१२.१३७.१युधिष्ठिर उवाच
१२.१३७.२उक्तो मन्त्रो महाबाहो न विश्वासोऽस्ति शत्रुषु
कथं हि राजा वर्तेत यदि सर्वत्र नाश्वसेत्
१२.१३७.३विश्वासाद्धि परं राज्ञो राजन्नुत्पद्यते भयम्
कथं वै नाश्वसन्राजा शत्रूञ्जयति पार्थिव
१२.१३७.४एतन्मे संशयं छिन्धि मनो मे संप्रमुह्यति
अविश्वासकथामेतामुपश्रुत्य पितामह
१२.१३७.५भीष्म उवाच
१२.१३७.६शृणु कौन्तेय यो वृत्तो ब्रह्मदत्तनिवेशने
पूजन्या सह संवादो ब्रह्मदत्तस्य पार्थिव
१२.१३७.७काम्पिल्ये ब्रह्मदत्तस्य अन्तःपुरनिवासिनी
पूजनी नाम शकुनी दीर्घकालं सहोषिता
१२.१३७.८रुतज्ञा सर्वभूतानां यथा वै जीवजीवकः
सर्वज्ञा सर्वधर्मज्ञा तिर्यग्योनिगतापि सा
१२.१३७.९अभिप्रजाता सा तत्र पुत्रमेकं सुवर्चसम्
समकालं च राज्ञोऽपि देव्याः पुत्रो व्यजायत
१२.१३७.१०समुद्रतीरं गत्वा सा त्वाजहार फलद्वयम्
पुष्ट्यर्थं च स्वपुत्रस्य राजपुत्रस्य चैव ह
१२.१३७.११फलमेकं सुतायादाद्राजपुत्राय चापरम्
अमृतास्वादसदृशं बलतेजोविवर्धनम्
तत्रागच्छत्परां वृद्धिं राजपुत्रः फलाशनात्
१२.१३७.१२धात्र्या हस्तगतश्चापि तेनाक्रीडत पक्षिणा
शून्ये तु तमुपादाय पक्षिणं समजातकम्
हत्वा ततः स राजेन्द्र धात्र्या हस्तमुपागमत्
१२.१३७.१३अथ सा शकुनी राजन्नागमत्फलहारिका
अपश्यन्निहतं पुत्रं तेन बालेन भूतले
१२.१३७.१४बाष्पपूर्णमुखी दीना दृष्ट्वा सा तु हतं सुतम्
पूजनी दुःखसंतप्ता रुदती वाक्यमब्रवीत्
१२.१३७.१५क्षत्रिये संगतं नास्ति न प्रीतिर्न च सौहृदम्
कारणे संभजन्तीह कृतार्थाः संत्यजन्ति च
१२.१३७.१६क्षत्रियेषु न विश्वासः कार्यः सर्वोपघातिषु
अपकृत्यापि सततं सान्त्वयन्ति निरर्थकम्
१२.१३७.१७अहमस्य करोम्यद्य सदृशीं वैरयातनाम्
कृतघ्नस्य नृशंसस्य भृशं विश्वासघातिनः
१२.१३७.१८सहसंजातवृद्धस्य तथैव सहभोजिनः
शरणागतस्य च वधस्त्रिविधं ह्यस्य किल्बिषम्
१२.१३७.१९इत्युक्त्वा चरणाभ्यां तु नेत्रे नृपसुतस्य सा
भित्त्वा स्वस्था तत इदं पूजनी वाक्यमब्रवीत्
१२.१३७.२०इच्छयैव कृतं पापं सद्य एवोपसर्पति
कृतप्रतिक्रियं तेषां न नश्यति शुभाशुभम्
१२.१३७.२१पापं कर्म कृतं किंचिन्न तस्मिन्यदि विद्यते
निपात्यतेऽस्य पुत्रेषु न चेत्पौत्रेषु नप्तृषु
१२.१३७.२२ब्रह्मदत्त उवाच
१२.१३७.२३अस्ति वै कृतमस्माभिरस्ति प्रतिकृतं त्वया
उभयं तत्समीभूतं वस पूजनि मा गमः
१२.१३७.२४पूजन्युवाच
१२.१३७.२५सकृत्कृतापराधस्य तत्रैव परिलम्बतः
न तद्बुधाः प्रशंसन्ति श्रेयस्तत्रापसर्पणम्
१२.१३७.२६सान्त्वे प्रयुक्ते नृपते कृतवैरे न विश्वसेत्
