१२. शान्तिपर्व
१२.१९२.१युधिष्ठिर उवाच

१२.१९२.२कालमृत्युयमानां च ब्राह्मणस्य च सत्तम
विवादो व्याहृतः पूर्वं तद्भवान्वक्तुमर्हति

१२.१९२.३भीष्म उवाच

१२.१९२.४अत्राप्युदाहरन्तीममितिहासं पुरातनम्
इक्ष्वाकोः सूर्यपुत्रस्य यद्वृत्तं ब्राह्मणस्य च

१२.१९२.५कालस्य मृत्योश्च तथा यद्वृत्तं तन्निबोध मे
यथा स तेषां संवादो यस्मिन्स्थानेऽपि चाभवत्

१२.१९२.६ब्राह्मणो जापकः कश्चिद्धर्मवृत्तो महायशाः
षडङ्गविन्महाप्राज्ञः पैप्पलादिः स कौशिकः

१२.१९२.७तस्यापरोक्षं विज्ञानं षडङ्गेषु तथैव च
वेदेषु चैव निष्णातो हिमवत्पादसंश्रयः

१२.१९२.८सोऽन्त्यं ब्राह्मं तपस्तेपे संहितां संयतो जपन्
तस्य वर्षसहस्रं तु नियमेन तथा गतम्

१२.१९२.९स देव्या दर्शितः साक्षात्प्रीतास्मीति तदा किल
जप्यमावर्तयंस्तूष्णीं न च तां किंचिदब्रवीत्

१२.१९२.१०तस्यानुकम्पया देवी प्रीता समभवत्तदा
वेदमाता ततस्तस्य तज्जप्यं समपूजयत्

१२.१९२.११समाप्तजप्यस्तूत्थाय शिरसा पादयोस्तथा
पपात देव्या धर्मात्मा वचनं चेदमब्रवीत्

१२.१९२.१२दिष्ट्या देवि प्रसन्ना त्वं दर्शनं चागता मम
यदि वापि प्रसन्नासि जप्ये मे रमतां मनः

१२.१९२.१३सावित्र्युवाच

१२.१९२.१४किं प्रार्थयसि विप्रर्षे किं चेष्टं करवाणि ते
प्रब्रूहि जपतां श्रेष्ठ सर्वं तत्ते भविष्यति

१२.१९२.१५भीष्म उवाच

१२.१९२.१६इत्युक्तः स तदा देव्या विप्रः प्रोवाच धर्मवित्
जप्यं प्रति ममेच्छेयं वर्धत्विति पुनः पुनः

१२.१९२.१७मनसश्च समाधिर्मे वर्धेताहरहः शुभे
तत्तथेति ततो देवी मधुरं प्रत्यभाषत

१२.१९२.१८इदं चैवापरं प्राह देवी तत्प्रियकाम्यया
निरयं नैव यातासि यत्र याता द्विजर्षभाः

१२.१९२.१९यास्यसि ब्रह्मणः स्थानमनिमित्तमनिन्दितम्
साधये भविता चैतद्यत्त्वयाहमिहार्थिता

१२.१९२.२०नियतो जप चैकाग्रो धर्मस्त्वां समुपैष्यति
कालो मृत्युर्यमश्चैव समायास्यन्ति तेऽन्तिकम्
भविता च विवादोऽत्र तव तेषां च धर्मतः

१२.१९२.२१एवमुक्त्वा भगवती जगाम भवनं स्वकम्
ब्राह्मणोऽपि जपन्नास्ते दिव्यं वर्षशतं तदा

१२.१९२.२२समाप्ते नियमे तस्मिन्नथ विप्रस्य धीमतः
साक्षात्प्रीतस्तदा धर्मो दर्शयामास तं द्विजम्

१२.१९२.२३धर्म उवाच

१२.१९२.२४द्विजाते पश्य मां धर्ममहं त्वां द्रष्टुमागतः
जप्यस्य च फलं यत्ते संप्राप्तं तच्च मे शृणु

