१२.१६०.१वैशंपायन उवाच
१२.१६०.२कथान्तरमथासाद्य खड्गयुद्धविशारदः
नकुलः शरतल्पस्थमिदमाह पितामहम्
१२.१६०.३धनुः प्रहरणं श्रेष्ठमिति वादः पितामह
मतस्तु मम धर्मज्ञ खड्ग एव सुसंशितः
१२.१६०.४विशीर्णे कार्मुके राजन्प्रक्षीणेषु च वाजिषु
खड्गेन शक्यते युद्धे साध्वात्मा परिरक्षितुम्
१२.१६०.५शरासनधरांश्चैव गदाशक्तिधरांस्तथा
एकः खड्गधरो वीरः समर्थः प्रतिबाधितुम्
१२.१६०.६अत्र मे संशयश्चैव कौतूहलमतीव च
किं स्वित्प्रहरणं श्रेष्ठं सर्वयुद्धेषु पार्थिव
१२.१६०.७कथं चोत्पादितः खड्गः कस्यार्थाय च केन वा
पूर्वाचार्यं च खड्गस्य प्रब्रूहि प्रपितामह
१२.१६०.८तस्य तद्वचनं श्रुत्वा माद्रीपुत्रस्य धीमतः
सर्वकौशलसंयुक्तं सूक्ष्मचित्रार्थवच्छुभम्
१२.१६०.९ततस्तस्योत्तरं वाक्यं स्वरवर्णोपपादितम्
शिक्षान्यायोपसंपन्नं द्रोणशिष्याय पृच्छते
१२.१६०.१०उवाच सर्वधर्मज्ञो धनुर्वेदस्य पारगः
शरतल्पगतो भीष्मो नकुलाय महात्मने
१२.१६०.११तत्त्वं शृणुष्व माद्रेय यदेतत्परिपृच्छसि
प्रबोधितोऽस्मि भवता धातुमानिव पर्वतः
१२.१६०.१२सलिलैकार्णवं तात पुरा सर्वमभूदिदम्
निष्प्रकम्पमनाकाशमनिर्देश्यमहीतलम्
१२.१६०.१३तमःसंवृतमस्पर्शमतिगम्भीरदर्शनम्
निःशब्दं चाप्रमेयं च तत्र जज्ञे पितामहः
१२.१६०.१४सोऽसृजद्वायुमग्निं च भास्करं चापि वीर्यवान्
आकाशमसृजच्चोर्ध्वमधो भूमिं च नैरृतिम्
१२.१६०.१५नभः सचन्द्रतारं च नक्षत्राणि ग्रहांस्तथा
संवत्सरानहोरात्रानृतूनथ लवान्क्षणान्
१२.१६०.१६ततः शरीरं लोकस्थं स्थापयित्वा पितामहः
जनयामास भगवान्पुत्रानुत्तमतेजसः
१२.१६०.१७मरीचिमृषिमत्रिं च पुलस्त्यं पुलहं क्रतुम्
वसिष्ठाङ्गिरसौ चोभौ रुद्रं च प्रभुमीश्वरम्
१२.१६०.१८प्राचेतसस्तथा दक्षः कन्याः षष्टिमजीजनत्
ता वै ब्रह्मर्षयः सर्वाः प्रजार्थं प्रतिपेदिरे
१२.१६०.१९ताभ्यो विश्वानि भूतानि देवाः पितृगणास्तथा
गन्धर्वाप्सरसश्चैव रक्षांसि विविधानि च
१२.१६०.२०पतत्रिमृगमीनाश्च प्लवंगाश्च महोरगाः
नानाकृतिबलाश्चान्ये जलक्षितिविचारिणः
१२.१६०.२१औद्भिदाः स्वेदजाश्चैव अण्डजाश्च जरायुजाः
जज्ञे तात तथा सर्वं जगत्स्थावरजङ्गमम्
१२.१६०.२२भूतसर्गमिमं कृत्वा सर्वलोकपितामहः
शाश्वतं वेदपठितं धर्मं च युयुजे पुनः
१२.१६०.२३तस्मिन्धर्मे स्थिता देवाः सहाचार्यपुरोहिताः
आदित्या वसवो रुद्राः ससाध्या मरुदश्विनः
१२.१६०.२४भृग्वत्र्यङ्गिरसः सिद्धाः काश्यपश्च तपोधनः