क्षिप्रं प्रबध्यते मूढो न हि वैरं प्रशाम्यति
१२.१३७.२७अन्योन्यं कृतवैराणां पुत्रपौत्रं निगच्छति
पुत्रपौत्रे विनष्टे तु परलोकं निगच्छति
१२.१३७.२८सर्वेषां कृतवैराणामविश्वासः सुखावहः
एकान्ततो न विश्वासः कार्यो विश्वासघातकः
१२.१३७.२९न विश्वसेदविश्वस्ते विश्वस्तेऽपि न विश्वसेत्
कामं विश्वासयेदन्यान्परेषां तु न विश्वसेत्
१२.१३७.३०माता पिता बान्धवानां वरिष्ठौ; भार्या जरा बीजमात्रं तु पुत्रः
भ्राता शत्रुः क्लिन्नपाणिर्वयस्य; आत्मा ह्येकः सुखदुःखस्य वेत्ता
१२.१३७.३१अन्योन्यकृतवैराणां न संधिरुपपद्यते
स च हेतुरतिक्रान्तो यदर्थमहमावसम्
१२.१३७.३२पूजितस्यार्थमानाभ्यां जन्तोः पूर्वापकारिणः
चेतो भवत्यविश्वस्तं पूर्वं त्रासयते बलात्
१२.१३७.३३पूर्वं संमानना यत्र पश्चाच्चैव विमानना
जह्यात्तं सत्त्ववान्वासं संमानितविमानितः
१२.१३७.३४उषितास्मि तवागारे दीर्घकालमहिंसिता
तदिदं वैरमुत्पन्नं सुखमास्स्व व्रजाम्यहम्
१२.१३७.३५ब्रह्मदत्त उवाच
१२.१३७.३६यत्कृते प्रतिकुर्याद्वै न स तत्रापराध्नुयात्
अनृणस्तेन भवति वस पूजनि मा गमः
१२.१३७.३७पूजन्युवाच
१२.१३७.३८न कृतस्य न कर्तुश्च सख्यं संधीयते पुनः
हृदयं तत्र जानाति कर्तुश्चैव कृतस्य च
१२.१३७.३९ब्रह्मदत्त उवाच
१२.१३७.४०कृतस्य चैव कर्तुश्च सख्यं संधीयते पुनः
वैरस्योपशमो दृष्टः पापं नोपाश्नुते पुनः
१२.१३७.४१पूजन्युवाच
१२.१३७.४२नास्ति वैरमुपक्रान्तं सान्त्वितोऽस्मीति नाश्वसेत्
विश्वासाद्बध्यते बालस्तस्माच्छ्रेयो ह्यदर्शनम्
१२.१३७.४३तरसा ये न शक्यन्ते शस्त्रैः सुनिशितैरपि
साम्ना ते विनिगृह्यन्ते गजा इव करेणुभिः
१२.१३७.४४ब्रह्मदत्त उवाच
१२.१३७.४५संवासाज्जायते स्नेहो जीवितान्तकरेष्वपि
अन्योन्यस्य च विश्वासः श्वपचेन शुनो यथा
१२.१३७.४६अन्योन्यकृतवैराणां संवासान्मृदुतां गतम्
नैव तिष्ठति तद्वैरं पुष्करस्थमिवोदकम्
१२.१३७.४७पूजन्युवाच
१२.१३७.४८वैरं पञ्चसमुत्थानं तच्च बुध्यन्ति पण्डिताः
स्त्रीकृतं वास्तुजं वाग्जं ससपत्नापराधजम्
१२.१३७.४९तत्र दाता निहन्तव्यः क्षत्रियेण विशेषतः
प्रकाशं वाप्रकाशं वा बुद्ध्वा देशबलादिकम्
१२.१३७.५०कृतवैरे न विश्वासः कार्यस्त्विह सुहृद्यपि
छन्नं संतिष्ठते वैरं गूढोऽग्निरिव दारुषु
१२.१३७.५१न वित्तेन न पारुष्यैर्न सान्त्वेन न च श्रुतैः
वैराग्निः शाम्यते राजन्नौर्वाग्निरिव सागरे
१२.१३७.५२न हि वैराग्निरुद्भूतः कर्म वाप्यपराधजम्
शाम्यत्यदग्ध्वा नृपते विना ह्येकतरक्षयात्
