१२.१३९.१युधिष्ठिर उवाच
१२.१३९.२हीने परमके धर्मे सर्वलोकातिलङ्घिनि
अधर्मे धर्मतां नीते धर्मे चाधर्मतां गते
१२.१३९.३मर्यादासु प्रभिन्नासु क्षुभिते धर्मनिश्चये
राजभिः पीडिते लोके चोरैर्वापि विशां पते
१२.१३९.४सर्वाश्रमेषु मूढेषु कर्मसूपहतेषु च
कामान्मोहाच्च लोभाच्च भयं पश्यत्सु भारत
१२.१३९.५अविश्वस्तेषु सर्वेषु नित्यभीतेषु पार्थिव
निकृत्या हन्यमानेषु वञ्चयत्सु परस्परम्
१२.१३९.६संप्रदीप्तेषु देशेषु ब्राह्मण्ये चाभिपीडिते
अवर्षति च पर्जन्ये मिथो भेदे समुत्थिते
१२.१३९.७सर्वस्मिन्दस्युसाद्भूते पृथिव्यामुपजीवने
केन स्विद्ब्राह्मणो जीवेज्जघन्ये काल आगते
१२.१३९.८अतित्यक्षुः पुत्रपौत्राननुक्रोशान्नराधिप
कथमापत्सु वर्तेत तन्मे ब्रूहि पितामह
१२.१३९.९कथं च राजा वर्तेत लोके कलुषतां गते
कथमर्थाच्च धर्माच्च न हीयेत परंतप
१२.१३९.१०भीष्म उवाच
१२.१३९.११राजमूला महाराज योगक्षेमसुवृष्टयः
प्रजासु व्याधयश्चैव मरणं च भयानि च
१२.१३९.१२कृतं त्रेता द्वापरश्च कलिश्च भरतर्षभ
राजमूलानि सर्वाणि मम नास्त्यत्र संशयः
१२.१३९.१३तस्मिंस्त्वभ्यागते काले प्रजानां दोषकारके
विज्ञानबलमास्थाय जीवितव्यं तदा भवेत्
१२.१३९.१४अत्राप्युदाहरन्तीममितिहासं पुरातनम्
विश्वामित्रस्य संवादं चण्डालस्य च पक्कणे
१२.१३९.१५त्रेताद्वापरयोः संधौ पुरा दैवविधिक्रमात्
अनावृष्टिरभूद्घोरा राजन्द्वादशवार्षिकी
१२.१३९.१६प्रजानामभिवृद्धानां युगान्ते पर्युपस्थिते
त्रेतानिर्मोक्षसमये द्वापरप्रतिपादने
१२.१३९.१७न ववर्ष सहस्राक्षः प्रतिलोमोऽभवद्गुरुः
जगाम दक्षिणं मार्गं सोमो व्यावृत्तलक्षणः
१२.१३९.१८नावश्यायोऽपि रात्र्यन्ते कुत एवाभ्रराजयः
नद्यः संक्षिप्ततोयौघाः क्वचिदन्तर्गताभवन्
१२.१३९.१९सरांसि सरितश्चैव कूपाः प्रस्रवणानि च
हतत्विट्कान्यलक्ष्यन्त निसर्गाद्दैवकारितात्
१२.१३९.२०उपशुष्कजलस्थाया विनिवृत्तसभाप्रपा
निवृत्तयज्ञस्वाध्याया निर्वषट्कारमङ्गला
१२.१३९.२१उत्सन्नकृषिगोरक्ष्या निवृत्तविपणापणा
निवृत्तपूगसमया संप्रनष्टमहोत्सवा
१२.१३९.२२अस्थिकङ्कालसंकीर्णा हाहाभूतजनाकुला
शून्यभूयिष्ठनगरा दग्धग्रामनिवेशना
१२.१३९.२३क्वचिच्चोरैः क्वचिच्छस्त्रैः क्वचिद्राजभिरातुरैः
परस्परभयाच्चैव शून्यभूयिष्ठनिर्जना
१२.१३९.२४गतदैवतसंकल्पा वृद्धबालविनाकृता
