१२.१४२.१भीष्म उवाच
१२.१४२.२अथ वृक्षस्य शाखायां विहंगः ससुहृज्जनः
दीर्घकालोषितो राजंस्तत्र चित्रतनूरुहः
१२.१४२.३तस्य काल्यं गता भार्या चरितुं नाभ्यवर्तत
प्राप्तां च रजनीं दृष्ट्वा स पक्षी पर्यतप्यत
१२.१४२.४वातवर्षं महच्चासीन्न चागच्छति मे प्रिया
किं नु तत्कारणं येन साद्यापि न निवर्तते
१२.१४२.५अपि स्वस्ति भवेत्तस्याः प्रियाया मम कानने
तया विरहितं हीदं शून्यमद्य गृहं मम
१२.१४२.६यदि सा रक्तनेत्रान्ता चित्राङ्गी मधुरस्वरा
अद्य नाभ्येति मे कान्ता न कार्यं जीवितेन मे
१२.१४२.७पतिधर्मरता साध्वी प्राणेभ्योऽपि गरीयसी
सा हि श्रान्तं क्षुधार्तं च जानीते मां तपस्विनी
१२.१४२.८अनुरक्ता हिता चैव स्निग्धा चैव पतिव्रता
यस्य वै तादृशी भार्या धन्यः स मनुजो भुवि
१२.१४२.९भार्या हि परमो नाथः पुरुषस्येह पठ्यते
असहायस्य लोकेऽस्मिँल्लोकयात्रासहायिनी
१२.१४२.१०तथा रोगाभिभूतस्य नित्यं कृच्छ्रगतस्य च
नास्ति भार्यासमं किंचिन्नरस्यार्तस्य भेषजम्
१२.१४२.११नास्ति भार्यासमो बन्धुर्नास्ति भार्यासमा गतिः
नास्ति भार्यासमो लोके सहायो धर्मसाधनः
१२.१४२.१२एवं विलपतस्तस्य द्विजस्यार्तस्य तत्र वै
गृहीता शकुनघ्नेन भार्या शुश्राव भारतीम्
१२.१४२.१३न सा स्त्रीत्यभिभाषा स्याद्यस्या भर्ता न तुष्यति
अग्निसाक्षिकमप्येतद्भर्ता हि शरणं स्त्रियः
१२.१४२.१४इति संचिन्त्य दुःखार्ता भर्तारं दुःखितं तदा
कपोती लुब्धकेनाथ यत्ता वचनमब्रवीत्
१२.१४२.१५हन्त वक्ष्यामि ते श्रेयः श्रुत्वा च कुरु तत्तथा
शरणागतसंत्राता भव कान्त विशेषतः
१२.१४२.१६एष शाकुनिकः शेते तव वासं समाश्रितः
शीतार्तश्च क्षुधार्तश्च पूजामस्मै प्रयोजय
१२.१४२.१७यो हि कश्चिद्द्विजं हन्याद्गां वा लोकस्य मातरम्
शरणागतं च यो हन्यात्तुल्यं तेषां च पातकम्
१२.१४२.१८यास्माकं विहिता वृत्तिः कापोती जातिधर्मतः
सा न्याय्यात्मवता नित्यं त्वद्विधेनाभिवर्तितुम्
१२.१४२.१९यस्तु धर्मं यथाशक्ति गृहस्थो ह्यनुवर्तते
स प्रेत्य लभते लोकानक्षयानिति शुश्रुम
१२.१४२.२०स त्वं संतानवानद्य पुत्रवानपि च द्विज
तत्स्वदेहे दयां त्यक्त्वा धर्मार्थौ परिगृह्य वै
पूजामस्मै प्रयुङ्क्ष्व त्वं प्रीयेतास्य मनो यथा
१२.१४२.२१इति सा शकुनी वाक्यं क्षारकस्था तपस्विनी
अतिदुःखान्विता प्रोच्य भर्तारं समुदैक्षत
१२.१४२.२२स पत्न्या वचनं श्रुत्वा धर्मयुक्तिसमन्वितम्
हर्षेण महता युक्तो बाष्पव्याकुललोचनः
१२.१४२.२३तं वै शाकुनिकं दृष्ट्वा विधिदृष्टेन कर्मणा
