१२. शान्तिपर्व
१२.१४३.१भीष्म उवाच

१२.१४३.२ततस्तं लुब्धकः पश्यन्कृपयाभिपरिप्लुतः
कपोतमग्नौ पतितं वाक्यं पुनरुवाच ह

१२.१४३.३किमीदृशं नृशंसेन मया कृतमबुद्धिना
भविष्यति हि मे नित्यं पातकं हृदि जीवतः

१२.१४३.४स विनिन्दन्नथात्मानं पुनः पुनरुवाच ह
धिङ्मामस्तु सुदुर्बुद्धिं सदा निकृतिनिश्चयम्
शुभं कर्म परित्यज्य योऽहं शकुनिलुब्धकः

१२.१४३.५नृशंसस्य ममाद्यायं प्रत्यादेशो न संशयः
दत्तः स्वमांसं ददता कपोतेन महात्मना

१२.१४३.६सोऽहं त्यक्ष्ये प्रियान्प्राणान्पुत्रदारं विसृज्य च
उपदिष्टो हि मे धर्मः कपोतेनातिधर्मिणा

१२.१४३.७अद्य प्रभृति देहं स्वं सर्वभोगैर्विवर्जितम्
यथा स्वल्पं जलं ग्रीष्मे शोषयिष्याम्यहं तथा

१२.१४३.८क्षुत्पिपासातपसहः कृशो धमनिसंततः
उपवासैर्बहुविधैश्चरिष्ये पारलौकिकम्

१२.१४३.९अहो देहप्रदानेन दर्शितातिथिपूजना
तस्माद्धर्मं चरिष्यामि धर्मो हि परमा गतिः
दृष्टो हि धर्मो धर्मिष्ठैर्यादृशो विहगोत्तमे

१२.१४३.१०एवमुक्त्वा विनिश्चित्य रौद्रकर्मा स लुब्धकः
महाप्रस्थानमाश्रित्य प्रययौ संशितव्रतः

१२.१४३.११ततो यष्टिं शलाकाश्च क्षारकं पञ्जरं तथा
तांश्च बद्धा कपोतान्स संप्रमुच्योत्ससर्ज ह