१२. शान्तिपर्व
१२.१४०.१युधिष्ठिर उवाच

१२.१४०.२यदिदं घोरमुद्दिष्टमश्रद्धेयमिवानृतम्
अस्ति स्विद्दस्युमर्यादा यामहं परिवर्जये

१२.१४०.३संमुह्यामि विषीदामि धर्मो मे शिथिलीकृतः
उद्यमं नाधिगच्छामि कुतश्चित्परिचिन्तयन्

१२.१४०.४भीष्म उवाच

१२.१४०.५नैतच्छुद्धागमादेव तव धर्मानुशासनम्
प्रज्ञासमवतारोऽयं कविभिः संभृतं मधु

१२.१४०.६बह्व्यः प्रतिविधातव्याः प्रज्ञा राज्ञा ततस्ततः
नैकशाखेन धर्मेण यात्रैषा संप्रवर्तते

१२.१४०.७बुद्धिसंजननं राज्ञां धर्ममाचरतां सदा
जयो भवति कौरव्य तदा तद्विद्धि मे वचः

१२.१४०.८बुद्धिश्रेष्ठा हि राजानो जयन्ति विजयैषिणः
धर्मः प्रतिविधातव्यो बुद्ध्या राज्ञा ततस्ततः

१२.१४०.९नैकशाखेन धर्मेण राज्ञां धर्मो विधीयते
दुर्बलस्य कुतः प्रज्ञा पुरस्तादनुदाहृता

१२.१४०.१०अद्वैधज्ञः पथि द्वैधे संशयं प्राप्तुमर्हति
बुद्धिद्वैधं वेदितव्यं पुरस्तादेव भारत

१२.१४०.११पार्श्वतःकरणं प्रज्ञा विषूची त्वापगा इव
जनस्तूच्चारितं धर्मं विजानात्यन्यथान्यथा

१२.१४०.१२सम्यग्विज्ञानिनः केचिन्मिथ्याविज्ञानिनोऽपरे
तद्वै यथातथं बुद्ध्वा ज्ञानमाददते सताम्

१२.१४०.१३परिमुष्णन्ति शास्त्राणि धर्मस्य परिपन्थिनः
वैषम्यमर्थविद्यानां नैरर्थ्यात्ख्यापयन्ति ते

१२.१४०.१४आजिजीविषवो विद्यां यशस्कामाः समन्ततः
ते सर्वे नरपापिष्ठा धर्मस्य परिपन्थिनः

१२.१४०.१५अपक्वमतयो मन्दा न जानन्ति यथातथम्
सदा ह्यशास्त्रकुशलाः सर्वत्रापरिनिष्ठिताः

१२.१४०.१६परिमुष्णन्ति शास्त्राणि शास्त्रदोषानुदर्शिनः
विज्ञानमथ विद्यानां न सम्यगिति वर्तते

१२.१४०.१७निन्दया परविद्यानां स्वां विद्यां ख्यापयन्ति ये
वागस्त्रा वाक्छुरीमत्त्वा दुग्धविद्याफला इव
तान्विद्यावणिजो विद्धि राक्षसानिव भारत

१२.१४०.१८व्याजेन कृत्स्नो विदितो धर्मस्ते परिहास्यते
न धर्मवचनं वाचा न बुद्ध्या चेति नः श्रुतम्

१२.१४०.१९इति बार्हस्पतं ज्ञानं प्रोवाच मघवा स्वयम्
न त्वेव वचनं किंचिदनिमित्तादिहोच्यते

१२.१४०.२०स्वविनीतेन शास्त्रेण व्यवस्यन्ति तथापरे
लोकयात्रामिहैके तु धर्ममाहुर्मनीषिणः

१२.१४०.२१समुद्दिष्टं सतां धर्मं स्वयमूहेन्न पण्डितः
अमर्षाच्छास्त्रसंमोहादविज्ञानाच्च भारत