१२.१३७.५३सत्कृतस्यार्थमानाभ्यां स्यात्तु पूर्वापकारिणः
नैव शान्तिर्न विश्वासः कर्म त्रासयते बलात्
१२.१३७.५४नैवापकारे कस्मिंश्चिदहं त्वयि तथा भवान्
विश्वासादुषिता पूर्वं नेदानीं विश्वसाम्यहम्
१२.१३७.५५ब्रह्मदत्त उवाच
१२.१३७.५६कालेन क्रियते कार्यं तथैव विविधाः क्रियाः
कालेनैव प्रवर्तन्ते कः कस्येहापराध्यति
१२.१३७.५७तुल्यं चोभे प्रवर्तेते मरणं जन्म चैव ह
कार्यते चैव कालेन तन्निमित्तं हि जीवति
१२.१३७.५८बध्यन्ते युगपत्केचिदेकैकस्य न चापरे
कालो दहति भूतानि संप्राप्याग्निरिवेन्धनम्
१२.१३७.५९नाहं प्रमाणं नैव त्वमन्योन्यकरणे शुभे
कालो नित्यमुपाधत्ते सुखं दुःखं च देहिनाम्
१२.१३७.६०एवं वसेह सस्नेहा यथाकालमहिंसिता
यत्कृतं तच्च मे क्षान्तं त्वं चैव क्षम पूजनि
१२.१३७.६१पूजन्युवाच
१२.१३७.६२यदि कालः प्रमाणं ते न वैरं कस्यचिद्भवेत्
कस्मात्त्वपचितिं यान्ति बान्धवा बान्धवे हते
१२.१३७.६३कस्माद्देवासुराः पूर्वमन्योन्यमभिजघ्निरे
यदि कालेन निर्याणं सुखदुःखे भवाभवौ
१२.१३७.६४भिषजो भेषजं कर्तुं कस्मादिच्छन्ति रोगिणे
यदि कालेन पच्यन्ते भेषजैः किं प्रयोजनम्
१२.१३७.६५प्रलापः क्रियते कस्मात्सुमहाञ्शोकमूर्छितैः
यदि कालः प्रमाणं ते कस्माद्धर्मोऽस्ति कर्तृषु
१२.१३७.६६तव पुत्रो ममापत्यं हतवान्हिंसितो मया
अनन्तरं त्वया चाहं बन्धनीया महीपते
१२.१३७.६७अहं हि पुत्रशोकेन कृतपापा तवात्मजे
तथा त्वया प्रहर्तव्यं मयि तत्त्वं च मे शृणु
१२.१३७.६८भक्षार्थं क्रीडनार्थं वा नरा वाञ्छन्ति पक्षिणः
तृतीयो नास्ति संयोगो वधबन्धादृते क्षमः
१२.१३७.६९वधबन्धभयादेके मोक्षतन्त्रमुपागताः
मरणोत्पातजं दुःखमाहुर्धर्मविदो जनाः
१२.१३७.७०सर्वस्य दयिताः प्राणाः सर्वस्य दयिताः सुताः
दुःखादुद्विजते सर्वः सर्वस्य सुखमीप्सितम्
१२.१३७.७१दुःखं जरा ब्रह्मदत्त दुःखमर्थविपर्ययः
दुःखं चानिष्टसंवासो दुःखमिष्टवियोगजम्
१२.१३७.७२वैरबन्धकृतं दुःखं हिंसाजं स्त्रीकृतं तथा
दुःखं सुखेन सततं जनाद्विपरिवर्तते
१२.१३७.७३न दुःखं परदुःखे वै केचिदाहुरबुद्धयः
यो दुःखं नाभिजानाति स जल्पति महाजने
१२.१३७.७४यस्तु शोचति दुःखार्तः स कथं वक्तुमुत्सहेत्
रसज्ञः सर्वदुःखस्य यथात्मनि तथा परे
१२.१३७.७५यत्कृतं ते मया राजंस्त्वया च मम यत्कृतम्
न तद्वर्षशतैः शक्यं व्यपोहितुमरिंदम
१२.१३७.७६आवयोः कृतमन्योन्यं तत्र संधिर्न विद्यते
स्मृत्वा स्मृत्वा हि ते पुत्रं नवं वैरं भविष्यति
१२.१३७.७७वैरमन्तिकमासज्य यः प्रीतिं कर्तुमिच्छति