१२.१९२.२५जिता लोकास्त्वया सर्वे ये दिव्या ये च मानुषाः
देवानां निरयान्साधो सर्वानुत्क्रम्य यास्यसि

१२.१९२.२६प्राणत्यागं कुरु मुने गच्छ लोकान्यथेप्सितान्
त्यक्त्वात्मनः शरीरं च ततो लोकानवाप्स्यसि

१२.१९२.२७ब्राह्मण उवाच

१२.१९२.२८कृतं लोकैर्हि मे धर्म गच्छ च त्वं यथासुखम्
बहुदुःखसुखं देहं नोत्सृजेयमहं विभो

१२.१९२.२९धर्म उवाच

१२.१९२.३०अवश्यं भोः शरीरं ते त्यक्तव्यं मुनिपुंगव
स्वर्ग आरोह्यतां विप्र किं वा ते रोचतेऽनघ

१२.१९२.३१ब्राह्मण उवाच

१२.१९२.३२न रोचये स्वर्गवासं विना देहादहं विभो
गच्छ धर्म न मे श्रद्धा स्वर्गं गन्तुं विनात्मना

१२.१९२.३३धर्म उवाच

१२.१९२.३४अलं देहे मनः कृत्वा त्यक्त्वा देहं सुखी भव
गच्छ लोकानरजसो यत्र गत्वा न शोचसि

१२.१९२.३५ब्राह्मण उवाच

१२.१९२.३६रमे जपन्महाभाग कृतं लोकैः सनातनैः
सशरीरेण गन्तव्यो मया स्वर्गो न वा विभो

१२.१९२.३७धर्म उवाच

१२.१९२.३८यदि त्वं नेच्छसि त्यक्तुं शरीरं पश्य वै द्विज
एष कालस्तथा मृत्युर्यमश्च त्वामुपागताः

१२.१९२.३९भीष्म उवाच

१२.१९२.४०अथ वैवस्वतः कालो मृत्युश्च त्रितयं विभो
ब्राह्मणं तं महाभागमुपागम्येदमब्रुवन्

१२.१९२.४१तपसोऽस्य सुतप्तस्य तथा सुचरितस्य च
फलप्राप्तिस्तव श्रेष्ठा यमोऽहं त्वामुपब्रुवे

१२.१९२.४२यथावदस्य जप्यस्य फलं प्राप्तस्त्वमुत्तमम्
कालस्ते स्वर्गमारोढुं कालोऽहं त्वामुपागतः

१२.१९२.४३मृत्युं मा विद्धि धर्मज्ञ रूपिणं स्वयमागतम्
कालेन चोदितं विप्र त्वामितो नेतुमद्य वै

१२.१९२.४४ब्राह्मण उवाच

१२.१९२.४५स्वागतं सूर्यपुत्राय कालाय च महात्मने
मृत्यवे चाथ धर्माय किं कार्यं करवाणि वः

१२.१९२.४६भीष्म उवाच

१२.१९२.४७अर्घ्यं पाद्यं च दत्त्वा स तेभ्यस्तत्र समागमे
अब्रवीत्परमप्रीतः स्वशक्त्या किं करोमि वः

१२.१९२.४८तस्मिन्नेवाथ काले तु तीर्थयात्रामुपागतः
इक्ष्वाकुरगमत्तत्र समेता यत्र ते विभो

१२.१९२.४९सर्वानेव तु राजर्षिः संपूज्याभिप्रणम्य च
कुशलप्रश्नमकरोत्सर्वेषां राजसत्तमः

१२.१९२.५०तस्मै सोऽथासनं दत्त्वा पाद्यमर्घ्यं तथैव च
अब्रवीद्ब्राह्मणो वाक्यं कृत्वा कुशलसंविदम्

