१२.१६१.१वैशंपायन उवाच
१२.१६१.२इत्युक्तवति भीष्मे तु तूष्णींभूते युधिष्ठिरः
पप्रच्छावसरं गत्वा भ्रातॄन्विदुरपञ्चमान्
१२.१६१.३धर्मे चार्थे च कामे च लोकवृत्तिः समाहिता
तेषां गरीयान्कतमो मध्यमः को लघुश्च कः
१२.१६१.४कस्मिंश्चात्मा नियन्तव्यस्त्रिवर्गविजयाय वै
संतुष्टा नैष्ठिकं वाक्यं यथावद्वक्तुमर्हथ
१२.१६१.५ततोऽर्थगतितत्त्वज्ञः प्रथमं प्रतिभानवान्
जगाद विदुरो वाक्यं धर्मशास्त्रमनुस्मरन्
१२.१६१.६बाहुश्रुत्यं तपस्त्यागः श्रद्धा यज्ञक्रिया क्षमा
भावशुद्धिर्दया सत्यं संयमश्चात्मसंपदः
१२.१६१.७एतदेवाभिपद्यस्व मा ते भूच्चलितं मनः
एतन्मूलौ हि धर्मार्थावेतदेकपदं हितम्
१२.१६१.८धर्मेणैवर्षयस्तीर्णा धर्मे लोकाः प्रतिष्ठिताः
धर्मेण देवा दिविगा धर्मे चार्थः समाहितः
१२.१६१.९धर्मो राजन्गुणश्रेष्ठो मध्यमो ह्यर्थ उच्यते
कामो यवीयानिति च प्रवदन्ति मनीषिणः
तस्माद्धर्मप्रधानेन भवितव्यं यतात्मना
१२.१६१.१०समाप्तवचने तस्मिन्नर्थशास्त्रविशारदः
पार्थो वाक्यार्थतत्त्वज्ञो जगौ वाक्यमतन्द्रितः
१२.१६१.११कर्मभूमिरियं राजन्निह वार्त्ता प्रशस्यते
कृषिवाणिज्यगोरक्ष्यं शिल्पानि विविधानि च
१२.१६१.१२अर्थ इत्येव सर्वेषां कर्मणामव्यतिक्रमः
न ऋतेऽर्थेन वर्तेते धर्मकामाविति श्रुतिः
१२.१६१.१३विजयी ह्यर्थवान्धर्ममाराधयितुमुत्तमम्
कामं च चरितुं शक्तो दुष्प्रापमकृतात्मभिः
१२.१६१.१४अर्थस्यावयवावेतौ धर्मकामाविति श्रुतिः
अर्थसिद्ध्या हि निर्वृत्तावुभावेतौ भविष्यतः
१२.१६१.१५उद्भूतार्थं हि पुरुषं विशिष्टतरयोनयः
ब्रह्माणमिव भूतानि सततं पर्युपासते
१२.१६१.१६जटाजिनधरा दान्ताः पङ्कदिग्धा जितेन्द्रियाः
मुण्डा निस्तन्तवश्चापि वसन्त्यर्थार्थिनः पृथक्
१२.१६१.१७काषायवसनाश्चान्ये श्मश्रुला ह्रीसुसंवृताः
विद्वांसश्चैव शान्ताश्च मुक्ताः सर्वपरिग्रहैः
१२.१६१.१८अर्थार्थिनः सन्ति केचिदपरे स्वर्गकाङ्क्षिणः
कुलप्रत्यागमाश्चैके स्वं स्वं मार्गमनुष्ठिताः
१२.१६१.१९आस्तिका नास्तिकाश्चैव नियताः संयमे परे
अप्रज्ञानं तमोभूतं प्रज्ञानं तु प्रकाशता
१२.१६१.२०भृत्यान्भोगैर्द्विषो दण्डैर्यो योजयति सोऽर्थवान्
एतन्मतिमतां श्रेष्ठ मतं मम यथातथम्
अनयोस्तु निबोध त्वं वचनं वाक्यकण्ठयोः
१२.१६१.२१ततो धर्मार्थकुशलौ माद्रीपुत्रावनन्तरम्
नकुलः सहदेवश्च वाक्यं जगदतुः परम्
१२.१६१.२२आसीनश्च शयानश्च विचरन्नपि च स्थितः
अर्थयोगं दृढं कुर्याद्योगैरुच्चावचैरपि
१२.१६१.२३अस्मिंस्तु वै सुसंवृत्ते दुर्लभे परमप्रिये
इह कामानवाप्नोति प्रत्यक्षं नात्र संशयः
१२.१६१.२४योऽर्थो धर्मेण संयुक्तो धर्मो यश्चार्थसंयुतः
मध्विवामृतसंयुक्तं तस्मादेतौ मताविह
१२.१६१.२५अनर्थस्य न कामोऽस्ति तथार्थोऽधर्मिणः कुतः
तस्मादुद्विजते लोको धर्मार्थाद्यो बहिष्कृतः
१२.१६१.२६तस्माद्धर्मप्रधानेन साध्योऽर्थः संयतात्मना
विश्वस्तेषु च भूतेषु कल्पते सर्व एव हि
१२.१६१.२७धर्मं समाचरेत्पूर्वं तथार्थं धर्मसंयुतम्
ततः कामं चरेत्पश्चात्सिद्धार्थस्य हि तत्फलम्