गोजाविमहिषैर्हीना परस्परहराहरा
१२.१३९.२५हतविप्रा हतारक्षा प्रनष्टौषधिसंचया
श्यावभूतनरप्राया बभूव वसुधा तदा
१२.१३९.२६तस्मिन्प्रतिभये काले क्षीणे धर्मे युधिष्ठिर
बभ्रमुः क्षुधिता मर्त्याः खादन्तः स्म परस्परम्
१२.१३९.२७ऋषयो नियमांस्त्यक्त्वा परित्यक्ताग्निदैवताः
आश्रमान्संपरित्यज्य पर्यधावन्नितस्ततः
१२.१३९.२८विश्वामित्रोऽथ भगवान्महर्षिरनिकेतनः
क्षुधा परिगतो धीमान्समन्तात्पर्यधावत
१२.१३९.२९स कदाचित्परिपतञ्श्वपचानां निवेशनम्
हिंस्राणां प्राणिहन्तॄणामाससाद वने क्वचित्
१२.१३९.३०विभिन्नकलशाकीर्णं श्वचर्माच्छादनायुतम्
वराहखरभग्नास्थिकपालघटसंकुलम्
१२.१३९.३१मृतचेलपरिस्तीर्णं निर्माल्यकृतभूषणम्
सर्पनिर्मोकमालाभिः कृतचिह्नकुटीमठम्
१२.१३९.३२उलूकपक्षध्वजिभिर्देवतायतनैर्वृतम्
लोहघण्टापरिष्कारं श्वयूथपरिवारितम्
१२.१३९.३३तत्प्रविश्य क्षुधाविष्टो गाधेः पुत्रो महानृषिः
आहारान्वेषणे युक्तः परं यत्नं समास्थितः
१२.१३९.३४न च क्वचिदविन्दत्स भिक्षमाणोऽपि कौशिकः
मांसमन्नं मूलफलमन्यद्वा तत्र किंचन
१२.१३९.३५अहो कृच्छ्रं मया प्राप्तमिति निश्चित्य कौशिकः
पपात भूमौ दौर्बल्यात्तस्मिंश्चण्डालपक्कणे
१२.१३९.३६चिन्तयामास स मुनिः किं नु मे सुकृतं भवेत्
कथं वृथा न मृत्युः स्यादिति पार्थिवसत्तम
१२.१३९.३७स ददर्श श्वमांसस्य कुतन्तीं विततां मुनिः
चण्डालस्य गृहे राजन्सद्यः शस्त्रहतस्य च
१२.१३९.३८स चिन्तयामास तदा स्तेयं कार्यमितो मया
न हीदानीमुपायोऽन्यो विद्यते प्राणधारणे
१२.१३९.३९आपत्सु विहितं स्तेयं विशिष्टसमहीनतः
परं परं भवेत्पूर्वमस्तेयमिति निश्चयः
१२.१३९.४०हीनादादेयमादौ स्यात्समानात्तदनन्तरम्
असंभवादाददीत विशिष्टादपि धार्मिकात्
१२.१३९.४१सोऽहमन्तावसानानां हरमाणः परिग्रहात्
न स्तेयदोषं पश्यामि हरिष्याम्येतदामिषम्
१२.१३९.४२एतां बुद्धिं समास्थाय विश्वामित्रो महामुनिः
तस्मिन्देशे प्रसुष्वाप पतितो यत्र भारत
१२.१३९.४३स विगाढां निशां दृष्ट्वा सुप्ते चण्डालपक्कणे
शनैरुत्थाय भगवान्प्रविवेश कुटीमठम्
१२.१३९.४४स सुप्त एव चण्डालः श्लेष्मापिहितलोचनः
परिभिन्नस्वरो रूक्ष उवाचाप्रियदर्शनः
१२.१३९.४५कः कुतन्तीं घट्टयति सुप्ते चण्डालपक्कणे
जागर्मि नावसुप्तोऽस्मि हतोऽसीति च दारुणः
१२.१३९.४६विश्वामित्रोऽहमित्येव सहसा तमुवाच सः