१२.१९२.५१स्वागतं ते महाराज ब्रूहि यद्यदिहेच्छसि
स्वशक्त्या किं करोमीह तद्भवान्प्रब्रवीतु मे

१२.१९२.५२राजोवाच

१२.१९२.५३राजाहं ब्राह्मणश्च त्वं यदि षट्कर्मसंस्थितः
ददामि वसु किंचित्ते प्रार्थितं तद्वदस्व मे

१२.१९२.५४ब्राह्मण उवाच

१२.१९२.५५द्विविधा ब्राह्मणा राजन्धर्मश्च द्विविधः स्मृतः
प्रवृत्तश्च निवृत्तश्च निवृत्तोऽस्मि प्रतिग्रहात्

१२.१९२.५६तेभ्यः प्रयच्छ दानानि ये प्रवृत्ता नराधिप
अहं न प्रतिगृह्णामि किमिष्टं किं ददानि ते
ब्रूहि त्वं नृपतिश्रेष्ठ तपसा साधयामि किम्

१२.१९२.५७राजोवाच

१२.१९२.५८क्षत्रियोऽहं न जानामि देहीति वचनं क्वचित्
प्रयच्छ युद्धमित्येवं वादिनः स्मो द्विजोत्तम

१२.१९२.५९ब्राह्मण उवाच

१२.१९२.६०तुष्यसि त्वं स्वधर्मेण तथा तुष्टा वयं नृप
अन्योन्यस्योत्तरं नास्ति यदिष्टं तत्समाचर

१२.१९२.६१राजोवाच

१२.१९२.६२स्वशक्त्याहं ददानीति त्वया पूर्वं प्रभाषितम्
याचे त्वां दीयतां मह्यं जप्यस्यास्य फलं द्विज

१२.१९२.६३ब्राह्मण उवाच

१२.१९२.६४युद्धं मम सदा वाणी याचतीति विकत्थसे
न च युद्धं मया सार्धं किमर्थं याचसे पुनः

१२.१९२.६५राजोवाच

१२.१९२.६६वाग्वज्रा ब्राह्मणाः प्रोक्ताः क्षत्रिया बाहुजीविनः
वाग्युद्धं तदिदं तीव्रं मम विप्र त्वया सह

१२.१९२.६७ब्राह्मण उवाच

१२.१९२.६८सैवाद्यापि प्रतिज्ञा मे स्वशक्त्या किं प्रदीयताम्
ब्रूहि दास्यामि राजेन्द्र विभवे सति माचिरम्

१२.१९२.६९राजोवाच

१२.१९२.७०यत्तद्वर्षशतं पूर्णं जप्यं वै जपता त्वया
फलं प्राप्तं तत्प्रयच्छ मम दित्सुर्भवान्यदि

१२.१९२.७१ब्राह्मण उवाच

१२.१९२.७२परमं गृह्यतां तस्य फलं यज्जपितं मया
अर्धं त्वमविचारेण फलं तस्य समाप्नुहि

१२.१९२.७३अथ वा सर्वमेवेह जप्यकं मामकं फलम्
राजन्प्राप्नुहि कामं त्वं यदि सर्वमिहेच्छसि

१२.१९२.७४राजोवाच

१२.१९२.७५कृतं सर्वेण भद्रं ते जप्यं यद्याचितं मया
स्वस्ति तेऽस्तु गमिष्यामि किं च तस्य फलं वद

१२.१९२.७६ब्राह्मण उवाच

१२.१९२.७७फलप्राप्तिं न जानामि दत्तं यज्जपितं मया
अयं धर्मश्च कालश्च यमो मृत्युश्च साक्षिणः

१२.१९२.७८राजोवाच

१२.१९२.७९अज्ञातमस्य धर्मस्य फलं मे किं करिष्यति
प्राप्नोतु तत्फलं विप्रो नाहमिच्छे ससंशयम्