१२.१६१.२८विरेमतुस्तु तद्वाक्यमुक्त्वा तावश्विनोः सुतौ
भीमसेनस्तदा वाक्यमिदं वक्तुं प्रचक्रमे
१२.१६१.२९नाकामः कामयत्यर्थं नाकामो धर्ममिच्छति
नाकामः कामयानोऽस्ति तस्मात्कामो विशिष्यते
१२.१६१.३०कामेन युक्ता ऋषयस्तपस्येव समाहिताः
पलाशफलमूलाशा वायुभक्षाः सुसंयताः
१२.१६१.३१वेदोपवादेष्वपरे युक्ताः स्वाध्यायपारगाः
श्राद्धयज्ञक्रियायां च तथा दानप्रतिग्रहे
१२.१६१.३२वणिजः कर्षका गोपाः कारवः शिल्पिनस्तथा
दैवकर्मकृतश्चैव युक्ताः कामेन कर्मसु
१२.१६१.३३समुद्रं चाविशन्त्यन्ये नराः कामेन संयुताः
कामो हि विविधाकारः सर्वं कामेन संततम्
१२.१६१.३४नास्ति नासीन्नाभविष्यद्भूतं कामात्मकात्परम्
एतत्सारं महाराज धर्मार्थावत्र संश्रितौ
१२.१६१.३५नवनीतं यथा दध्नस्तथा कामोऽर्थधर्मतः
श्रेयस्तैलं च पिण्याकाद्घृतं श्रेय उदश्वितः
१२.१६१.३६श्रेयः पुष्पफलं काष्ठात्कामो धर्मार्थयोर्वरः
पुष्पतो मध्विव रसः कामात्संजायते सुखम्
१२.१६१.३७सुचारुवेषाभिरलंकृताभि;र्मदोत्कटाभिः प्रियवादिनीभिः
रमस्व योषाभिरुपेत्य कामं; कामो हि राजंस्तरसाभिपाती
१२.१६१.३८बुद्धिर्ममैषा परिषत्स्थितस्य; मा भूद्विचारस्तव धर्मपुत्र
स्यात्संहितं सद्भिरफल्गुसारं; समेत्य वाक्यं परमानृशंस्यम्
१२.१६१.३९धर्मार्थकामाः सममेव सेव्या; यस्त्वेकसेवी स नरो जघन्यः
द्वयोस्तु दक्षं प्रवदन्ति मध्यं; स उत्तमो यो निरतस्त्रिवर्गे
१२.१६१.४०प्राज्ञः सुहृच्चन्दनसारलिप्तो; विचित्रमाल्याभरणैरुपेतः
ततो वचः संग्रहविग्रहेण; प्रोक्त्वा यवीयान्विरराम भीमः
१२.१६१.४१ततो मुहूर्तादथ धर्मराजो; वाक्यानि तेषामनुचिन्त्य सम्यक्
उवाच वाचावितथं स्मयन्वै; बहुश्रुतो धर्मभृतां वरिष्ठः
१२.१६१.४२निःसंशयं निश्चितधर्मशास्त्राः; सर्वे भवन्तो विदितप्रमाणाः
विज्ञातुकामस्य ममेह वाक्य;मुक्तं यद्वै नैष्ठिकं तच्छ्रुतं मे
इह त्ववश्यं गदतो ममापि; वाक्यं निबोधध्वमनन्यभावाः
१२.१६१.४३यो वै न पापे निरतो न पुण्ये; नार्थे न धर्मे मनुजो न कामे
विमुक्तदोषः समलोष्टकाञ्चनः; स मुच्यते दुःखसुखार्थसिद्धेः
१२.१६१.४४भूतानि जातीमरणान्वितानि; जराविकारैश्च समन्वितानि
भूयश्च तैस्तैः प्रतिबोधितानि; मोक्षं प्रशंसन्ति न तं च विद्मः
१२.१६१.४५स्नेहे नबद्धस्य न सन्ति तानी;त्येवं स्वयंभूर्भगवानुवाच
बुधाश्च निर्वाणपरा वदन्ति; तस्मान्न कुर्यात्प्रियमप्रियं च
१२.१६१.४६एतत्प्रधानं न तु कामकारो; यथा नियुक्तोऽस्मि तथा चरामि
भूतानि सर्वाणि विधिर्नियुङ्क्ते; विधिर्बलीयानिति वित्त सर्वे
१२.१६१.४७न कर्मणाप्नोत्यनवाप्यमर्थं; यद्भावि सर्वं भवतीति वित्त
त्रिवर्गहीनोऽपि हि विन्दतेऽर्थं; तस्मादिदं लोकहिताय गुह्यम्
१२.१६१.४८ततस्तदग्र्यं वचनं मनोनुगं; समस्तमाज्ञाय ततोऽतिहेतुमत्
तदा प्रणेदुश्च जहर्षिरे च ते; कुरुप्रवीराय च चक्रुरञ्जलीन्
१२.१६१.४९सुचारुवर्णाक्षरशब्दभूषितां; मनोनुगां निर्धुतवाक्यकण्टकाम्
निशम्य तां पार्थिव पार्थभाषितां; गिरं नरेन्द्राः प्रशशंसुरेव ते
पुनश्च पप्रच्छ सरिद्वरासुतं; ततः परं धर्ममहीनसत्त्वः