मृन्मयस्येव भग्नस्य तस्य संधिर्न विद्यते
१२.१३७.७८निश्चितश्चार्थशास्त्रज्ञैरविश्वासः सुखोदयः
उशनाश्चाथ गाथे द्वे प्रह्रादायाब्रवीत्पुरा
१२.१३७.७९ये वैरिणः श्रद्दधते सत्ये सत्येतरेऽपि वा
ते श्रद्दधाना वध्यन्ते मधु शुष्कतृणैर्यथा
१२.१३७.८०न हि वैराणि शाम्यन्ति कुलेष्वा दशमाद्युगात्
आख्यातारश्च विद्यन्ते कुले चेद्विद्यते पुमान्
१२.१३७.८१उपगुह्य हि वैराणि सान्त्वयन्ति नराधिपाः
अथैनं प्रतिपिंषन्ति पूर्णं घटमिवाश्मनि
१२.१३७.८२सदा न विश्वसेद्राजन्पापं कृत्वेह कस्यचित्
अपकृत्य परेषां हि विश्वासाद्दुःखमश्नुते
१२.१३७.८३ब्रह्मदत्त उवाच
१२.१३७.८४नाविश्वासाच्चिन्वतेऽर्थान्नेहन्ते चापि किंचन
भयादेकतरान्नित्यं मृतकल्पा भवन्ति च
१२.१३७.८५पूजन्युवाच
१२.१३७.८६यस्येह व्रणिनौ पादौ पद्भ्यां च परिसर्पति
क्षण्येते तस्य तौ पादौ सुगुप्तमभिधावतः
१२.१३७.८७नेत्राभ्यां सरुजाभ्यां यः प्रतिवातमुदीक्षते
तस्य वायुरुजात्यर्थं नेत्रयोर्भवति ध्रुवम्
१२.१३७.८८दुष्टं पन्थानमाश्रित्य यो मोहादभिपद्यते
आत्मनो बलमज्ञात्वा तदन्तं तस्य जीवितम्
१२.१३७.८९यस्तु वर्षमविज्ञाय क्षेत्रं कृषति मानवः
हीनं पुरुषकारेण सस्यं नैवाप्नुते पुनः
१२.१३७.९०यश्च तिक्तं कषायं वाप्यास्वादविधुरं हितम्
आहारं कुरुते नित्यं सोऽमृतत्वाय कल्पते
१२.१३७.९१पथ्यं भुक्त्वा नरो लोभाद्योऽन्यदश्नाति भोजनम्
परिणाममविज्ञाय तदन्तं तस्य जीवितम्
१२.१३७.९२दैवं पुरुषकारश्च स्थितावन्योन्यसंश्रयात्
उदात्तानां कर्म तन्त्रं दैवं क्लीबा उपासते
१२.१३७.९३कर्म चात्महितं कार्यं तीक्ष्णं वा यदि वा मृदु
ग्रस्यतेऽकर्मशीलस्तु सदानर्थैरकिंचनः
१२.१३७.९४तस्मात्संशयितेऽप्यर्थे कार्य एव पराक्रमः
सर्वस्वमपि संत्यज्य कार्यमात्महितं नरैः
१२.१३७.९५विद्या शौर्यं च दाक्ष्यं च बलं धैर्यं च पञ्चमम्
मित्राणि सहजान्याहुर्वर्तयन्तीह यैर्बुधाः
१२.१३७.९६निवेशनं च कुप्यं च क्षेत्रं भार्या सुहृज्जनः
एतान्युपचितान्याहुः सर्वत्र लभते पुमान्
१२.१३७.९७सर्वत्र रमते प्राज्ञः सर्वत्र च विरोचते
न विभीषयते कंचिद्भीषितो न बिभेति च
१२.१३७.९८नित्यं बुद्धिमतो ह्यर्थः स्वल्पकोऽपि विवर्धते
दाक्ष्येण कुरुते कर्म संयमात्प्रतितिष्ठति
१२.१३७.९९गृहस्नेहावबद्धानां नराणामल्पमेधसाम्
कुस्त्री खादति मांसानि माघमा सेगवामिव
१२.१३७.१००गृहं क्षेत्राणि मित्राणि स्वदेश इति चापरे
इत्येवमवसीदन्ति नरा बुद्धिविपर्यये
१२.१३७.१०१उत्पतेत्सरुजाद्देशाद्व्याधिदुर्भिक्षपीडितात्
