१२. शान्तिपर्व
१२.१३८.१युधिष्ठिर उवाच

१२.१३८.२युगक्षयात्परिक्षीणे धर्मे लोके च भारत
दस्युभिः पीड्यमाने च कथं स्थेयं पितामह

१२.१३८.३भीष्म उवाच

१२.१३८.४हन्त ते कथयिष्यामि नीतिमापत्सु भारत
उत्सृज्यापि घृणां काले यथा वर्तेत भूमिपः

१२.१३८.५अत्राप्युदाहरन्तीममितिहासं पुरातनम्
भरद्वाजस्य संवादं राज्ञः शत्रुंतपस्य च

१२.१३८.६राजा शत्रुंतपो नाम सौवीराणां महारथः
कणिङ्कमुपसंगम्य पप्रच्छार्थविनिश्चयम्

१२.१३८.७अलब्धस्य कथं लिप्सा लब्धं केन विवर्धते
वर्धितं पालयेत्केन पालितं प्रणयेत्कथम्

१२.१३८.८तस्मै विनिश्चयार्थं स परिपृष्टार्थनिश्चयः
उवाच ब्राह्मणो वाक्यमिदं हेतुमदुत्तरम्

१२.१३८.९नित्यमुद्यतदण्डः स्यान्नित्यं विवृतपौरुषः
अच्छिद्रश्छिद्रदर्शी च परेषां विवरानुगः

१२.१३८.१०नित्यमुद्यतदण्डस्य भृशमुद्विजते जनः
तस्मात्सर्वाणि भूतानि दण्डेनैव प्ररोधयेत्

१२.१३८.११एवमेव प्रशंसन्ति पण्डितास्तत्त्वदर्शिनः
तस्माच्चतुष्टये तस्मिन्प्रधानो दण्ड उच्यते

१२.१३८.१२छिन्नमूले ह्यधिष्ठाने सर्वे तज्जीविनो हताः
कथं हि शाखास्तिष्ठेयुश्छिन्नमूले वनस्पतौ

१२.१३८.१३मूलमेवादितश्छिन्द्यात्परपक्षस्य पण्डितः
ततः सहायान्पक्षं च सर्वमेवानुसारयेत्

१२.१३८.१४सुमन्त्रितं सुविक्रान्तं सुयुद्धं सुपलायितम्
आपदां पदकालेषु कुर्वीत न विचारयेत्

१२.१३८.१५वाङ्मात्रेण विनीतः स्याद्धृदयेन यथा क्षुरः
श्लक्ष्णपूर्वाभिभाषी च कामक्रोधौ विवर्जयेत्

१२.१३८.१६सपत्नसहिते कार्ये कृत्वा संधिं न विश्वसेत्
अपक्रामेत्ततः क्षिप्रं कृतकार्यो विचक्षणः

१२.१३८.१७शत्रुं च मित्ररूपेण सान्त्वेनैवाभिसान्त्वयेत्
नित्यशश्चोद्विजेत्तस्मात्सर्पाद्वेश्मगतादिव

१२.१३८.१८यस्य बुद्धिं परिभवेत्तमतीतेन सान्त्वयेत्
अनागतेन दुष्प्रज्ञं प्रत्युत्पन्नेन पण्डितम्

१२.१३८.१९अञ्जलिं शपथं सान्त्वं प्रणम्य शिरसा वदेत्
अश्रुप्रपातनं चैव कर्तव्यं भूतिमिच्छता

१२.१३८.२०वहेदमित्रं स्कन्धेन यावत्कालविपर्ययः
अथैनमागते काले भिन्द्याद्घटमिवाश्मनि

१२.१३८.२१मुहूर्तमपि राजेन्द्र तिन्दुकालातवज्ज्वलेत्
न तुषाग्निरिवानर्चिर्धूमायेत नरश्चिरम्

१२.१३८.२२नानर्थकेनार्थवत्त्वं कृतघ्नेन समाचरेत्
अर्थे तु शक्यते भोक्तुं कृतकार्योऽवमन्यते
तस्मात्सर्वाणि कार्याणि सावशेषाणि कारयेत्

१२.१३८.२३कोकिलस्य वराहस्य मेरोः शून्यस्य वेश्मनः
व्याडस्य भक्तिचित्रस्य यच्छ्रेष्ठं तत्समाचरेत्

१२.१३८.२४उत्थायोत्थाय गच्छेच्च नित्ययुक्तो रिपोर्गृहान्
कुशलं चापि पृच्छेत यद्यप्यकुशलं भवेत्

१२.१३८.२५नालसाः प्राप्नुवन्त्यर्थान्न क्लीबा न च मानिनः
न च लोकरवाद्भीता न च शश्वत्प्रतीक्षिणः