१२.१९२.८०ब्राह्मण उवाच

१२.१९२.८१नाददेऽपरवक्तव्यं दत्तं वाचा फलं मया
वाक्यं प्रमाणं राजर्षे ममापि तव चैव हि

१२.१९२.८२नाभिसंधिर्मया जप्ये कृतपूर्वः कथंचन
जप्यस्य राजशार्दूल कथं ज्ञास्याम्यहं फलम्

१२.१९२.८३ददस्वेति त्वया चोक्तं ददामीति तथा मया
न वाचं दूषयिष्यामि सत्यं रक्ष स्थिरो भव

१२.१९२.८४अथैवं वदतो मेऽद्य वचनं न करिष्यसि
महानधर्मो भविता तव राजन्मृषाकृतः

१२.१९२.८५न युक्तं तु मृषा वाणी त्वया वक्तुमरिंदम
तथा मयाप्यभ्यधिकं मृषा वक्तुं न शक्यते

१२.१९२.८६संश्रुतं च मया पूर्वं ददानीत्यविचारितम्
तद्गृह्णीष्वाविचारेण यदि सत्ये स्थितो भवान्

१२.१९२.८७इहागम्य हि मां राजञ्जाप्यं फलमयाचिथाः
तन्मन्निसृष्टं गृह्णीष्व भव सत्ये स्थिरोऽपि च

१२.१९२.८८नायं लोकोऽस्ति न परो न च पूर्वान्स तारयेत्
कुत एवावरान्राजन्मृषावादपरायणः

१२.१९२.८९न यज्ञाध्ययने दानं नियमास्तारयन्ति हि
तथा सत्यं परे लोके यथा वै पुरुषर्षभ

१२.१९२.९०तपांसि यानि चीर्णानि चरिष्यसि च यत्तपः
समाः शतैः सहस्रैश्च तत्सत्यान्न विशिष्यते

१२.१९२.९१सत्यमेकाक्षरं ब्रह्म सत्यमेकाक्षरं तपः
सत्यमेकाक्षरो यज्ञः सत्यमेकाक्षरं श्रुतम्

१२.१९२.९२सत्यं वेदेषु जागर्ति फलं सत्ये परं स्मृतम्
सत्याद्धर्मो दमश्चैव सर्वं सत्ये प्रतिष्ठितम्

१२.१९२.९३सत्यं वेदास्तथाङ्गानि सत्यं यज्ञस्तथा विधिः
व्रतचर्यास्तथा सत्यमोंकारः सत्यमेव च

१२.१९२.९४प्राणिनां जननं सत्यं सत्यं संततिरेव च
सत्येन वायुरभ्येति सत्येन तपते रविः

१२.१९२.९५सत्येन चाग्निर्दहति स्वर्गः सत्ये प्रतिष्ठितः
सत्यं यज्ञस्तपो वेदाः स्तोभा मन्त्राः सरस्वती

१२.१९२.९६तुलामारोपितो धर्मः सत्यं चैवेति नः श्रुतम्
समां कक्षां धारयतो यतः सत्यं ततोऽधिकम्

१२.१९२.९७यतो धर्मस्ततः सत्यं सर्वं सत्येन वर्धते
किमर्थमनृतं कर्म कर्तुं राजंस्त्वमिच्छसि

१२.१९२.९८सत्ये कुरु स्थिरं भावं मा राजन्ननृतं कृथाः
कस्मात्त्वमनृतं वाक्यं देहीति कुरुषेऽशुभम्

१२.१९२.९९यदि जप्यफलं दत्तं मया नेषिष्यसे नृप
स्वधर्मेभ्यः परिभ्रष्टो लोकाननुचरिष्यसि

१२.१९२.१००संश्रुत्य यो न दित्सेत याचित्वा यश्च नेच्छति
उभावानृतिकावेतौ न मृषा कर्तुमर्हसि

