१२. शान्तिपर्व
१२.१४१.१युधिष्ठिर उवाच

१२.१४१.२पितामह महाप्राज्ञ सर्वशास्त्रविशारद
शरणं पालयानस्य यो धर्मस्तं वदस्व मे

१२.१४१.३भीष्म उवाच

१२.१४१.४महान्धर्मो महाराज शरणागतपालने
अर्हः प्रष्टुं भवांश्चैव प्रश्नं भरतसत्तम

१२.१४१.५नृगप्रभृतयो राजन्राजानः शरणागतान्
परिपाल्य महाराज संसिद्धिं परमां गताः

१२.१४१.६श्रूयते हि कपोतेन शत्रुः शरणमागतः
पूजितश्च यथान्यायं स्वैश्च मांसैर्निमन्त्रितः

१२.१४१.७युधिष्ठिर उवाच

१२.१४१.८कथं कपोतेन पुरा शत्रुः शरणमागतः
स्वमांसैर्भोजितः कां च गतिं लेभे स भारत

१२.१४१.९भीष्म उवाच

१२.१४१.१०शृणु राजन्कथां दिव्यां सर्वपापप्रणाशिनीम्
नृपतेर्मुचुकुन्दस्य कथितां भार्गवेण ह

१२.१४१.११इममर्थं पुरा पार्थ मुचुकुन्दो नराधिपः
भार्गवं परिपप्रच्छ प्रणतो भरतर्षभ

१२.१४१.१२तस्मै शुश्रूषमाणाय भार्गवोऽकथयत्कथाम्
इयं यथा कपोतेन सिद्धिः प्राप्ता नराधिप

१२.१४१.१३धर्मनिश्चयसंयुक्तां कामार्थसहितां कथाम्
शृणुष्वावहितो राजन्गदतो मे महाभुज

१२.१४१.१४कश्चित्क्षुद्रसमाचारः पृथिव्यां कालसंमतः
चचार पृथिवीं पापो घोरः शकुनिलुब्धकः

१२.१४१.१५काकोल इव कृष्णाङ्गो रूक्षः पापसमाहितः
यवमध्यः कृशग्रीवो ह्रस्वपादो महाहनुः

१२.१४१.१६नैव तस्य सुहृत्कश्चिन्न संबन्धी न बान्धवः
स हि तैः संपरित्यक्तस्तेन घोरेण कर्मणा

१२.१४१.१७स वै क्षारकमादाय द्विजान्हत्वा वने सदा
चकार विक्रयं तेषां पतंगानां नराधिप

१२.१४१.१८एवं तु वर्तमानस्य तस्य वृत्तिं दुरात्मनः
अगमत्सुमहान्कालो न चाधर्ममबुध्यत

१२.१४१.१९तस्य भार्यासहायस्य रममाणस्य शाश्वतम्
दैवयोगविमूढस्य नान्या वृत्तिररोचत

१२.१४१.२०ततः कदाचित्तस्याथ वनस्थस्य समुद्गतः
पातयन्निव वृक्षांस्तान्सुमहान्वातसंभ्रमः

१२.१४१.२१मेघसंकुलमाकाशं विद्युन्मण्डलमण्डितम्
संछन्नं सुमुहूर्तेन नौस्थानेनेव सागरः

१२.१४१.२२वारिधारासमूहैश्च संप्रहृष्टः शतक्रतुः
क्षणेन पूरयामास सलिलेन वसुंधराम्

१२.१४१.२३ततो धाराकुले लोके संभ्रमन्नष्टचेतनः
शीतार्तस्तद्वनं सर्वमाकुलेनान्तरात्मना

१२.१४१.२४नैव निम्नं स्थलं वापि सोऽविन्दत विहंगहा
पूरितो हि जलौघेन मार्गस्तस्य वनस्य वै

१२.१४१.२५पक्षिणो वातवेगेन हता लीनास्तदाभवन्
मृगाः सिंहा वराहाश्च स्थलान्याश्रित्य तस्थिरे

१२.१४१.२६महता वातवर्षेण त्रासितास्ते वनौकसः
भयार्ताश्च क्षुधार्ताश्च बभ्रमुः सहिता वने

१२.१४१.२७स तु शीतहतैर्गात्रैर्जगामैव न तस्थिवान्
सोऽपश्यद्वनषण्डेषु मेघनीलं वनस्पतिम्

१२.१४१.२८ताराढ्यं कुमुदाकारमाकाशं निर्मलं च ह
मेघैर्मुक्तं नभो दृष्ट्वा लुब्धकः शीतविह्वलः

१२.१४१.२९दिशोऽवलोकयामास वेलां चैव दुरात्मवान्
दूरे ग्रामनिवेशश्च तस्माद्देशादिति प्रभो
कृतबुद्धिर्वने तस्मिन्वस्तुं तां रजनीं तदा

१२.१४१.३०सोऽञ्जलिं प्रयतः कृत्वा वाक्यमाह वनस्पतिम्
शरणं यामि यान्यस्मिन्दैवतानीह भारत

१२.१४१.३१स शिलायां शिरः कृत्वा पर्णान्यास्तीर्य भूतले
दुःखेन महताविष्टस्ततः सुष्वाप पक्षिहा