१२.१३८.२६नास्य छिद्रं परो विद्याद्विद्याच्छिद्रं परस्य तु
गूहेत्कूर्म इवाङ्गानि रक्षेद्विवरमात्मनः

१२.१३८.२७बकवच्चिन्तयेदर्थान्सिंहवच्च पराक्रमेत्
वृकवच्चावलुम्पेत शशवच्च विनिष्पतेत्

१२.१३८.२८पानमक्षास्तथा नार्यो मृगया गीतवादितम्
एतानि युक्त्या सेवेत प्रसङ्गो ह्यत्र दोषवान्

१२.१३८.२९कुर्यात्तृणमयं चापं शयीत मृगशायिकाम्
अन्धः स्यादन्धवेलायां बाधिर्यमपि संश्रयेत्

१२.१३८.३०देशं कालं समासाद्य विक्रमेत विचक्षणः
देशकालाभ्यतीतो हि विक्रमो निष्फलो भवेत्

१२.१३८.३१कालाकालौ संप्रधार्य बलाबलमथात्मनः
परस्परबलं ज्ञात्वा तथात्मानं नियोजयेत्

१२.१३८.३२दण्डेनोपनतं शत्रुं यो राजा न नियच्छति
स मृत्युमुपगूह्यास्ते गर्भमश्वतरी यथा

१२.१३८.३३सुपुष्पितः स्यादफलः फलवान्स्याद्दुरारुहः
आमः स्यात्पक्वसंकाशो न च शीर्येत कस्यचित्

१२.१३८.३४आशां कालवतीं कुर्यात्तां च विघ्नेन योजयेत्
विघ्नं निमित्ततो ब्रूयान्निमित्तं चापि हेतुतः

१२.१३८.३५भीतवत्संविधातव्यं यावद्भयमनागतम्
आगतं तु भयं दृष्ट्वा प्रहर्तव्यमभीतवत्

१२.१३८.३६न संशयमनारुह्य नरो भद्राणि पश्यति
संशयं पुनरारुह्य यदि जीवति पश्यति

१२.१३८.३७अनागतं विजानीयाद्यच्छेद्भयमुपस्थितम्
पुनर्वृद्धिक्षयात्किंचिदभिवृत्तं निशामयेत्

१२.१३८.३८प्रत्युपस्थितकालस्य सुखस्य परिवर्जनम्
अनागतसुखाशा च नैष बुद्धिमतां नयः

१२.१३८.३९योऽरिणा सह संधाय सुखं स्वपिति विश्वसन्
स वृक्षाग्रप्रसुप्तो वा पतितः प्रतिबुध्यते

१२.१३८.४०कर्मणा येन तेनेह मृदुना दारुणेन वा
उद्धरेद्दीनमात्मानं समर्थो धर्ममाचरेत्

१२.१३८.४१ये सपत्नाः सपत्नानां सर्वांस्तानपवत्सयेत्
आत्मनश्चापि बोद्धव्याश्चाराः प्रणिहिताः परैः

१२.१३८.४२चारः सुविहितः कार्य आत्मनोऽथ परस्य च
पाषण्डांस्तापसादींश्च परराष्ट्रं प्रवेशयेत्

१२.१३८.४३उद्यानेषु विहारेषु प्रपास्वावसथेषु च
पानागारेषु वेशेषु तीर्थेषु च सभासु च

१२.१३८.४४धर्माभिचारिणः पापाश्चारा लोकस्य कण्टकाः
समागच्छन्ति तान्बुद्ध्वा नियच्छेच्छमयेदपि

१२.१३८.४५न विश्वसेदविश्वस्ते विश्वस्ते नापि विश्वसेत्
विश्वस्तं भयमन्वेति नापरीक्ष्य च विश्वसेत्

१२.१३८.४६विश्वासयित्वा तु परं तत्त्वभूतेन हेतुना
अथास्य प्रहरेत्काले किंचिद्विचलिते पदे

१२.१३८.४७अशङ्क्यमपि शङ्केत नित्यं शङ्केत शङ्कितात्
भयं हि शङ्किताज्जातं समूलमपि कृन्तति

१२.१३८.४८अवधानेन मौनेन काषायेण जटाजिनैः
विश्वासयित्वा द्वेष्टारमवलुम्पेद्यथा वृकः

१२.१३८.४९पुत्रो वा यदि वा भ्राता पिता वा यदि वा सुहृत्
अर्थस्य विघ्नं कुर्वाणा हन्तव्या भूतिवर्धनाः

१२.१३८.५०गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः
उत्पथप्रतिपन्नस्य दण्डो भवति शासनम्

