१२. शान्तिपर्व
१२.१९४.१युधिष्ठिर उवाच

१२.१९४.२किं फलं ज्ञानयोगस्य वेदानां नियमस्य च
भूतात्मा वा कथं ज्ञेयस्तन्मे ब्रूहि पितामह

१२.१९४.३भीष्म उवाच

१२.१९४.४अत्राप्युदाहरन्तीममितिहासं पुरातनम्
मनोः प्रजापतेर्वादं महर्षेश्च बृहस्पतेः

१२.१९४.५प्रजापतिं श्रेष्ठतमं पृथिव्यां; देवर्षिसंघप्रवरो महर्षिः
बृहस्पतिः प्रश्नमिमं पुराणं; पप्रच्छ शिष्योऽथ गुरुं प्रणम्य

१२.१९४.६यत्कारणं मन्त्रविधिः प्रवृत्तो; ज्ञाने फलं यत्प्रवदन्ति विप्राः
यन्मन्त्रशब्दैरकृतप्रकाशं; तदुच्यतां मे भगवन्यथावत्

१२.१९४.७यदर्थशास्त्रागममन्त्रविद्भि;र्यज्ञैरनेकैर्वरगोप्रदानैः
फलं महद्भिर्यदुपास्यते च; तत्किं कथं वा भविता क्व वा तत्

१२.१९४.८मही महीजाः पवनोऽन्तरिक्षं; जलौकसश्चैव जलं दिवं च
दिवौकसश्चैव यतः प्रसूता;स्तदुच्यतां मे भगवन्पुराणम्

१२.१९४.९ज्ञानं यतः प्रार्थयते नरो वै; ततस्तदर्था भवति प्रवृत्तिः
न चाप्यहं वेद परं पुराणं; मिथ्याप्रवृत्तिं च कथं नु कुर्याम्

१२.१९४.१०ऋक्सामसंघांश्च यजूंषि चाहं; छन्दांसि नक्षत्रगतिं निरुक्तम्
अधीत्य च व्याकरणं सकल्पं; शिक्षां च भूतप्रकृतिं न वेद्मि

१२.१९४.११स मे भवाञ्शंसतु सर्वमेत;ज्ज्ञाने फलं कर्मणि वा यदस्ति
यथा च देहाच्च्यवते शरीरी; पुनः शरीरं च यथाभ्युपैति

१२.१९४.१२मनुरुवाच

१२.१९४.१३यद्यत्प्रियं यस्य सुखं तदाहु;स्तदेव दुःखं प्रवदन्त्यनिष्टम्
इष्टं च मे स्यादितरच्च न स्या;देतत्कृते कर्मविधिः प्रवृत्तः
इष्टं त्वनिष्टं च न मां भजेते;त्येतत्कृते ज्ञानविधिः प्रवृत्तः

१२.१९४.१४कामात्मकाश्छन्दसि कर्मयोगा; एभिर्विमुक्तः परमश्नुवीत
नानाविधे कर्मपथे सुखार्थी; नरः प्रवृत्तो न परं प्रयाति
परं हि तत्कर्मपथादपेतं; निराशिषं ब्रह्मपरं ह्यवश्यम्

१२.१९४.१५प्रजाः सृष्टा मनसा कर्मणा च; द्वावप्येतौ सत्पथौ लोकजुष्टौ
दृष्ट्वा कर्म शाश्वतं चान्तवच्च; मनस्त्यागः कारणं नान्यदस्ति

१२.१९४.१६स्वेनात्मना चक्षुरिव प्रणेता; निशात्यये तमसा संवृतात्मा
ज्ञानं तु विज्ञानगुणेन युक्तं; कर्माशुभं पश्यति वर्जनीयम्

१२.१९४.१७सर्पान्कुशाग्राणि तथोदपानं; ज्ञात्वा मनुष्याः परिवर्जयन्ति
अज्ञानतस्तत्र पतन्ति मूढा; ज्ञाने फलं पश्य यथा विशिष्टम्

१२.१९४.१८कृत्स्नस्तु मन्त्रो विधिवत्प्रयुक्तो; यज्ञा यथोक्तास्त्वथ दक्षिणाश्च
अन्नप्रदानं मनसः समाधिः; पञ्चात्मकं कर्मफलं वदन्ति

१२.१९४.१९गुणात्मकं कर्म वदन्ति वेदा;स्तस्मान्मन्त्रा मन्त्रमूलं हि कर्म
विधिर्विधेयं मनसोपपत्तिः; फलस्य भोक्ता तु यथा शरीरी

१२.१९४.२०शब्दाश्च रूपाणि रसाश्च पुण्याः; स्पर्शाश्च गन्धाश्च शुभास्तथैव
नरो नसंस्थानगतः प्रभुः स्या;देतत्फलं सिध्यति कर्मलोके

१२.१९४.२१यद्यच्छरीरेण करोति कर्म; शरीरयुक्तः समुपाश्नुते तत्
शरीरमेवायतनं सुखस्य; दुःखस्य चाप्यायतनं शरीरम्

१२.१९४.२२वाचा तु यत्कर्म करोति किंचि;द्वाचैव सर्वं समुपाश्नुते तत्
मनस्तु यत्कर्म करोति किंचि;न्मनःस्थ एवायमुपाश्नुते तत्

१२.१९४.२३यथागुणं कर्मगणं फलार्थी; करोत्ययं कर्मफले निविष्टः
तथा तथायं गुणसंप्रयुक्तः; शुभाशुभं कर्मफलं भुनक्ति

१२.१९४.२४मत्स्यो यथा स्रोत इवाभिपाती; तथा कृतं पूर्वमुपैति कर्म
शुभे त्वसौ तुष्यति दुष्कृते तु; न तुष्यते वै परमः शरीरी

१२.१९४.२५यतो जगत्सर्वमिदं प्रसूतं; ज्ञात्वात्मवन्तो व्यतियान्ति यत्तत्
यन्मन्त्रशब्दैरकृतप्रकाशं; तदुच्यमानं शृणु मे परं यत्

१२.१९४.२६रसैर्वियुक्तं विविधैश्च गन्धै;रशब्दमस्पर्शमरूपवच्च
अग्राह्यमव्यक्तमवर्णमेकं; पञ्चप्रकारं ससृजे प्रजानाम्

१२.१९४.२७न स्त्री पुमान्वापि नपुंसकं च; न सन्न चासत्सदसच्च तन्न
पश्यन्ति यद्ब्रह्मविदो मनुष्या;स्तदक्षरं न क्षरतीति विद्धि