पूजयामास यत्नेन स पक्षी पक्षिजीविनम्
१२.१४२.२४उवाच च स्वागतं ते ब्रूहि किं करवाण्यहम्
संतापश्च न कर्तव्यः स्वगृहे वर्तते भवान्
१२.१४२.२५तद्ब्रवीतु भवान्क्षिप्रं किं करोमि किमिच्छसि
प्रणयेन ब्रवीमि त्वां त्वं हि नः शरणागतः
१२.१४२.२६शरणागतस्य कर्तव्यमातिथ्यमिह यत्नतः
पञ्चयज्ञप्रवृत्तेन गृहस्थेन विशेषतः
१२.१४२.२७पञ्चयज्ञांस्तु यो मोहान्न करोति गृहाश्रमी
तस्य नायं न च परो लोको भवति धर्मतः
१२.१४२.२८तद्ब्रूहि त्वं सुविस्रब्धो यत्त्वं वाचा वदिष्यसि
तत्करिष्याम्यहं सर्वं मा त्वं शोके मनः कृथाः
१२.१४२.२९तस्य तद्वचनं श्रुत्वा शकुनेर्लुब्धकोऽब्रवीत्
बाधते खलु मा शीतं हिमत्राणं विधीयताम्
१२.१४२.३०एवमुक्तस्ततः पक्षी पर्णान्यास्तीर्य भूतले
यथाशुष्काणि यत्नेन ज्वलनार्थं द्रुतं ययौ
१२.१४२.३१स गत्वाङ्गारकर्मान्तं गृहीत्वाग्निमथागमत्
ततः शुष्केषु पर्णेषु पावकं सोऽभ्यदीदिपत्
१२.१४२.३२सुसंदीप्तं महत्कृत्वा तमाह शरणागतम्
प्रतापय सुविस्रब्धं स्वगात्राण्यकुतोभयः
१२.१४२.३३स तथोक्तस्तथेत्युक्त्वा लुब्धो गात्राण्यतापयत्
अग्निप्रत्यागतप्राणस्ततः प्राह विहंगमम्
१२.१४२.३४दत्तमाहारमिच्छामि त्वया क्षुद्बाधते हि माम्
तद्वचः स प्रतिश्रुत्य वाक्यमाह विहंगमः
१२.१४२.३५न मेऽस्ति विभवो येन नाशयामि तव क्षुधाम्
उत्पन्नेन हि जीवामो वयं नित्यं वनौकसः
१२.१४२.३६संचयो नास्ति चास्माकं मुनीनामिव कानने
इत्युक्त्वा स तदा तत्र विवर्णवदनोऽभवत्
१२.१४२.३७कथं नु खलु कर्तव्यमिति चिन्तापरः सदा
बभूव भरतश्रेष्ठ गर्हयन्वृत्तिमात्मनः
१२.१४२.३८मुहूर्ताल्लब्धसंज्ञस्तु स पक्षी पक्षिघातकम्
उवाच तर्पयिष्ये त्वां मुहूर्तं प्रतिपालय
१२.१४२.३९इत्युक्त्वा शुष्कपर्णैः स संप्रज्वाल्य हुताशनम्
हर्षेण महता युक्तः कपोतः पुनरब्रवीत्
१२.१४२.४०देवानां च मुनीनां च पितॄणां च महात्मनाम्
श्रुतपूर्वो मया धर्मो महानतिथिपूजने
१२.१४२.४१कुरुष्वानुग्रहं मेऽद्य सत्यमेतद्ब्रवीमि ते
निश्चिता खलु मे बुद्धिरतिथिप्रतिपूजने
१२.१४२.४२ततः सत्यप्रतिज्ञो वै स पक्षी प्रहसन्निव
तमग्निं त्रिः परिक्रम्य प्रविवेश महीपते
१२.१४२.४३अग्निमध्यं प्रविष्टं तं लुब्धो दृष्ट्वाथ पक्षिणम्
चिन्तयामास मनसा किमिदं नु कृतं मया
१२.१४२.४४अहो मम नृशंसस्य गर्हितस्य स्वकर्मणा
अधर्मः सुमहान्घोरो भविष्यति न संशयः
१२.१४२.४५एवं बहुविधं भूरि विललाप स लुब्धकः
गर्हयन्स्वानि कर्माणि द्विजं दृष्ट्वा तथागतम्