१२.१९२.१०१राजोवाच

१२.१९२.१०२योद्धव्यं रक्षितव्यं च क्षत्रधर्मः किल द्विज
दातारः क्षत्रियाः प्रोक्ता गृह्णीयां भवतः कथम्

१२.१९२.१०३ब्राह्मण उवाच

१२.१९२.१०४न छन्दयामि ते राजन्नापि ते गृहमाव्रजम्
इहागम्य तु याचित्वा न गृह्णीषे पुनः कथम्

१२.१९२.१०५धर्म उवाच

१२.१९२.१०६अविवादोऽस्तु युवयोर्वित्तं मां धर्ममागतम्
द्विजो दानफलैर्युक्तो राजा सत्यफलेन च

१२.१९२.१०७स्वर्ग उवाच

१२.१९२.१०८स्वर्गं मां विद्धि राजेन्द्र रूपिणं स्वयमागतम्
अविवादोऽस्तु युवयोरुभौ तुल्यफलौ युवाम्

१२.१९२.१०९राजोवाच

१२.१९२.११०कृतं स्वर्गेण मे कार्यं गच्छ स्वर्ग यथासुखम्
विप्रो यदीच्छते दातुं प्रतीच्छतु च मे धनम्

१२.१९२.१११ब्राह्मण उवाच

१२.१९२.११२बाल्ये यदि स्यादज्ञानान्मया हस्तः प्रसारितः
निवृत्तिलक्षणं धर्ममुपासे संहितां जपन्

१२.१९२.११३निवृत्तं मां चिरं राजन्विप्रं लोभयसे कथम्
स्वेन कार्यं करिष्यामि त्वत्तो नेच्छे फलं नृप
तपःस्वाध्यायशीलोऽहं निवृत्तश्च प्रतिग्रहात्

१२.१९२.११४राजोवाच

१२.१९२.११५यदि विप्र निसृष्टं ते जप्यस्य फलमुत्तमम्
आवयोर्यत्फलं किंचित्सहितं नौ तदस्त्विह

१२.१९२.११६द्विजाः प्रतिग्रहे युक्ता दातारो राजवंशजाः
यदि धर्मः श्रुतो विप्र सहैव फलमस्तु नौ

१२.१९२.११७मा वा भूत्सहभोज्यं नौ मदीयं फलमाप्नुहि
प्रतीच्छ मत्कृतं धर्मं यदि ते मय्यनुग्रहः

१२.१९२.११८भीष्म उवाच

१२.१९२.११९ततो विकृतचेष्टौ द्वौ पुरुषौ समुपस्थितौ
गृहीत्वान्योन्यमावेष्ट्य कुचेलावूचतुर्वचः

१२.१९२.१२०न मे धारयसीत्येको धारयामीति चापरः
इहास्ति नौ विवादोऽयमयं राजानुशासकः

१२.१९२.१२१सत्यं ब्रवीम्यहमिदं न मे धारयते भवान्
अनृतं वदसीह त्वमृणं ते धारयाम्यहम्

१२.१९२.१२२तावुभौ भृशसंतप्तौ राजानमिदमूचतुः
परीक्ष्यतां यथा स्याव नावामिह विगर्हितौ

१२.१९२.१२३विरूप उवाच

१२.१९२.१२४धारयामि नरव्याघ्र विकृतस्येह गोः फलम्
ददतश्च न गृह्णाति विकृतो मे महीपते

१२.१९२.१२५विकृत उवाच

१२.१९२.१२६न मे धारयते किंचिद्विरूपोऽयं नराधिप
मिथ्या ब्रवीत्ययं हि त्वा मिथ्याभासं नराधिप

१२.१९२.१२७राजोवाच

१२.१९२.१२८विरूप किं धारयते भवानस्य वदस्व मे
श्रुत्वा तथा करिष्यामीत्येवं मे धीयते मतिः

१२.१९२.१२९विरूप उवाच

१२.१९२.१३०शृणुष्वावहितो राजन्यथैतद्धारयाम्यहम्
विकृतस्यास्य राजर्षे निखिलेन नरर्षभ

