१२. शान्तिपर्व
१२.१६२.१युधिष्ठिर उवाच

१२.१६२.२पितामह महाप्राज्ञ कुरूणां कीर्तिवर्धन
प्रश्नं कंचित्प्रवक्ष्यामि तन्मे व्याख्यातुमर्हसि

१२.१६२.३कीदृशा मानवाः सौम्याः कैः प्रीतिः परमा भवेत्
आयत्यां च तदात्वे च के क्षमास्तान्वदस्व मे

१२.१६२.४न हि तत्र धनं स्फीतं न च संबन्धिबान्धवाः
तिष्ठन्ति यत्र सुहृदस्तिष्ठन्तीति मतिर्मम

१२.१६२.५दुर्लभो हि सुहृच्छ्रोता दुर्लभश्च हितः सुहृत्
एतद्धर्मभृतां श्रेष्ठ सर्वं व्याख्यातुमर्हसि

१२.१६२.६भीष्म उवाच

१२.१६२.७संधेयान्पुरुषान्राजन्नसंधेयांश्च तत्त्वतः
वदतो मे निबोध त्वं निखिलेन युधिष्ठिर

१२.१६२.८लुब्धः क्रूरस्त्यक्तधर्मा निकृतः शठ एव च
क्षुद्रः पापसमाचारः सर्वशङ्की तथालसः

१२.१६२.९दीर्घसूत्रोऽनृजुः कष्टो गुरुदारप्रधर्षकः
व्यसने यः परित्यागी दुरात्मा निरपत्रपः

१२.१६२.१०सर्वतः पापदर्शी च नास्तिको वेदनिन्दकः
संप्रकीर्णेन्द्रियो लोके यः कामनिरतश्चरेत्

१२.१६२.११असत्यो लोकविद्विष्टः समये चानवस्थितः
पिशुनोऽथाकृतप्रज्ञो मत्सरी पापनिश्चयः

१२.१६२.१२दुःशीलोऽथाकृतात्मा च नृशंसः कितवस्तथा
मित्रैरर्थकृती नित्यमिच्छत्यर्थपरश्च यः

१२.१६२.१३वहतश्च यथाशक्ति यो न तुष्यति मन्दधीः
अमित्रमिव यो भुङ्क्ते सदा मित्रं नरर्षभ

१२.१६२.१४अस्थानक्रोधनो यश्च अकस्माच्च विरज्यते
सुहृदश्चैव कल्याणानाशु त्यजति किल्बिषी

१२.१६२.१५अल्पेऽप्यपकृते मूढस्तथाज्ञानात्कृतेऽपि च
कार्योपसेवी मित्रेषु मित्रद्वेषी नराधिप

१२.१६२.१६शत्रुर्मित्रमुखो यश्च जिह्मप्रेक्षी विलोभनः
न रज्यति च कल्याणे यस्त्यजेत्तादृशं नरम्

१२.१६२.१७पानपो द्वेषणः क्रूरो निर्घृणः परुषस्तथा
परोपतापी मित्रध्रुक्तथा प्राणिवधे रतः

१२.१६२.१८कृतघ्नश्चाधमो लोके न संधेयः कथंचन
छिद्रान्वेषी न संधेयः संधेयानपि मे शृणु

१२.१६२.१९कुलीना वाक्यसंपन्ना ज्ञानविज्ञानकोविदाः
मित्रज्ञाश्च कृतज्ञाश्च सर्वज्ञाः शोकवर्जिताः

१२.१६२.२०माधुर्यगुणसंपन्नाः सत्यसंधा जितेन्द्रियाः
व्यायामशीलाः सततं भृतपुत्राः कुलोद्गताः

१२.१६२.२१रूपवन्तो गुणोपेतास्तथालुब्धा जितश्रमाः
दोषैर्वियुक्ताः प्रथितैस्ते ग्राह्याः पार्थिवेन ह

१२.१६२.२२यथाशक्तिसमाचाराः सन्तस्तुष्यन्ति हि प्रभो
नास्थाने क्रोधवन्तश्च न चाकस्माद्विरागिणः

१२.१६२.२३विरक्ताश्च न रुष्यन्ति मनसाप्यर्थकोविदाः
आत्मानं पीडयित्वापि सुहृत्कार्यपरायणाः
न विरज्यन्ति मित्रेभ्यो वासो रक्तमिवाविकम्

१२.१६२.२४दोषांश्च लोभमोहादीनर्थेषु युवतिष्वथ
न दर्शयन्ति सुहृदां विश्वस्ता बन्धुवत्सलाः

१२.१६२.२५लोष्टकाञ्चनतुल्यार्थाः सुहृत्स्वशठबुद्धयः
ये चरन्त्यनभीमाना निसृष्टार्थविभूषणाः
संगृह्णन्तः परिजनं स्वाम्यर्थपरमाः सदा

१२.१६२.२६ईदृशैः पुरुषश्रेष्ठैः संधिं यः कुरुते नृपः
तस्य विस्तीर्यते राष्ट्रं ज्योत्स्ना ग्रहपतेरिव

