१२.१४४.१भीष्म उवाच
१२.१४४.२ततो गते शाकुनिके कपोती प्राह दुःखिता
संस्मृत्य भर्तारमथो रुदती शोकमूर्छिता
१२.१४४.३नाहं ते विप्रियं कान्त कदाचिदपि संस्मरे
सर्वा वै विधवा नारी बहुपुत्रापि खेचर
शोच्या भवति बन्धूनां पतिहीना मनस्विनी
१२.१४४.४लालिताहं त्वया नित्यं बहुमानाच्च सान्त्विता
वचनैर्मधुरैः स्निग्धैरसकृत्सुमनोहरैः
१२.१४४.५कन्दरेषु च शैलानां नदीनां निर्झरेषु च
द्रुमाग्रेषु च रम्येषु रमिताहं त्वया प्रिय
१२.१४४.६आकाशगमने चैव सुखिताहं त्वया सुखम्
विहृतास्मि त्वया कान्त तन्मे नाद्यास्ति किंचन
१२.१४४.७मितं ददाति हि पिता मितं माता मितं सुतः
अमितस्य तु दातारं भर्तारं का न पूजयेत्
१२.१४४.८नास्ति भर्तृसमो नाथो न च भर्तृसमं सुखम्
विसृज्य धनसर्वस्वं भर्ता वै शरणं स्त्रियाः
१२.१४४.९न कार्यमिह मे नाथ जीवितेन त्वया विना
पतिहीनापि का नारी सती जीवितुमुत्सहेत्
१२.१४४.१०एवं विलप्य बहुधा करुणं सा सुदुःखिता
पतिव्रता संप्रदीप्तं प्रविवेश हुताशनम्
१२.१४४.११ततश्चित्राम्बरधरं भर्तारं सान्वपश्यत
विमानस्थं सुकृतिभिः पूज्यमानं महात्मभिः
१२.१४४.१२चित्रमाल्याम्बरधरं सर्वाभरणभूषितम्
विमानशतकोटीभिरावृतं पुण्यकीर्तिभिः
१२.१४४.१३ततः स्वर्गगतः पक्षी भार्यया सह संगतः
कर्मणा पूजितस्तेन रेमे तत्र स भार्यया