वसिष्ठगौतमागस्त्यास्तथा नारदपर्वतौ
१२.१६०.२५ऋषयो वालखिल्याश्च प्रभासाः सिकतास्तथा
घृताचाः सोमवायव्या वैखानसमरीचिपाः
१२.१६०.२६अकृष्टाश्चैव हंसाश्च ऋषयोऽथाग्नियोनिजाः
वानप्रस्थाः पृश्नयश्च स्थिता ब्रह्मानुशासने
१२.१६०.२७दानवेन्द्रास्त्वतिक्रम्य तत्पितामहशासनम्
धर्मस्यापचयं चक्रुः क्रोधलोभसमन्विताः
१२.१६०.२८हिरण्यकशिपुश्चैव हिरण्याक्षो विरोचनः
शम्बरो विप्रचित्तिश्च प्रह्रादो नमुचिर्बलिः
१२.१६०.२९एते चान्ये च बहवः सगणा दैत्यदानवाः
धर्मसेतुमतिक्रम्य रेमिरेऽधर्मनिश्चयाः
१२.१६०.३०सर्वे स्म तुल्यजातीया यथा देवास्तथा वयम्
इत्येवं हेतुमास्थाय स्पर्धमानाः सुरर्षिभिः
१२.१६०.३१न प्रियं नाप्यनुक्रोशं चक्रुर्भूतेषु भारत
त्रीनुपायानतिक्रम्य दण्डेन रुरुधुः प्रजाः
न जग्मुः संविदं तैश्च दर्पादसुरसत्तमाः
१२.१६०.३२अथ वै भगवान्ब्रह्मा ब्रह्मर्षिभिरुपस्थितः
तदा हिमवतः पृष्ठे सुरम्ये पद्मतारके
१२.१६०.३३शतयोजनविस्तारे मणिमुक्ताचयाचिते
तस्मिन्गिरिवरे पुत्र पुष्पितद्रुमकानने
तस्थौ स विबुधश्रेष्ठो ब्रह्मा लोकार्थसिद्धये
१२.१६०.३४ततो वर्षसहस्रान्ते वितानमकरोत्प्रभुः
विधिना कल्पदृष्टेन यथोक्तेनोपपादितम्
१२.१६०.३५ऋषिभिर्यज्ञपटुभिर्यथावत्कर्मकर्तृभिः
मरुद्भिः परिसंस्तीर्णं दीप्यमानैश्च पावकैः
१२.१६०.३६काञ्चनैर्यज्ञभाण्डैश्च भ्राजिष्णुभिरलंकृतम्
वृतं देवगणैश्चैव प्रबभौ यज्ञमण्डलम्
१२.१६०.३७तथा ब्रह्मर्षिभिश्चैव सदस्यैरुपशोभितम्
तत्र घोरतमं वृत्तमृषीणां मे परिश्रुतम्
१२.१६०.३८चन्द्रमा विमलं व्योम यथाभ्युदिततारकम्
विदार्याग्निं तथा भूतमुत्थितं श्रूयते ततः
१२.१६०.३९नीलोत्पलसवर्णाभं तीक्ष्णदंष्ट्रं कृशोदरम्
प्रांशु दुर्दर्शनं चैवाप्यतितेजस्तथैव च
१२.१६०.४०तस्मिन्नुत्पतमाने च प्रचचाल वसुंधरा
तत्रोर्मिकलिलावर्तश्चुक्षुभे च महार्णवः
१२.१६०.४१पेतुरुल्का महोत्पाताः शाखाश्च मुमुचुर्द्रुमाः
अप्रसन्ना दिशः सर्वाः पवनश्चाशिवो ववौ
मुहुर्मुहुश्च भूतानि प्राव्यथन्त भयात्तथा
१२.१६०.४२ततः सुतुमुलं दृष्ट्वा तदद्भुतमुपस्थितम्
महर्षिसुरगन्धर्वानुवाचेदं पितामहः
१२.१६०.४३मयैतच्चिन्तितं भूतमसिर्नामैष वीर्यवान्
रक्षणार्थाय लोकस्य वधाय च सुरद्विषाम्
१२.१६०.४४ततस्तद्रूपमुत्सृज्य बभौ निस्त्रिंश एव सः
विमलस्तीक्ष्णधारश्च कालान्तक इवोद्यतः
१२.१६०.४५ततस्तं शितिकण्ठाय रुद्रायर्षभकेतवे
ब्रह्मा ददावसिं दीप्तमधर्मप्रतिवारणम्
