्यं विदुषि स्वार्थपण्डिते
अकालेऽविषमस्थस्य स्वार्थहेतुरयं तव

१२.१३६.१५५तस्मान्नाहं चले स्वार्थात्सुस्थितः संधिविग्रहे
अभ्राणामिव रूपाणि विकुर्वन्ति क्षणे क्षणे

१२.१३६.१५६अद्यैव हि रिपुर्भूत्वा पुनरद्यैव सौहृदम्
पुनश्च रिपुरद्यैव युक्तीनां पश्य चापलम्

१२.१३६.१५७आसीत्तावत्तु मैत्री नौ यावद्धेतुरभूत्पुरा
सा गता सह तेनैव कालयुक्तेन हेतुना

१२.१३६.१५८त्वं हि मेऽत्यन्ततः शत्रुः सामर्थ्यान्मित्रतां गतः
तत्कृत्यमभिनिर्वृत्तं प्रकृतिः शत्रुतां गता

१२.१३६.१५९सोऽहमेवं प्रणीतानि ज्ञात्वा शास्त्राणि तत्त्वतः
प्रविशेयं कथं पाशं त्वत्कृतं तद्वदस्व मे

१२.१३६.१६०त्वद्वीर्येण विमुक्तोऽहं मद्वीर्येण तथा भवान्
अन्योन्यानुग्रहे वृत्ते नास्ति भूयः समागमः

१२.१३६.१६१त्वं हि सौम्य कृतार्थोऽद्य निर्वृत्तार्थास्तथा वयम्
न तेऽस्त्यन्यन्मया कृत्यं किंचिदन्यत्र भक्षणात्

१२.१३६.१६२अहमन्नं भवान्भोक्ता दुर्बलोऽहं भवान्बली
नावयोर्विद्यते संधिर्नियुक्ते विषमे बले

१२.१३६.१६३संमन्येऽहं तव प्रज्ञां यन्मोक्षात्प्रत्यनन्तरम्
भक्ष्यं मृगयसे नूनं सुखोपायमसंशयम्

१२.१३६.१६४भक्ष्यार्थमेव बद्धस्त्वं स मुक्तः प्रसृतः क्षुधा
शास्त्रज्ञमभिसंधाय नूनं भक्षयिताद्य माम्

१२.१३६.१६५जानामि क्षुधितं हि त्वामाहारसमयश्च ते
स त्वं मामभिसंधाय भक्ष्यं मृगयसे पुनः

१२.१३६.१६६यच्चापि पुत्रदारं स्वं तत्संनिसृजसे मयि
शुश्रूषां नाम मे कर्तुं सखे मम न तत्क्षमम्

१२.१३६.१६७त्वया मां सहितं दृष्ट्वा प्रिया भार्या सुताश्च ये
कस्मान्मां ते न खादेयुर्हृष्टाः प्रणयिनस्त्वयि

१२.१३६.१६८नाहं त्वया समेष्यामि वृत्तो हेतुः समागमे
शिवं ध्यायस्व मेऽत्रस्थः सुकृतं स्मर्यते यदि

१२.१३६.१६९शत्रोरन्नाद्यभूतः सन्क्लिष्टस्य क्षुधितस्य च
भक्ष्यं मृगयमाणस्य कः प्राज्ञो विषयं व्रजेत्

१२.१३६.१७०स्वस्ति तेऽस्तु गमिष्यामि दूरादपि तवोद्विजे
नाहं त्वया समेष्यामि निर्वृतो भव लोमश

१२.१३६.१७१बलवत्संनिकर्षो हि न कदाचित्प्रशस्यते
प्रशान्तादपि मे प्राज्ञ भेतव्यं बलिनः सदा

१२.१३६.१७२यदि त्वर्थेन मे कार्यं ब्रूहि किं करवाणि ते
कामं सर्वं प्रदास्यामि न त्वात्मानं कदाचन

१२.१३६.१७३आत्मार्थे संततिस्त्याज्या राज्यं रत्नं धनं तथा
अपि सर्वस्वमुत्सृज्य रक्षेदात्मानमात्मना