१२.१६२.२७शास्त्रनित्या जितक्रोधा बलवन्तो रणप्रियाः
क्षान्ताः शीलगुणोपेताः संधेयाः पुरुषोत्तमाः

१२.१६२.२८ये च दोषसमायुक्ता नराः प्रोक्ता मयानघ
तेषामप्यधमो राजन्कृतघ्नो मित्रघातकः
त्यक्तव्यः स दुराचारः सर्वेषामिति निश्चयः

१२.१६२.२९युधिष्ठिर उवाच

१२.१६२.३०विस्तरेणार्थसंबन्धं श्रोतुमिच्छामि पार्थिव
मित्रद्रोही कृतघ्नश्च यः प्रोक्तस्तं च मे वद

१२.१६२.३१भीष्म उवाच

१२.१६२.३२हन्त ते वर्तयिष्येऽहमितिहासं पुरातनम्
उदीच्यां दिशि यद्वृत्तं म्लेच्छेषु मनुजाधिप

१२.१६२.३३ब्राह्मणो मध्यदेशीयः कृष्णाङ्गो ब्रह्मवर्जितः
ग्रामं प्रेक्ष्य जनाकीर्णं प्राविशद्भैक्षकाङ्क्षया

१२.१६२.३४तत्र दस्युर्धनयुतः सर्ववर्णविशेषवित्
ब्रह्मण्यः सत्यसंधश्च दाने च निरतोऽभवत्

१२.१६२.३५तस्य क्षयमुपागम्य ततो भिक्षामयाचत
प्रतिश्रयं च वासार्थं भिक्षां चैवाथ वार्षिकीम्

१२.१६२.३६प्रादात्तस्मै स विप्राय वस्त्रं च सदृशं नवम्
नारीं चापि वयोपेतां भर्त्रा विरहितां तदा

१२.१६२.३७एतत्संप्राप्य हृष्टात्मा दस्योः सर्वं द्विजस्तदा
तस्मिन्गृहवरे राजंस्तया रेमे स गौतमः

१२.१६२.३८कुटुम्बार्थेषु दस्योः स साहाय्यं चाप्यथाकरोत्
तत्रावसत्सोऽथ वर्षाः समृद्धे शबरालये
बाणवेध्ये परं यत्नमकरोच्चैव गौतमः

१२.१६२.३९वक्राङ्गांस्तु स नित्यं वै सर्वतो बाणगोचरे
जघान गौतमो राजन्यथा दस्युगणस्तथा

१२.१६२.४०हिंसापरो घृणाहीनः सदा प्राणिवधे रतः
गौतमः संनिकर्षेण दस्युभिः समतामियात्

१२.१६२.४१तथा तु वसतस्तस्य दस्युग्रामे सुखं तदा
अगच्छन्बहवो मासा निघ्नतः पक्षिणो बहून्

१२.१६२.४२ततः कदाचिदपरो द्विजस्तं देशमागमत्
जटी चीराजिनधरः स्वाध्यायपरमः शुचिः

१२.१६२.४३विनीतो नियताहारो ब्रह्मण्यो वेदपारगः
सब्रह्मचारी तद्देश्यः सखा तस्यैव सुप्रियम्
तं दस्युग्राममगमद्यत्रासौ गौतमोऽभवत्

१२.१६२.४४स तु विप्रगृहान्वेषी शूद्रान्नपरिवर्जकः
ग्रामे दस्युजनाकीर्णे व्यचरत्सर्वतोदिशम्

१२.१६२.४५ततः स गौतमगृहं प्रविवेश द्विजोत्तमः
गौतमश्चापि संप्राप्तस्तावन्योन्येन संगतौ

१२.१६२.४६वक्राङ्गभारहस्तं तं धनुष्पाणिं कृतागसम्
रुधिरेणावसिक्ताङ्गं गृहद्वारमुपागतम्

१२.१६२.४७तं दृष्ट्वा पुरुषादाभमपध्वस्तं क्षयागतम्
अभिज्ञाय द्विजो व्रीडामगमद्वाक्यमाह च

१२.१६२.४८किमिदं कुरुषे मौढ्याद्विप्रस्त्वं हि कुलोद्गतः
मध्यदेशपरिज्ञातो दस्युभावं गतः कथम्

१२.१६२.४९पूर्वान्स्मर द्विजाग्र्यांस्तान्प्रख्यातान्वेदपारगान्
येषां वंशेऽभिजातस्त्वमीदृशः कुलपांसनः

१२.१६२.५०अवबुध्यात्मनात्मानं सत्यं शीलं श्रुतं दमम्
अनुक्रोशं च संस्मृत्य त्यज वासमिमं द्विज

१२.१६२.५१एवमुक्तः स सुहृदा तदा तेन हितैषिणा
प्रत्युवाच ततो राजन्विनिश्चित्य तदार्तवत्

१२.१६२.५२अधनोऽस्मि द्विजश्रेष्ठ न च वेदविदप्यहम्
वृत्त्यर्थमिह संप्राप्तं विद्धि मां द्विजसत्तम

१२.१६२.५३त्वद्दर्शनात्तु विप्रर्षे कृतार्थं वेद्म्यहं द्विज
आत्मानं सह यास्यावः श्वो वसाद्येह शर्वरीम्