१२. शान्तिपर्व
१२.१९१.१युधिष्ठिर उवाच

१२.१९१.२कीदृशो जापको याति निरयं वर्णयस्व मे
कौतूहलं हि मे जातं तद्भवान्वक्तुमर्हति

१२.१९१.३भीष्म उवाच

१२.१९१.४धर्मस्यांशः प्रसूतोऽसि धर्मिष्ठोऽसि स्वभावतः
धर्ममूलाश्रयं वाक्यं शृणुष्वावहितोऽनघ

१२.१९१.५अमूनि यानि स्थानानि देवानां परमात्मनाम्
नानासंस्थानवर्णानि नानारूपफलानि च

१२.१९१.६दिव्यानि कामचारीणि विमानानि सभास्तथा
आक्रीडा विविधा राजन्पद्मिन्यश्चामलोदकाः

१२.१९१.७चतुर्णां लोकपालानां शुक्रस्याथ बृहस्पतेः
मरुतां विश्वदेवानां साध्यानामश्विनोरपि

१२.१९१.८रुद्रादित्यवसूनां च तथान्येषां दिवौकसाम्
एते वै निरयास्तात स्थानस्य परमात्मनः

१२.१९१.९अभयं चानिमित्तं च न च क्लेशभयावृतम्
द्वाभ्यां मुक्तं त्रिभिर्मुक्तमष्टाभिस्त्रिभिरेव च

१२.१९१.१०चतुर्लक्षणवर्जं तु चतुष्कारणवर्जितम्
अप्रहर्षमनानन्दमशोकं विगतक्लमम्

१२.१९१.११कालः संपच्यते तत्र न कालस्तत्र वै प्रभुः
स कालस्य प्रभू राजन्स्वर्गस्यापि तथेश्वरः

१२.१९१.१२आत्मकेवलतां प्राप्तस्तत्र गत्वा न शोचति
ईदृशं परमं स्थानं निरयास्ते च तादृशाः

१२.१९१.१३एते ते निरयाः प्रोक्ताः सर्व एव यथातथम्
तस्य स्थानवरस्येह सर्वे निरयसंज्ञिताः