१२.१६०.४६ततः स भगवान्रुद्रो ब्रह्मर्षिगणसंस्तुतः
प्रगृह्यासिममेयात्मा रूपमन्यच्चकार ह
१२.१६०.४७चतुर्बाहुः स्पृशन्मूर्ध्ना भूस्थितोऽपि नभस्तलम्
ऊर्ध्वदृष्टिर्महालिङ्गो मुखाज्ज्वालाः समुत्सृजन्
विकुर्वन्बहुधा वर्णान्नीलपाण्डुरलोहितान्
१२.१६०.४८बिभ्रत्कृष्णाजिनं वासो हेमप्रवरतारकम्
नेत्रं चैकं ललाटेन भास्करप्रतिमं महत्
शुशुभाते च विमले द्वे नेत्रे कृष्णपिङ्गले
१२.१६०.४९ततो देवो महादेवः शूलपाणिर्भगाक्षिहा
संप्रगृह्य तु निस्त्रिंशं कालार्कानलसंनिभम्
१२.१६०.५०त्रिकूटं चर्म चोद्यम्य सविद्युतमिवाम्बुदम्
चचार विविधान्मार्गान्महाबलपराक्रमः
विधुन्वन्नसिमाकाशे दानवान्तचिकीर्षया
१२.१६०.५१तस्य नादं विनदतो महाहासं च मुञ्चतः
बभौ प्रतिभयं रूपं तदा रुद्रस्य भारत
१२.१६०.५२तद्रूपधारिणं रुद्रं रौद्रकर्म चिकीर्षवः
निशम्य दानवाः सर्वे हृष्टाः समभिदुद्रुवुः
१२.१६०.५३अश्मभिश्चाप्यवर्षन्त प्रदीप्तैश्च तथोल्मुकैः
घोरैः प्रहरणैश्चान्यैः शितधारैरयोमुखैः
१२.१६०.५४ततस्तद्दानवानीकं संप्रणेतारमच्युतम्
रुद्रखड्गबलोद्धूतं प्रचचाल मुमोह च
१२.१६०.५५चित्रं शीघ्रतरत्वाच्च चरन्तमसिधारिणम्
तमेकमसुराः सर्वे सहस्रमिति मेनिरे
१२.१६०.५६छिन्दन्भिन्दन्रुजन्कृन्तन्दारयन्प्रमथन्नपि
अचरद्दैत्यसंघेषु रुद्रोऽग्निरिव कक्षगः
१२.१६०.५७असिवेगप्ररुग्णास्ते छिन्नबाहूरुवक्षसः
संप्रकृत्तोत्तमाङ्गाश्च पेतुरुर्व्यां महासुराः
१२.१६०.५८अपरे दानवा भग्ना रुद्रघातावपीडिताः
अन्योन्यमभिनर्दन्तो दिशः संप्रतिपेदिरे
१२.१६०.५९भूमिं केचित्प्रविविशुः पर्वतानपरे तथा
अपरे जग्मुराकाशमपरेऽम्भः समाविशन्
१२.१६०.६०तस्मिन्महति संवृत्ते समरे भृशदारुणे
बभौ भूमिः प्रतिभया तदा रुधिरकर्दमा
१२.१६०.६१दानवानां शरीरैश्च महद्भिः शोणितोक्षितैः
समाकीर्णा महाबाहो शैलैरिव सकिंशुकैः
१२.१६०.६२रुधिरेण परिक्लिन्ना प्रबभौ वसुधा तदा
रक्तार्द्रवसना श्यामा नारीव मदविह्वला
१२.१६०.६३स रुद्रो दानवान्हत्वा कृत्वा धर्मोत्तरं जगत्
रौद्रं रूपं विहायाशु चक्रे रूपं शिवं शिवः
१२.१६०.६४ततो महर्षयः सर्वे सर्वे देवगणास्तथा
जयेनाद्भुतकल्पेन देवदेवमथार्चयन्
१२.१६०.६५ततः स भगवान्रुद्रो दानवक्षतजोक्षितम्
असिं धर्मस्य गोप्तारं ददौ सत्कृत्य विष्णवे
१२.१६०.६६विष्णुर्मरीचये प्रादान्मरीचिर्भगवांश्च तम्
महर्षिभ्यो ददौ खड्गमृषयो वासवाय तु