१२.१९२.१३१अनेन धर्मप्राप्त्यर्थं शुभा दत्ता पुरानघ
धेनुर्विप्राय राजर्षे तपःस्वाध्यायशीलिने

१२.१९२.१३२तस्याश्चायं मया राजन्फलमभ्येत्य याचितः
विकृतेन च मे दत्तं विशूद्धेनान्तरात्मना

१२.१९२.१३३ततो मे सुकृतं कर्म कृतमात्मविशुद्धये
गावौ हि कपिले क्रीत्वा वत्सले बहुदोहने

१२.१९२.१३४ते चोञ्छवृत्तये राजन्मया समपवर्जिते
यथाविधि यथाश्रद्धं तदस्याहं पुनः प्रभो

१२.१९२.१३५इहाद्य वै गृहीत्वा तत्प्रयच्छे द्विगुणं फलम्
एकस्याः पुरुषव्याघ्र कः शुद्धः कोऽत्र दोषवान्

१२.१९२.१३६एवं विवदमानौ स्वस्त्वामिहाभ्यागतौ नृप
कुरु धर्ममधर्मं वा विनये नौ समाधय

१२.१९२.१३७यदि नेच्छति मे दानं यथा दत्तमनेन वै
भवानत्र स्थिरो भूत्वा मार्गे स्थापयतु प्रभुः

१२.१९२.१३८राजोवाच

१२.१९२.१३९दीयमानं न गृह्णासि ऋणं कस्मात्त्वमद्य वै
यथैव तेऽभ्यनुज्ञातं तथा गृह्णीष्व माचिरम्

१२.१९२.१४०विकृत उवाच

१२.१९२.१४१दीयतामित्यनेनोक्तं ददानीति तथा मया
नायं मे धारयत्यत्र गम्यतां यत्र वाञ्छति

१२.१९२.१४२राजोवाच

१२.१९२.१४३ददतोऽस्य न गृह्णासि विषमं प्रतिभाति मे
दण्ड्यो हि त्वं मम मतो नास्त्यत्र खलु संशयः

१२.१९२.१४४विकृत उवाच

१२.१९२.१४५मयास्य दत्तं राजर्षे गृह्णीयां तत्कथं पुनः
काममत्रापराधो मे दण्ड्यमाज्ञापय प्रभो

१२.१९२.१४६विरूप उवाच

१२.१९२.१४७दीयमानं यदि मया नेषिष्यसि कथंचन
नियंस्यति त्वा नृपतिरयं धर्मानुशासकः

१२.१९२.१४८विकृत उवाच

१२.१९२.१४९स्वं मया याचितेनेह दत्तं कथमिहाद्य तत्
गृह्णीयां गच्छतु भवानभ्यनुज्ञां ददानि ते

१२.१९२.१५०ब्राह्मण उवाच

१२.१९२.१५१श्रुतमेतत्त्वया राजन्ननयोः कथितं द्वयोः
प्रतिज्ञातं मया यत्ते तद्गृहाणाविचारितम्

१२.१९२.१५२राजोवाच

१२.१९२.१५३प्रस्तुतं सुमहत्कार्यमावयोर्गह्वरं यथा
जापकस्य दृढीकारः कथमेतद्भविष्यति

१२.१९२.१५४यदि तावन्न गृह्णामि ब्राह्मणेनापवर्जितम्
कथं न लिप्येयमहं दोषेण महताद्य वै

१२.१९२.१५५भीष्म उवाच

१२.१९२.१५६तौ चोवाच स राजर्षिः कृतकार्यौ गमिष्यथः
नेदानीं मामिहासाद्य राजधर्मो भवेन्मृषा

१२.१९२.१५७स्वधर्मः परिपाल्यश्च राज्ञामेष विनिश्चयः
विप्रधर्मश्च सुगुरुर्मामनात्मानमाविशत्