१२.१३६.१७४ऐश्वर्यधनरत्नानां प्रत्यमित्रेऽपि तिष्ठताम्
दृष्टा हि पुनरावृत्तिर्जीवतामिति नः श्रुतम्

१२.१३६.१७५न त्वात्मनः संप्रदानं धनरत्नवदिष्यते
आत्मा तु सर्वतो रक्ष्यो दारैरपि धनैरपि

१२.१३६.१७६आत्मरक्षिततन्त्राणां सुपरीक्षितकारिणाम्
आपदो नोपपद्यन्ते पुरुषाणां स्वदोषजाः

१२.१३६.१७७शत्रून्सम्यग्विजानन्ति दुर्बला ये बलीयसः
तेषां न चाल्यते बुद्धिरात्मार्थं कृतनिश्चया

१२.१३६.१७८इत्यभिव्यक्तमेवासौ पलितेनावभर्त्सितः
मार्जारो व्रीडितो भूत्वा मूषकं वाक्यमब्रवीत्

१२.१३६.१७९संमन्येऽहं तव प्रज्ञां यस्त्वं मम हिते रतः
उक्तवानर्थतत्त्वेन मया संभिन्नदर्शनः

१२.१३६.१८०न तु मामन्यथा साधो त्वं विज्ञातुमिहार्हसि
प्राणप्रदानजं त्वत्तो मम सौहृदमागतम्

१२.१३६.१८१धर्मज्ञोऽस्मि गुणज्ञोऽस्मि कृतज्ञोऽस्मि विशेषतः
मित्रेषु वत्सलश्चास्मि त्वद्विधेषु विशेषतः

१२.१३६.१८२तन्मामेवंगते साधो न यावयितुमर्हसि
त्वया हि याव्यमानोऽहं प्राणाञ्जह्यां सबान्धवः

१२.१३६.१८३धिक्शब्दो हि बुधैर्दृष्टो मद्विधेषु मनस्विषु
मरणं धर्मतत्त्वज्ञ न मां शङ्कितुमर्हसि

१२.१३६.१८४इति संस्तूयमानो हि मार्जारेण स मूषकः
मनसा भावगम्भीरं मार्जारं वाक्यमब्रवीत्

१२.१३६.१८५साधुर्भवाञ्श्रुतार्थोऽस्मि प्रीयते न च विश्वसे
संस्तवैर्वा धनौघैर्वा नाहं शक्यः पुनस्त्वया

१२.१३६.१८६न ह्यमित्रवशं यान्ति प्राज्ञा निष्कारणं सखे
अस्मिन्नर्थे च गाथे द्वे निबोधोशनसा कृते

१२.१३६.१८७शत्रुसाधारणे कृत्ये कृत्वा संधिं बलीयसा
समाहितश्चरेद्युक्त्या कृतार्थश्च न विश्वसेत्

१२.१३६.१८८तस्मात्सर्वास्ववस्थासु रक्षेज्जीवितमात्मनः
द्रव्याणि संततिश्चैव सर्वं भवति जीवतः

१२.१३६.१८९संक्षेपो नीतिशास्त्राणामविश्वासः परो मतः
नृषु तस्मादविश्वासः पुष्कलं हितमात्मनः

१२.१३६.१९०वध्यन्ते न ह्यविश्वस्ताः शत्रुभिर्दुर्बला अपि
विश्वस्तास्त्वाशु वध्यन्ते बलवन्तोऽपि दुर्बलैः

१२.१३६.१९१त्वद्विधेभ्यो मया ह्यात्मा रक्ष्यो मार्जार सर्वदा
रक्ष त्वमपि चात्मानं चण्डालाज्जातिकिल्बिषात्

१२.१३६.१९२स तस्य ब्रुवतस्त्वेवं संत्रासाज्जातसाध्वसः
स्वबिलं हि जवेनाशु मार्जारः प्रययौ ततः

१२.१३६.१९३ततः शास्त्रार्थतत्त्वज्ञो बुद्धिसामर्थ्यमात्मनः
विश्राव्य पलितः प्राज्ञो बिलमन्यज्जगाम ह