सहसाभ्यागतभयः सोद्वेगस्तेन कर्मणा
१२.१३९.४७चण्डालस्तद्वचः श्रुत्वा महर्षेर्भावितात्मनः
शयनादुपसंभ्रान्त इयेषोत्पतितुं ततः
१२.१३९.४८स विसृज्याश्रु नेत्राभ्यां बहुमानात्कृताञ्जलिः
उवाच कौशिकं रात्रौ ब्रह्मन्किं ते चिकीर्षितम्
१२.१३९.४९विश्वामित्रस्तु मातङ्गमुवाच परिसान्त्वयन्
क्षुधितोऽहं गतप्राणो हरिष्यामि श्वजाघनीम्
१२.१३९.५०अवसीदन्ति मे प्राणाः स्मृतिर्मे नश्यति क्षुधा
स्वधर्मं बुध्यमानोऽपि हरिष्यामि श्वजाघनीम्
१२.१३९.५१अटन्भैक्षं न विन्दामि यदा युष्माकमालये
तदा बुद्धिः कृता पापे हरिष्यामि श्वजाघनीम्
१२.१३९.५२तृषितः कलुषं पाता नास्ति ह्रीरशनार्थिनः
क्षुद्धर्मं दूषयत्यत्र हरिष्यामि श्वजाघनीम्
१२.१३९.५३अग्निर्मुखं पुरोधाश्च देवानां शुचिपाद्विभुः
यथा स सर्वभुग्ब्रह्मा तथा मां विद्धि धर्मतः
१२.१३९.५४तमुवाच स चण्डालो महर्षे शृणु मे वचः
श्रुत्वा तथा समातिष्ठ यथा धर्मान्न हीयसे
१२.१३९.५५मृगाणामधमं श्वानं प्रवदन्ति मनीषिणः
तस्याप्यधम उद्देशः शरीरस्योरुजाघनी
१२.१३९.५६नेदं सम्यग्व्यवसितं महर्षे कर्म वैकृतम्
चण्डालस्वस्य हरणमभक्ष्यस्य विशेषतः
१२.१३९.५७साध्वन्यमनुपश्य त्वमुपायं प्राणधारणे
न मांसलोभात्तपसो नाशस्ते स्यान्महामुने
१२.१३९.५८जानतोऽविहितो मार्गो न कार्यो धर्मसंकरः
मा स्म धर्मं परित्याक्षीस्त्वं हि धर्मविदुत्तमः
१२.१३९.५९विश्वामित्रस्ततो राजन्नित्युक्तो भरतर्षभ
क्षुधार्तः प्रत्युवाचेदं पुनरेव महामुनिः
१२.१३९.६०निराहारस्य सुमहान्मम कालोऽभिधावतः
न विद्यतेऽभ्युपायश्च कश्चिन्मे प्राणधारणे
१२.१३९.६१येन तेन विशेषेण कर्मणा येन केनचित्
अभ्युज्जीवेत्सीदमानः समर्थो धर्ममाचरेत्
१२.१३९.६२ऐन्द्रो धर्मः क्षत्रियाणां ब्राह्मणानामथाग्निकः
ब्रह्मवह्निर्मम बलं भक्ष्यामि समयं क्षुधा
१२.१३९.६३यथा यथा वै जीवेद्धि तत्कर्तव्यमपीडया
जीवितं मरणाच्छ्रेयो जीवन्धर्ममवाप्नुयात्
१२.१३९.६४सोऽहं जीवितमाकाङ्क्षन्नभक्षस्यापि भक्षणम्
व्यवस्ये बुद्धिपूर्वं वै तद्भवाननुमन्यताम्
१२.१३९.६५जीवन्धर्मं चरिष्यामि प्रणोत्स्याम्यशुभानि च
तपोभिर्विद्यया चैव ज्योतींषीव महत्तमः
१२.१३९.६६श्वपच उवाच
१२.१३९.६७नैतत्खादन्प्राप्स्यसे प्राणमन्यं; नायुर्दीर्घं नामृतस्येव तृप्तिम्
