१२. शान्तिपर्व
१२.१९३.१युधिष्ठिर उवाच

१२.१९३.२किमुत्तरं तदा तौ स्म चक्रतुस्तेन भाषिते
ब्राह्मणो वाथ वा राजा तन्मे ब्रूहि पितामह

१२.१९३.३अथ वा तौ गतौ तत्र यदेतत्कीर्तितं त्वया
संवादो वा तयोः कोऽभूत्किं वा तौ तत्र चक्रतुः

१२.१९३.४भीष्म उवाच

१२.१९३.५तथेत्येवं प्रतिश्रुत्य धर्मं संपूज्य चाभिभो
यमं कालं च मृत्युं च स्वर्गं संपूज्य चार्हतः

१२.१९३.६पूर्वं ये चापरे तत्र समेता ब्राह्मणर्षभाः
सर्वान्संपूज्य शिरसा राजानं सोऽब्रवीद्वचः

१२.१९३.७फलेनानेन संयुक्तो राजर्षे गच्छ पुण्यताम्
भवता चाभ्यनुज्ञातो जपेयं भूय एव हि

१२.१९३.८वरश्च मम पूर्वं हि देव्या दत्तो महाबल
श्रद्धा ते जपतो नित्यं भवितेति विशां पते

१२.१९३.९राजोवाच

१२.१९३.१०यद्येवमफला सिद्धिः श्रद्धा च जपितुं तव
गच्छ विप्र मया सार्धं जापकं फलमाप्नुहि

१२.१९३.११ब्राह्मण उवाच

१२.१९३.१२कृतः प्रयत्नः सुमहान्सर्वेषां संनिधाविह
सह तुल्यफलौ चावां गच्छावो यत्र नौ गतिः

१२.१९३.१३भीष्म उवाच

१२.१९३.१४व्यवसायं तयोस्तत्र विदित्वा त्रिदशेश्वरः
सह देवैरुपययौ लोकपालैस्तथैव च

१२.१९३.१५साध्या विश्वेऽथ मरुतो ज्योतींषि सुमहान्ति च
नद्यः शैलाः समुद्राश्च तीर्थानि विविधानि च

१२.१९३.१६तपांसि संयोगविधिर्वेदाः स्तोभाः सरस्वती
नारदः पर्वतश्चैव विश्वावसुर्हहा हुहूः

१२.१९३.१७गन्धर्वश्चित्रसेनश्च परिवारगणैर्युतः
नागाः सिद्धाश्च मुनयो देवदेवः प्रजापतिः
विष्णुः सहस्रशीर्षश्च देवोऽचिन्त्यः समागमत्

१२.१९३.१८अवाद्यन्तान्तरिक्षे च भेर्यस्तूर्याणि चाभिभो
पुष्पवर्षाणि दिव्यानि तत्र तेषां महात्मनाम्
ननृतुश्चाप्सरःसंघास्तत्र तत्र समन्ततः

१२.१९३.१९अथ स्वर्गस्तथा रूपी ब्राह्मणं वाक्यमब्रवीत्
संसिद्धस्त्वं महाभाग त्वं च सिद्धस्तथा नृप

१२.१९३.२०अथ तौ सहितौ राजन्नन्योन्येन विधानतः
विषयप्रतिसंहारमुभावेव प्रचक्रतुः

१२.१९३.२१प्राणापानौ तथोदानं समानं व्यानमेव च
एवं तान्मनसि स्थाप्य दधतुः प्राणयोर्मनः

१२.१९३.२२उपस्थितकृतौ तत्र नासिकाग्रमधो भ्रुवौ
कुङ्कुण्यां चैव मनसा शनैर्धारयतः स्म तौ

१२.१९३.२३निश्चेष्टाभ्यां शरीराभ्यां स्थिरदृष्टी समाहितौ
जितासनौ तथाधाय मूर्धन्यात्मानमेव च

१२.१९३.२४तालुदेशमथोद्दाल्य ब्राह्मणस्य महात्मनः
ज्योतिर्ज्वाला सुमहती जगाम त्रिदिवं तदा

१२.१९३.२५हाहाकारस्ततो दिक्षु सर्वासु सुमहानभूत्
तज्ज्योतिः स्तूयमानं स्म ब्रह्माणं प्राविशत्तदा

१२.१९३.२६ततः स्वागतमित्याह तत्तेजः स पितामहः
प्रादेशमात्रं पुरुषं प्रत्युद्गम्य विशां पते

१२.१९३.२७भूयश्चैवापरं प्राह वचनं मधुरं स्म सः
जापकैस्तुल्यफलता योगानां नात्र संशयः

१२.१९३.२८योगस्य तावदेतेभ्यः फलं प्रत्यक्षदर्शनम्
जापकानां विशिष्टं तु प्रत्युत्थानं समाधिकम्

१२.१९३.२९उष्यतां मयि चेत्युक्त्वाचेतयत्स ततः पुनः
अथास्य प्रविवेशास्यं ब्राह्मणो विगतज्वरः

१२.१९३.३०राजाप्येतेन विधिना भगवन्तं पितामहम्
यथैव द्विजशार्दूलस्तथैव प्राविशत्तदा

१२.१९३.३१स्वयंभुवमथो देवा अभिवाद्य ततोऽब्रुवन्
जापकार्थमयं यत्नस्तदर्थं वयमागताः

१२.१९३.३२कृतपूजाविमौ तुल्यं त्वया तुल्यफलाविमौ
योगजापकयोर्दृष्टं फलं सुमहदद्य वै
सर्वाँल्लोकानतीत्यैतौ गच्छेतां यत्र वाञ्छितम्

१२.१९३.३३ब्रह्मोवाच

१२.१९३.३४महास्मृतिं पठेद्यस्तु तथैवानुस्मृतिं शुभाम्
तावप्येतेन विधिना गच्छेतां मत्सलोकताम्

१२.१९३.३५यश्च योगे भवेद्भक्तः सोऽपि नास्त्यत्र संशयः
विधिनानेन देहान्ते मम लोकानवाप्नुयात्
गम्यतां साधयिष्यामि यथास्थानानि सिद्धये

१२.१९३.३६भीष्म उवाच

१२.१९३.३७इत्युक्त्वा स तदा देवस्तत्रैवान्तरधीयत
आमन्त्र्य तं ततो देवा ययुः स्वं स्वं निवेशनम्

१२.१९३.३८ते च सर्वे महात्मानो धर्मं सत्कृत्य तत्र वै
पृष्ठतोऽनुययू राजन्सर्वे सुप्रीतमानसाः

१२.१९३.३९एतत्फलं जापकानां गतिश्चैव प्रकीर्तिता
यथाश्रुतं महाराज किं भूयः श्रोतुमिच्छसि