अन्यत्र वस्तुं गच्छेद्वा वसेद्वा नित्यमानितः
१२.१३७.१०२तस्मादन्यत्र यास्यामि वस्तुं नाहमिहोत्सहे
कृतमेतदनाहार्यं तव पुत्रेण पार्थिव
१२.१३७.१०३कुभार्यां च कुपुत्रं च कुराजानं कुसौहृदम्
कुसंबन्धं कुदेशं च दूरतः परिवर्जयेत्
१२.१३७.१०४कुमित्रे नास्ति विश्वासः कुभार्यायां कुतो रतिः
कुराज्ये निर्वृतिर्नास्ति कुदेशे न प्रजीव्यते
१२.१३७.१०५कुमित्रे संगतं नास्ति नित्यमस्थिरसौहृदे
अवमानः कुसंबन्धे भवत्यर्थविपर्यये
१२.१३७.१०६सा भार्या या प्रियं ब्रूते स पुत्रो यत्र निर्वृतिः
तन्मित्रं यत्र विश्वासः स देशो यत्र जीव्यते
१२.१३७.१०७यत्र नास्ति बलात्कारः स राजा तीव्रशासनः
न चैव ह्यभिसंबन्धो दरिद्रं यो बुभूषति
१२.१३७.१०८भार्या देशोऽथ मित्राणि पुत्रसंबन्धिबान्धवाः
एतत्सर्वं गुणवति धर्मनेत्रे महीपतौ
१२.१३७.१०९अधर्मज्ञस्य विलयं प्रजा गच्छन्त्यनिग्रहात्
राजा मूलं त्रिवर्गस्य अप्रमत्तोऽनुपालयन्
१२.१३७.११०बलिषड्भागमुद्धृत्य बलिं तमुपयोजयेत्
न रक्षति प्रजाः सम्यग्यः स पार्थिवतस्करः
१२.१३७.१११दत्त्वाभयं यः स्वयमेव राजा; न तत्प्रमाणं कुरुते यथावत्
स सर्वलोकादुपलभ्य पाप;मधर्मबुद्धिर्निरयं प्रयाति
१२.१३७.११२दत्त्वाभयं यः स्म राजा प्रमाणं कुरुते सदा
स सर्वसुखकृज्ज्ञेयः प्रजा धर्मेण पालयन्
१२.१३७.११३पिता माता गुरुर्गोप्ता वह्निर्वैश्रवणो यमः
सप्त राज्ञो गुणानेतान्मनुराह प्रजापतिः
१२.१३७.११४पिता हि राजा राष्ट्रस्य प्रजानां योऽनुकम्पकः
तस्मिन्मिथ्याप्रणीते हि तिर्यग्गच्छति मानवः
१२.१३७.११५संभावयति मातेव दीनमभ्यवपद्यते
दहत्यग्निरिवानिष्टान्यमयन्भवते यमः
१२.१३७.११६इष्टेषु विसृजत्यर्थान्कुबेर इव कामदः
गुरुर्धर्मोपदेशेन गोप्ता च परिपालनात्
१२.१३७.११७यस्तु रञ्जयते राजा पौरजानपदान्गुणैः
न तस्य भ्रश्यते राज्यं गुणधर्मानुपालनात्
१२.१३७.११८स्वयं समुपजानन्हि पौरजानपदक्रियाः
स सुखं मोदते भूप इह लोके परत्र च
१२.१३७.११९नित्योद्विग्नाः प्रजा यस्य करभारप्रपीडिताः
अनर्थैर्विप्रलुप्यन्ते स गच्छति पराभवम्
१२.१३७.१२०प्रजा यस्य विवर्धन्ते सरसीव महोत्पलम्
स सर्वयज्ञफलभाग्राजा लोके महीयते
१२.१३७.१२१बलिना विग्रहो राजन्न कथंचित्प्रशस्यते
बलिना विगृहीतस्य कुतो राज्यं कुतः सुखम्
१२.१३७.१२२भीष्म उवाच
१२.१३७.१२३सैवमुक्त्वा शकुनिका ब्रह्मदत्तं नराधिपम्
राजानं समनुज्ञाप्य जगामाथेप्सितां दिशम्
१२.१३७.१२४एतत्ते ब्रह्मदत्तस्य पूजन्या सह भाषितम्
मयोक्तं भरतश्रेष्ठ किमन्यच्छ्रोतुमिच्छसि