भिक्षामन्यां भिक्ष मा ते मनोऽस्तु; श्वभक्षणे श्वा ह्यभक्षो द्विजानाम्
१२.१३९.६८विश्वामित्र उवाच
१२.१३९.६९न दुर्भिक्षे सुलभं मांसमन्य;च्छ्वपाक नान्नं न च मेऽस्ति वित्तम्
क्षुधार्तश्चाहमगतिर्निराशः; श्वमांसे चास्मिन्षड्रसान्साधु मन्ये
१२.१३९.७०श्वपच उवाच
१२.१३९.७१पञ्च पञ्चनखा भक्ष्या ब्रह्मक्षत्रस्य वै द्विज
यदि शास्त्रं प्रमाणं ते माभक्ष्ये मानसं कृथाः
१२.१३९.७२विश्वामित्र उवाच
१२.१३९.७३अगस्त्येनासुरो जग्धो वातापिः क्षुधितेन वै
अहमापद्गतः क्षुब्धो भक्षयिष्ये श्वजाघनीम्
१२.१३९.७४श्वपच उवाच
१२.१३९.७५भिक्षामन्यामाहरेति न चैतत्कर्तुमर्हसि
न नूनं कार्यमेतद्वै हर कामं श्वजाघनीम्
१२.१३९.७६विश्वामित्र उवाच
१२.१३९.७७शिष्टा वै कारणं धर्मे तद्वृत्तमनुवर्तये
परां मेध्याशनादेतां भक्ष्यां मन्ये श्वजाघनीम्
१२.१३९.७८श्वपच उवाच
१२.१३९.७९असता यत्समाचीर्णं न स धर्मः सनातनः
नावृत्तमनुकार्यं वै मा छलेनानृतं कृथाः
१२.१३९.८०विश्वामित्र उवाच
१२.१३९.८१न पातकं नावमतमृषिः सन्कर्तुमर्हसि
समौ च श्वमृगौ मन्ये तस्माद्भक्ष्या श्वजाघनी
१२.१३९.८२श्वपच उवाच
१२.१३९.८३यद्ब्राह्मणार्थे कृतमर्थितेन; तेनर्षिणा तच्च भक्ष्याधिकारम्
स वै धर्मो यत्र न पापमस्ति; सर्वैरुपायैर्हि स रक्षितव्यः
१२.१३९.८४विश्वामित्र उवाच
१२.१३९.८५मित्रं च मे ब्राह्मणश्चायमात्मा; प्रियश्च मे पूज्यतमश्च लोके
तं भर्तुकामोऽहमिमां हरिष्ये; नृशंसानामीदृशानां न बिभ्ये
१२.१३९.८६श्वपच उवाच
१२.१३९.८७कामं नरा जीवितं संत्यजन्ति; न चाभक्ष्यैः प्रतिकुर्वन्ति तत्र
सर्वान्कामान्प्राप्नुवन्तीह विद्व;न्प्रियस्व कामं सहितः क्षुधा वै
१२.१३९.८८विश्वामित्र उवाच
१२.१३९.८९स्थाने तावत्संशयः प्रेत्यभावे; निःसंशयं कर्मणां वा विनाशः
अहं पुनर्वर्त इत्याशयात्मा; मूलं रक्षन्भक्षयिष्याम्यभक्ष्यम्
१२.१३९.९०बुद्ध्यात्मके व्यस्तमस्तीति तुष्टो; मोहादेकत्वं यथा चर्म चक्षुः
यद्यप्येनः संशयादाचरामि; नाहं भविष्यामि यथा त्वमेव
१२.१३९.९१श्वपच उवाच
१२.१३९.९२पतनीयमिदं दुःखमिति मे वर्तते मतिः
दुष्कृती ब्राह्मणं सन्तं यस्त्वामहमुपालभे
१२.१३९.९३विश्वामित्र उवाच
१२.१३९.९४पिबन्त्येवोदकं गावो मण्डूकेषु रुवत्स्वपि
न तेऽधिकारो धर्मेऽस्ति मा भूरात्मप्रशंसकः
१२.१३९.९५श्वपच उवाच