१२.१३६.१९४एवं प्रज्ञावता बुद्ध्या दुर्बलेन महाबलाः
एकेन बहवोऽमित्राः पलितेनाभिसंधिताः

१२.१३६.१९५अरिणापि समर्थेन संधिं कुर्वीत पण्डितः
मूषकश्च बिडालश्च मुक्तावन्योन्यसंश्रयात्

१२.१३६.१९६इत्येष क्षत्रधर्मस्य मया मार्गोऽनुदर्शितः
विस्तरेण महीपाल संक्षेपेण पुनः शृणु

१२.१३६.१९७अन्योन्यकृतवैरौ तु चक्रतुः प्रीतिमुत्तमाम्
अन्योन्यमभिसंधातुमभूच्चैव तयोर्मतिः

१२.१३६.१९८तत्र प्राज्ञोऽभिसंधत्ते सम्यग्बुद्धिबलाश्रयात्
अभिसंधीयते प्राज्ञः प्रमादादपि चाबुधैः

१२.१३६.१९९तस्मादभीतवद्भीतो विश्वस्तवदविश्वसन्
न ह्यप्रमत्तश्चलति चलितो वा विनश्यति

१२.१३६.२००कालेन रिपुणा संधिः काले मित्रेण विग्रहः
कार्य इत्येव तत्त्वज्ञाः प्राहुर्नित्यं युधिष्ठिर

१२.१३६.२०१एवं मत्वा महाराज शास्त्रार्थमभिगम्य च
अभियुक्तोऽप्रमत्तश्च प्राग्भयाद्भीतवच्चरेत्

१२.१३६.२०२भीतवत्संविधिः कार्यः प्रतिसंधिस्तथैव च
भयादुत्पद्यते बुद्धिरप्रमत्ताभियोगजा

१२.१३६.२०३न भयं विद्यते राजन्भीतस्यानागते भये
अभीतस्य तु विस्रम्भात्सुमहज्जायते भयम्

१२.१३६.२०४न भीरुरिति चात्यन्तं मन्त्रोऽदेयः कथंचन
अविज्ञानाद्धि विज्ञाते गच्छेदास्पददर्शिषु

१२.१३६.२०५तस्मादभीतवद्भीतो विश्वस्तवदविश्वसन्
कार्याणां गुरुतां बुद्ध्वा नानृतं किंचिदाचरेत्

१२.१३६.२०६एवमेतन्मया प्रोक्तमितिहासं युधिष्ठिर
श्रुत्वा त्वं सुहृदां मध्ये यथावत्समुपाचर

१२.१३६.२०७उपलभ्य मतिं चाग्र्यामरिमित्रान्तरं तथा
संधिविग्रहकालं च मोक्षोपायं तथापदि

१२.१३६.२०८शत्रुसाधारणे कृत्ये कृत्वा संधिं बलीयसा
समागमं चरेद्युक्त्या कृतार्थो न च विश्वसेत्

१२.१३६.२०९अविरुद्धां त्रिवर्गेण नीतिमेतां युधिष्ठिर
अभ्युत्तिष्ठ श्रुतादस्माद्भूयस्त्वं रञ्जयन्प्रजाः

१२.१३६.२१०ब्राह्मणैश्चापि ते सार्धं यात्रा भवतु पाण्डव
ब्राह्मणा हि परं श्रेयो दिवि चेह च भारत

१२.१३६.२११एते धर्मस्य वेत्तारः कृतज्ञाः सततं प्रभो
पूजिताः शुभकर्माणः पूर्वजित्या नराधिप

१२.१३६.२१२राज्यं श्रेयः परं राजन्यशः कीर्तिं च लप्स्यसे
कुलस्य संततिं चैव यथान्यायं यथाक्रमम्

१२.१३६.२१३द्वयोरिमं भारत संधिविग्रहं; सुभाषितं बुद्धिविशेषकारितम्
तथान्ववेक्ष्य क्षितिपेन सर्वदा; निषेवितव्यं नृप शत्रुमण्डले