१२.१९२.१५८ब्राह्मण उवाच

१२.१९२.१५९गृहाण धारयेऽहं ते याचितं ते श्रुतं मया
न चेद्ग्रहीष्यसे राजञ्शपिष्ये त्वां न संशयः

१२.१९२.१६०राजोवाच

१२.१९२.१६१धिग्राजधर्मं यस्यायं कार्यस्येह विनिश्चयः
इत्यर्थं मे ग्रहीतव्यं कथं तुल्यं भवेदिति

१२.१९२.१६२एष पाणिरपूर्वं भो निक्षेपार्थं प्रसारितः
यन्मे धारयसे विप्र तदिदानीं प्रदीयताम्

१२.१९२.१६३ब्राह्मण उवाच

१२.१९२.१६४संहितां जपता यावान्मया कश्चिद्गुणः कृतः
तत्सर्वं प्रतिगृह्णीष्व यदि किंचिदिहास्ति मे

१२.१९२.१६५राजोवाच

१२.१९२.१६६जलमेतन्निपतितं मम पाणौ द्विजोत्तम
सममस्तु सहैवास्तु प्रतिगृह्णातु वै भवान्

१२.१९२.१६७विरूप उवाच

१२.१९२.१६८कामक्रोधौ विद्धि नौ त्वमावाभ्यां कारितो भवान्
समेति च यदुक्तं ते समा लोकास्तवास्य च

१२.१९२.१६९नायं धारयते किंचिज्जिज्ञासा त्वत्कृते कृता
कालो धर्मस्तथा मृत्युः कामक्रोधौ तथा युवाम्

१२.१९२.१७०सर्वमन्योन्यनिकषे निघृष्टं पश्यतस्तव
गच्छ लोकाञ्जितान्स्वेन कर्मणा यत्र वाञ्छसि

१२.१९२.१७१भीष्म उवाच

१२.१९२.१७२जापकानां फलावाप्तिर्मया ते संप्रकीर्तिता
गतिः स्थानं च लोकाश्च जापकेन यथा जिताः

१२.१९२.१७३प्रयाति संहिताध्यायी ब्रह्माणं परमेष्ठिनम्
अथ वाग्निं समायाति सूर्यमाविशतेऽपि वा

१२.१९२.१७४स तैजसेन भावेन यदि तत्राश्नुते रतिम्
गुणांस्तेषां समादत्ते रागेण प्रतिमोहितः

१२.१९२.१७५एवं सोमे तथा वायौ भूम्याकाशशरीरगः
सरागस्तत्र वसति गुणांस्तेषां समाचरन्

१२.१९२.१७६अथ तत्र विरागी स गच्छति त्वथ संशयम्
परमव्ययमिच्छन्स तमेवाविशते पुनः

१२.१९२.१७७अमृताच्चामृतं प्राप्तः शीतीभूतो निरात्मवान्
ब्रह्मभूतः स निर्द्वंद्वः सुखी शान्तो निरामयः

१२.१९२.१७८ब्रह्मस्थानमनावर्तमेकमक्षरसंज्ञकम्
अदुःखमजरं शान्तं स्थानं तत्प्रतिपद्यते

१२.१९२.१७९चतुर्भिर्लक्षणैर्हीनं तथा षड्भिः सषोडशैः
पुरुषं समतिक्रम्य आकाशं प्रतिपद्यते

१२.१९२.१८०अथ वेच्छति रागात्मा सर्वं तदधितिष्ठति
यच्च प्रार्थयते तच्च मनसा प्रतिपद्यते

१२.१९२.१८१अथ वा वीक्षते लोकान्सर्वान्निरयसंस्थितान्
निःस्पृहः सर्वतो मुक्तस्तत्रैव रमते सुखी

१२.१९२.१८२एवमेषा महाराज जापकस्य गतिर्यथा
एतत्ते सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि