१२.१५९.१भीष्म उवाच
१२.१५९.२कृतार्थो यक्ष्यमाणश्च सर्ववेदान्तगश्च यः
आचार्यपितृभार्यार्थं स्वाध्यायार्थमथापि वा
१२.१५९.३एते वै साधवो दृष्टा ब्राह्मणा धर्मभिक्षवः
अस्वेभ्यो देयमेतेभ्यो दानं विद्याविशेषतः
१२.१५९.४अन्यत्र दक्षिणा या तु देया भरतसत्तम
अन्येभ्यो हि बहिर्वेद्यां नाकृतान्नं विधीयते
१२.१५९.५सर्वरत्नानि राजा च यथार्हं प्रतिपादयेत्
ब्राह्मणाश्चैव यज्ञाश्च सहान्नाः सहदक्षिणाः
१२.१५९.६यस्य त्रैवार्षिकं भक्तं पर्याप्तं भृत्यवृत्तये
अधिकं वापि विद्येत स सोमं पातुमर्हति
१२.१५९.७यज्ञश्चेत्प्रतिविद्धः स्यादङ्गेनैकेन यज्वनः
ब्राह्मणस्य विशेषेण धार्मिके सति राजनि
१२.१५९.८यो वैश्यः स्याद्बहुपशुर्हीनक्रतुरसोमपः
कुटुम्बात्तस्य तद्द्रव्यं यज्ञार्थं पार्थिवो हरेत्
१२.१५९.९आहरेद्वेश्मतः किंचित्कामं शूद्रस्य द्रव्यतः
न हि वेश्मनि शूद्रस्य कश्चिदस्ति परिग्रहः
१२.१५९.१०योऽनाहिताग्निः शतगुरयज्वा च सहस्रगुः
तयोरपि कुटुम्बाभ्यामाहरेदविचारयन्
१२.१५९.११अदातृभ्यो हरेन्नित्यं व्याख्याप्य नृपतिः प्रभो
तथा ह्याचरतो धर्मो नृपतेः स्यादथाखिलः
१२.१५९.१२तथैव सप्तमे भक्ते भक्तानि षडनश्नता
अश्वस्तनविधानेन हर्तव्यं हीनकर्मणः
खलात्क्षेत्रात्तथागाराद्यतो वाप्युपपद्यते
१२.१५९.१३आख्यातव्यं नृपस्यैतत्पृच्छतोऽपृच्छतोऽपि वा
न तस्मै धारयेद्दण्डं राजा धर्मेण धर्मवित्
१२.१५९.१४क्षत्रियस्य हि बालिश्याद्ब्राह्मणः क्लिश्यते क्षुधा
श्रुतशीले समाज्ञाय वृत्तिमस्य प्रकल्पयेत्
अथैनं परिरक्षेत पिता पुत्रमिवौरसम्
१२.१५९.१५इष्टिं वैश्वानरीं नित्यं निर्वपेदब्दपर्यये
अविकल्पः पुराधर्मो धर्मवादैस्तु केवलम्
१२.१५९.१६विश्वैस्तु देवैः साध्यैश्च ब्राह्मणैश्च महर्षिभिः
आपत्सु मरणाद्भीतैर्लिङ्गप्रतिनिधिः कृतः
१२.१५९.१७प्रभुः प्रथमकल्पस्य योऽनुकल्पेन वर्तते
न सांपरायिकं तस्य दुर्मतेर्विद्यते फलम्
१२.१५९.१८न ब्राह्मणान्वेदयेत कश्चिद्राजनि मानवः
अवीर्यो वेदनाद्विद्यात्सुवीर्यो वीर्यवत्तरम्
१२.१५९.१९तस्माद्राज्ञा सदा तेजो दुःसहं ब्रह्मवादिनाम्
मन्ता शास्ता विधाता च ब्राह्मणो देव उच्यते
तस्मिन्नाकुशलं ब्रूयान्न शुक्तामीरयेद्गिरम्
१२.१५९.२०क्षत्रियो बाहुवीर्येण तरत्यापदमात्मनः
धनेन वैश्यः शूद्रश्च मन्त्रैर्होमैश्च वै द्विजः
१२.१५९.२१न वै कन्या न युवतिर्नामन्त्रो न च बालिशः
परिवेष्टाग्निहोत्रस्य भवेन्नासंस्कृतस्तथा
नरके निपतन्त्येते जुह्वानाः स च यस्य तत्
१२.१५९.२२प्राजापत्यमदत्त्वाश्वमग्न्याधेयस्य दक्षिणाम्
अनाहिताग्निरिति स प्रोच्यते धर्मदर्शिभिः
१२.१५९.२३पुण्यान्यन्यानि कुर्वीत श्रद्दधानो जितेन्द्रियः
अनाप्तदक्षिणैर्यज्ञैर्न यजेत कथंचन
१२.१५९.२४प्रजाः पशूंश्च स्वर्गं च हन्ति यज्ञो ह्यदक्षिणः
इन्द्रियाणि यशः कीर्तिमायुश्चास्योपकृन्तति
१२.१५९.२५उदक्या ह्यासते ये च ये च केचिदनग्नयः
कुलं चाश्रोत्रियं येषां सर्वे ते शूद्रधर्मिणः
१२.१५९.२६उदपानोदके ग्रामे ब्राह्मणो वृषलीपतिः
उषित्वा द्वादश समाः शूद्रकर्मेह गच्छति
१२.१५९.२७अनार्यां शयने बिभ्रदुज्झन्बिभ्रच्च यो द्विजाम्
अब्राह्मणो मन्यमानस्तृणेष्वासीत पृष्ठतः
तथा स शुध्यते राजञ्शृणु चात्र वचो मम
१२.१५९.२८यदेकरात्रेण करोति पापं; कृष्णं वर्णं ब्राह्मणः सेवमानः
स्थानासनाभ्यां विचरन्व्रती सं;स्त्रिभिर्वर्षैः शमयेदात्मपापम्
१२.१५९.२९न नर्मयुक्तं वचनं हिनस्ति; न स्त्रीषु राजन्न विवाहकाले
न गुर्वर्थे नात्मनो जीवितार्थे; पञ्चानृतान्याहुरपातकानि
१२.१५९.३०श्रद्दधानः शुभां विद्यां हीनादपि समाचरेत्
सुवर्णमपि चामेध्यादाददीतेति धारणा
१२.१५९.३१स्त्रीरत्नं दुष्कुलाच्चापि विषादप्यमृतं पिबेत्
अदुष्टा हि स्त्रियो रत्नमाप इत्येव धर्मतः
१२.१५९.३२गोब्राह्मणहितार्थं च वर्णानां संकरेषु च
गृह्णीयात्तु धनुर्वैश्यः परित्राणाय चात्मनः
१२.१५९.३३सुरापानं ब्रह्महत्या गुरुतल्पमथापि वा
अनिर्देश्यानि मन्यन्ते प्राणान्तानीति धारणा
१२.१५९.३४सुवर्णहरणं स्तैन्यं विप्रासङ्गश्च पातकम्
विहरन्मद्यपानं चाप्यगम्यागमनं तथा
१२.१५९.३५पतितैः संप्रयोगाच्च ब्राह्मणैर्योनितस्तथा
अचिरेण महाराज तादृशो वै भवत्युत
१२.१५९.३६संवत्सरेण पतति पतितेन सहाचरन्
याजनाध्यापनाद्यौनान्न तु यानासनाशनात्
१२.१५९.३७एतानि च ततोऽन्यानि निर्देश्यानीति धारणा
निर्देश्यकेन विधिना कालेनाव्यसनी भवेत्
१२.१५९.३८अन्नं तिर्यङ्न होतव्यं प्रेतकर्मण्यपातिते
त्रिषु त्वेतेषु पूर्वेषु न कुर्वीत विचारणाम्
१२.१५९.३९अमात्यान्वा गुरून्वापि जह्याद्धर्मेण धार्मिकः
प्रायश्चित्तमकुर्वाणैर्नैतैरर्हति संविदम्
१२.१५९.४०अधर्मकारी धर्मेण तपसा हन्ति किल्बिषम्
ब्रुवन्स्तेन इति स्तेनं तावत्प्राप्नोति किल्बिषम्
अस्तेनं स्तेन इत्युक्त्वा द्विगुणं पापमाप्नुयात्
१२.१५९.४१त्रिभागं ब्रह्महत्यायाः कन्या प्राप्नोति दुष्यती
यस्तु दूषयिता तस्याः शेषं प्राप्नोति किल्बिषम्
१२.१५९.४२ब्राह्मणायावगूर्येह स्पृष्ट्वा गुरुतरं भवेत्
वर्षाणां हि शतं पापः प्रतिष्ठां नाधिगच्छति
१२.१५९.४३सहस्रं त्वेव वर्षाणां निपात्य नरके वसेत्
तस्मान्नैवावगूर्याद्धि नैव जातु निपातयेत्
१२.१५९.४४शोणितं यावतः पांसून्संगृह्णीयाद्द्विजक्षतात्
तावतीः स समा राजन्नरके परिवर्तते
१२.१५९.४५भ्रूणहाहवमध्ये तु शुध्यते शस्त्रपातितः
आत्मानं जुहुयाद्वह्नौ समिद्धे तेन शुध्यति
१२.१५९.४६सुरापो वारुणीमुष्णां पीत्वा पापाद्विमुच्यते
तया स काये निर्दग्धे मृत्युना प्रेत्य शुध्यति
लोकांश्च लभते विप्रो नान्यथा लभते हि सः
१२.१५९.४७गुरुतल्पमधिष्ठाय दुरात्मा पापचेतनः
सूर्मीं ज्वलन्तीमाश्लिष्य मृत्युना स विशुध्यति
१२.१५९.४८अथ वा शिश्नवृषणावादायाञ्जलिना स्वयम्
नैरृतीं दिशमास्थाय निपतेत्स त्वजिह्मगः
१२.१५९.४९ब्राह्मणार्थेऽपि वा प्राणान्संत्यजेत्तेन शुध्यति
अश्वमेधेन वापीष्ट्वा गोमेधेनापि वा पुनः
अग्निष्टोमेन वा सम्यगिह प्रेत्य च पूयते
१२.१५९.५०तथैव द्वादश समाः कपाली ब्रह्महा भवेत्
ब्रह्मचारी चरेद्भैक्षं स्वकर्मोदाहरन्मुनिः
१२.१५९.५१एवं वा तपसा युक्तो ब्रह्महा सवनी भवेत्
एवं वा गर्भमज्ञाता चात्रेयीं योऽभिगच्छति
द्विगुणा ब्रह्महत्या वै आत्रेयीव्यसने भवेत्
१२.१५९.५२सुरापो नियताहारो ब्रह्मचारी क्षमाचरः
ऊर्ध्वं त्रिभ्योऽथ वर्षेभ्यो यजेताग्निष्टुता परम्
ऋषभैकसहस्रं गा दत्त्वा शुभमवाप्नुयात्
१२.१५९.५३वैश्यं हत्वा तु वर्षे द्वे ऋषभैकशताश्च गाः
शूद्रं हत्वाब्दमेवैकमृषभैकादशाश्च गाः
१२.१५९.५४श्वबर्बरखरान्हत्वा शौद्रमेव व्रतं चरेत्
मार्जारचाषमण्डूकान्काकं भासं च मूषकम्
१२.१५९.५५उक्तः पशुसमो धर्मो राजन्प्राणिनिपातनात्
प्रायश्चित्तान्यथान्यानि प्रवक्ष्याम्यनुपूर्वशः
१२.१५९.५६तल्पे चान्यस्य चौर्ये च पृथक्संवत्सरं चरेत्