१२.१६०.६७महेन्द्रो लोकपालेभ्यो लोकपालास्तु पुत्रक
मनवे सूर्यपुत्राय ददुः खड्गं सुविस्तरम्
१२.१६०.६८ऊचुश्चैनं तथैवाद्यं मानुषाणां त्वमीश्वरः
असिना धर्मगर्भेण पालयस्व प्रजा इति
१२.१६०.६९धर्मसेतुमतिक्रान्ताः सूक्ष्मस्थूलार्थकारणात्
विभज्य दण्डं रक्ष्याः स्युर्धर्मतो न यदृच्छया
१२.१६०.७०दुर्वाचा निग्रहो दण्डो हिरण्यबहुलस्तथा
व्यङ्गनं च शरीरस्य वधो वानल्पकारणात्
१२.१६०.७१असेरेतानि रूपाणि दुर्वाचादीनि निर्दिशेत्
असेरेव प्रमाणानि परिमाणव्यतिक्रमात्
१२.१६०.७२अधिसृज्याथ पुत्रं स्वं प्रजानामधिपं ततः
मनुः प्रजानां रक्षार्थं क्षुपाय प्रददावसिम्
१२.१६०.७३क्षुपाज्जग्राह चेक्ष्वाकुरिक्ष्वाकोश्च पुरूरवाः
आयुश्च तस्माल्लेभे तं नहुषश्च ततो भुवि
१२.१६०.७४ययातिर्नहुषाच्चापि पूरुस्तस्माच्च लब्धवान्
आमूर्तरयसस्तस्मात्ततो भूमिशयो नृपः
१२.१६०.७५भरतश्चापि दौःषन्तिर्लेभे भूमिशयादसिम्
तस्माच्च लेभे धर्मज्ञो राजन्नैडबिडस्तथा
१२.१६०.७६ततश्चैडबिडाल्लेभे धुन्धुमारो जनेश्वरः
धुन्धुमाराच्च काम्बोजो मुचुकुन्दस्ततोऽलभत्
१२.१६०.७७मुचुकुन्दान्मरुत्तश्च मरुत्तादपि रैवतः
रैवताद्युवनाश्वश्च युवनाश्वात्ततो रघुः
१२.१६०.७८इक्ष्वाकुवंशजस्तस्माद्धरिणाश्वः प्रतापवान्
हरिणाश्वादसिं लेभे शुनकः शुनकादपि
१२.१६०.७९उशीनरो वै धर्मात्मा तस्माद्भोजाः सयादवाः
यदुभ्यश्च शिबिर्लेभे शिबेश्चापि प्रतर्दनः
१२.१६०.८०प्रतर्दनादष्टकश्च रुशदश्वोऽष्टकादपि
रुशदश्वाद्भरद्वाजो द्रोणस्तस्मात्कृपस्ततः
ततस्त्वं भ्रातृभिः सार्धं परमासिमवाप्तवान्
१२.१६०.८१कृत्तिकाश्चास्य नक्षत्रमसेरग्निश्च दैवतम्
रोहिण्यो गोत्रमस्याथ रुद्रश्च गुरुरुत्तमः
१२.१६०.८२असेरष्टौ च नामानि रहस्यानि निबोध मे
पाण्डवेय सदा यानि कीर्तयँल्लभते जयम्
१२.१६०.८३असिर्विशसनः खड्गस्तीक्ष्णवर्त्मा दुरासदः
श्रीगर्भो विजयश्चैव धर्मपालस्तथैव च
१२.१६०.८४अग्र्यः प्रहरणानां च खड्गो माद्रवतीसुत
महेश्वरप्रणीतश्च पुराणे निश्चयं गतः
१२.१६०.८५पृथुस्तूत्पादयामास धनुराद्यमरिंदम
तेनेयं पृथिवी पूर्वं वैन्येन परिरक्षिता
१२.१६०.८६तदेतदार्षं माद्रेय प्रमाणं कर्तुमर्हसि
असेश्च पूजा कर्तव्या सदा युद्धविशारदैः
१२.१६०.८७इत्येष प्रथमः कल्पो व्याख्यातस्ते सुविस्तरः
असेरुत्पत्तिसंसर्गो यथावद्भरतर्षभ
१२.१६०.८८सर्वथैतदिह श्रुत्वा खड्गसाधनमुत्तमम्
लभते पुरुषः कीर्तिं प्रेत्य चानन्त्यमश्नुते