१२.१३९.९६सुहृद्भूत्वानुशास्मि त्वा कृपा हि त्वयि मे द्विज
तदेवं श्रेय आधत्स्व मा लोभाच्छ्वानमादिथाः
१२.१३९.९७विश्वामित्र उवाच
१२.१३९.९८सुहृन्मे त्वं सुखेप्सुश्चेदापदो मां समुद्धर
जानेऽहं धर्मतोऽऽत्मानं श्वानीमुत्सृज जाघनीम्
१२.१३९.९९श्वपच उवाच
१२.१३९.१००नैवोत्सहे भवते दातुमेतां; नोपेक्षितुं ह्रियमाणं स्वमन्नम्
उभौ स्यावः स्वमलेनावलिप्तौ; दाताहं च त्वं च विप्र प्रतीच्छन्
१२.१३९.१०१विश्वामित्र उवाच
१२.१३९.१०२अद्याहमेतद्वृजिनं कर्म कृत्वा; जीवंश्चरिष्यामि महापवित्रम्
प्रपूतात्मा धर्ममेवाभिपत्स्ये; यदेतयोर्गुरु तद्वै ब्रवीहि
१२.१३९.१०३श्वपच उवाच
१२.१३९.१०४आत्मैव साक्षी किल लोककृत्ये; त्वमेव जानासि यदत्र दुष्टम्
यो ह्याद्रियेद्भक्ष्यमिति श्वमांसं; मन्ये न तस्यास्ति विवर्जनीयम्
१२.१३९.१०५विश्वामित्र उवाच
१२.१३९.१०६उपादाने खादने वास्य दोषः; कार्यो न्यायैर्नित्यमत्रापवादः
यस्मिन्न हिंसा नानृते वाक्यलेशो; भक्ष्यक्रिया तत्र न तद्गरीयः
१२.१३९.१०७श्वपच उवाच
१२.१३९.१०८यद्येष हेतुस्तव खादनस्य; न ते वेदः कारणं नान्यधर्मः
तस्मादभक्ष्ये भक्षणाद्वा द्विजेन्द्र; दोषं न पश्यामि यथेदमात्थ
१२.१३९.१०९विश्वामित्र उवाच
१२.१३९.११०न पातकं भक्षणमस्य दृष्टं; सुरां पीत्वा पततीतीह शब्दः
अन्योन्यकर्माणि तथा तथैव; न लेशमात्रेण कृत्यं हिनस्ति
१२.१३९.१११श्वपच उवाच
१२.१३९.११२अस्थानतो हीनतः कुत्सिताद्वा; तं विद्वांसं बाधते साधुवृत्तम्
स्थानं पुनर्यो लभते निषङ्गा;त्तेनापि दण्डः सहितव्य एव
१२.१३९.११३भीष्म उवाच
१२.१३९.११४एवमुक्त्वा निववृते मातङ्गः कौशिकं तदा
विश्वामित्रो जहारैव कृतबुद्धिः श्वजाघनीम्
१२.१३९.११५ततो जग्राह पञ्चाङ्गीं जीवितार्थी महामुनिः
सदारस्तामुपाकृत्य वने यातो महामुनिः
१२.१३९.११६एतस्मिन्नेव काले तु प्रववर्षाथ वासवः
संजीवयन्प्रजाः सर्वा जनयामास चौषधीः
१२.१३९.११७विश्वामित्रोऽपि भगवांस्तपसा दग्धकिल्बिषः
कालेन महता सिद्धिमवाप परमाद्भुताम्
१२.१३९.११८एवं विद्वानदीनात्मा व्यसनस्थो जिजीविषुः
सर्वोपायैरुपायज्ञो दीनमात्मानमुद्धरेत्
१२.१३९.११९एतां बुद्धिं समास्थाय जीवितव्यं सदा भवेत्
जीवन्पुण्यमवाप्नोति नरो भद्राणि पश्यति
१२.१३९.१२०तस्मात्कौन्तेय विदुषा धर्माधर्मविनिश्चये
बुद्धिमास्थाय लोकेऽस्मिन्वर्तितव्यं यतात्मना