१२.१३८.५१प्रत्युत्थानाभिवादाभ्यां संप्रदानेन कस्यचित्
प्रतिपुष्कलघाती स्यात्तीक्ष्णतुण्ड इव द्विजः

१२.१३८.५२नाच्छित्त्वा परमर्माणि नाकृत्वा कर्म दारुणम्
नाहत्वा मत्स्यघातीव प्राप्नोति परमां श्रियम्

१२.१३८.५३नास्ति जात्या रिपुर्नाम मित्रं नाम न विद्यते
सामर्थ्ययोगाज्जायन्ते मित्राणि रिपवस्तथा

१२.१३८.५४अमित्रं नैव मुञ्चेत ब्रुवन्तं करुणान्यपि
दुःखं तत्र न कुर्वीत हन्यात्पूर्वापकारिणम्

१२.१३८.५५संग्रहानुग्रहे यत्नः सदा कार्योऽनसूयता
निग्रहश्चापि यत्नेन कर्तव्यो भूतिमिच्छता

१२.१३८.५६प्रहरिष्यन्प्रियं ब्रूयात्प्रहृत्यापि प्रियोत्तरम्
अपि चास्य शिरश्छित्त्वा रुद्याच्छोचेदथापि वा

१२.१३८.५७निमन्त्रयेत सान्त्वेन संमानेन तितिक्षया
आशाकारणमित्येतत्कर्तव्यं भूतिमिच्छता

१२.१३८.५८न शुष्कवैरं कुर्वीत न बाहुभ्यां नदीं तरेत्
अपार्थकमनायुष्यं गोविषाणस्य भक्षणम्
दन्ताश्च परिघृष्यन्ते रसश्चापि न लभ्यते

१२.१३८.५९त्रिवर्गे त्रिविधा पीडानुबन्धास्त्रय एव च
अनुबन्धवधौ ज्ञात्वा पीडां हि परिवर्जयेत्

१२.१३८.६०ऋणशेषोऽग्निशेषश्च शत्रुशेषस्तथैव च
पुनः पुनर्विवर्धेत स्वल्पोऽप्यनिवारितः

१२.१३८.६१वर्धमानमृणं तिष्ठत्परिभूताश्च शत्रवः
आवहन्त्यनयं तीव्रं व्याधयश्चाप्युपेक्षिताः

१२.१३८.६२नासम्यक्कृतकारी स्यादप्रमत्तः सदा भवेत्
कण्टकोऽपि हि दुश्छिन्नो विकारं कुरुते चिरम्

१२.१३८.६३वधेन च मनुष्याणां मार्गाणां दूषणेन च
आकराणां विनाशैश्च परराष्ट्रं विनाशयेत्

१२.१३८.६४गृध्रदृष्टिर्बकालीनः श्वचेष्टः सिंहविक्रमः
अनुद्विग्नः काकशङ्की भुजंगचरितं चरेत्

१२.१३८.६५श्रेणिमुख्योपजापेषु वल्लभानुनयेषु च
अमात्यान्परिरक्षेत भेदसंघातयोरपि

१२.१३८.६६मृदुरित्यवमन्यन्ते तीक्ष्ण इत्युद्विजन्ति च
तीक्ष्णकाले च तीक्ष्णः स्यान्मृदुकाले मृदुर्भवेत्

१२.१३८.६७मृदुना सुमृदुं हन्ति मृदुना हन्ति दारुणम्
नासाध्यं मृदुना किंचित्तस्मात्तीक्ष्णतरं मृदु

१२.१३८.६८काले मृदुर्यो भवति काले भवति दारुणः
स साधयति कृत्यानि शत्रूंश्चैवाधितिष्ठति

१२.१३८.६९पण्डितेन विरुद्धः सन्दूरेऽस्मीति न विश्वसेत्
दीर्घौ बुद्धिमतो बाहू याभ्यां हिंसति हिंसितः

१२.१३८.७०न तत्तरेद्यस्य न पारमुत्तरे;न्न तद्धरेद्यत्पुनराहरेत्परः
न तत्खनेद्यस्य न मूलमुत्खने;न्न तं हन्याद्यस्य शिरो न पातयेत्

१२.१३८.७१इतीदमुक्तं वृजिनाभिसंहितं; न चैतदेवं पुरुषः समाचरेत्
परप्रयुक्तं तु कथं निशामये;दतो मयोक्तं भवतो हितार्थिना

१२.१३८.७२यथावदुक्तं वचनं हितं तदा; निशम्य विप्रेण सुवीरराष्ट्रियः
तथाकरोद्वाक्यमदीनचेतनः; श्रियं च दीप्तां बुभुजे सबान्धवः