त्रीणि श्रोत्रियभार्यायां परदारे तु द्वे स्मृते
१२.१५९.५७काले चतुर्थे भुञ्जानो ब्रह्मचारी व्रती भवेत्
स्थानासनाभ्यां विहरेत्त्रिरह्नोऽभ्युदितादपः
एवमेव निराचान्तो यश्चाग्नीनपविध्यति
१२.१५९.५८त्यजत्यकारणे यश्च पितरं मातरं तथा
पतितः स्यात्स कौरव्य तथा धर्मेषु निश्चयः
१२.१५९.५९ग्रासाच्छादनमत्यर्थं दद्यादिति निदर्शनम्
भार्यायां व्यभिचारिण्यां निरुद्धायां विशेषतः
यत्पुंसां परदारेषु तच्चैनां चारयेद्व्रतम्
१२.१५९.६०श्रेयांसं शयने हित्वा या पापीयांसमृच्छति
श्वभिस्तां खादयेद्राजा संस्थाने बहुसंवृते
१२.१५९.६१पुमांसं बन्धयेत्प्राज्ञः शयने तप्त आयसे
अप्यादधीत दारूणि तत्र दह्येत पापकृत्
१२.१५९.६२एष दण्डो महाराज स्त्रीणां भर्तृव्यतिक्रमे
संवत्सराभिशस्तस्य दुष्टस्य द्विगुणो भवेत्
१२.१५९.६३द्वे तस्य त्रीणि वर्षाणि चत्वारि सहसेविनः
कुचरः पञ्च वर्षाणि चरेद्भैक्षं मुनिव्रतः
१२.१५९.६४परिवित्तिः परिवेत्ता यया च परिविद्यते
पाणिग्राहश्च धर्मेण सर्वे ते पतिताः स्मृताः
१२.१५९.६५चरेयुः सर्व एवैते वीरहा यद्व्रतं चरेत्
चान्द्रायणं चरेन्मासं कृच्छ्रं वा पापशुद्धये
१२.१५९.६६परिवेत्ता प्रयच्छेत परिवित्ताय तां स्नुषाम्
ज्येष्ठेन त्वभ्यनुज्ञातो यवीयान्प्रत्यनन्तरम्
एनसो मोक्षमाप्नोति सा च तौ चैव धर्मतः
१२.१५९.६७अमानुषीषु गोवर्जमनावृष्टिर्न दुष्यति
अधिष्ठातारमत्तारं पशूनां पुरुषं विदुः
१२.१५९.६८परिधायोर्ध्ववालं तु पात्रमादाय मृन्मयम्
चरेत्सप्त गृहान्भैक्षं स्वकर्म परिकीर्तयन्
१२.१५९.६९तत्रैव लब्धभोजी स्याद्द्वादशाहात्स शुध्यति
चरेत्संवत्सरं चापि तद्व्रतं यन्निराकृति
१२.१५९.७०भवेत्तु मानुषेष्वेवं प्रायश्चित्तमनुत्तमम्
दानं वादानसक्तेषु सर्वमेव प्रकल्पयेत्
अनास्तिकेषु गोमात्रं प्राणमेकं प्रचक्षते
१२.१५९.७१श्ववराहमनुष्याणां कुक्कुटस्य खरस्य च
मांसं मूत्रपुरीषं च प्राश्य संस्कारमर्हति
१२.१५९.७२ब्राह्मणस्य सुरापस्य गन्धमाघ्राय सोमपः
अपस्त्र्यहं पिबेदुष्णास्त्र्यहमुष्णं पयः पिबेत्
त्र्यहमुष्णं घृतं पीत्वा वायुभक्षो भवेत्त्र्यहम्
१२.१५९.७३एवमेतत्समुद्दिष्टं प्रायश्चित्तं सनातनम्
ब्राह्मणस्य विशेषेण तत्त्वज्ञानेन जायते