१२.१४०.२२शास्त्रं प्राज्ञस्य वदतः समूहे यात्यदर्शनम्
आगतागमया बुद्ध्या वचनेन प्रशस्यते

१२.१४०.२३अज्ञानाज्ज्ञानहेतुत्वाद्वचनं साधु मन्यते
अनपाहतमेवेदं नेदं शास्त्रमपार्थकम्

१२.१४०.२४दैतेयानुशनाः प्राह संशयच्छेदने पुरा
ज्ञानमव्यपदेश्यं हि यथा नास्ति तथैव तत्

१२.१४०.२५तेन त्वं छिन्नमूलेन कं तोषयितुमर्हसि
अतथ्यविहितं यो वा नेदं वाक्यमुपाश्नुयात्

१२.१४०.२६उग्रायैव हि सृष्टोऽसि कर्मणे न त्ववेक्षसे
अङ्गेमामन्ववेक्षस्व राजनीतिं बुभूषितुम्
यया प्रमुच्यते त्वन्यो यदर्थं च प्रमोदते

१२.१४०.२७अजोऽश्वः क्षत्रमित्येतत्सदृशं ब्रह्मणा कृतम्
तस्मान्नतीक्ष्णभूतानां यात्रा काचित्प्रसिध्यति

१२.१४०.२८यस्त्ववध्यवधे दोषः स वध्यस्यावधे स्मृतः
एषैव खलु मर्यादा यामयं परिवर्जयेत्

१२.१४०.२९तस्मात्तीक्ष्णः प्रजा राजा स्वधर्मे स्थापयेदुत
अन्योन्यं भक्षयन्तो हि प्रचरेयुर्वृका इव

१२.१४०.३०यस्य दस्युगणा राष्ट्रे ध्वाङ्क्षा मत्स्याञ्जलादिव
विहरन्ति परस्वानि स वै क्षत्रियपांसनः

१२.१४०.३१कुलीनान्सचिवान्कृत्वा वेदविद्यासमन्वितान्
प्रशाधि पृथिवीं राजन्प्रजा धर्मेण पालयन्

१२.१४०.३२विहीनजमकर्माणं यः प्रगृह्णाति भूमिपः
उभयस्याविशेषज्ञस्तद्वै क्षत्रं नपुंसकम्

१२.१४०.३३नैवोग्रं नैव चानुग्रं धर्मेणेह प्रशस्यते
उभयं न व्यतिक्रामेदुग्रो भूत्वा मृदुर्भव

१२.१४०.३४कष्टः क्षत्रियधर्मोऽयं सौहृदं त्वयि यत्स्थितम्
उग्रे कर्मणि सृष्टोऽसि तस्माद्राज्यं प्रशाधि वै

१२.१४०.३५अशिष्टनिग्रहो नित्यं शिष्टस्य परिपालनम्
इति शक्रोऽब्रवीद्धीमानापत्सु भरतर्षभ

१२.१४०.३६युधिष्ठिर उवाच

१२.१४०.३७अस्ति स्विद्दस्युमर्यादा यामन्यो नातिलङ्घयेत्
पृच्छामि त्वां सतां श्रेष्ठ तन्मे ब्रूहि पितामह

१२.१४०.३८भीष्म उवाच

१२.१४०.३९ब्राह्मणानेव सेवेत विद्यावृद्धांस्तपस्विनः
श्रुतचारित्रवृत्ताढ्यान्पवित्रं ह्येतदुत्तमम्

१२.१४०.४०या देवतासु वृत्तिस्ते सास्तु विप्रेषु सर्वदा
क्रुद्धैर्हि विप्रैः कर्माणि कृतानि बहुधा नृप

१२.१४०.४१तेषां प्रीत्या यशो मुख्यमप्रीत्या तु विपर्ययः
प्रीत्या ह्यमृतवद्विप्राः क्रुद्धाश्चैव यथा विषम्