१२. शान्तिपर्व
१२.१९५.१मनुरुवाच

१२.१९५.२अक्षरात्खं ततो वायुर्वायोर्ज्योतिस्ततो जलम्
जलात्प्रसूता जगती जगत्यां जायते जगत्

१२.१९५.३इमे शरीरैर्जलमेव गत्वा; जलाच्च तेजः पवनोऽन्तरिक्षम्
खाद्वै निवर्तन्ति नभाविनस्ते; ये भाविनस्ते परमाप्नुवन्ति

१२.१९५.४नोष्णं न शीतं मृदु नापि तीक्ष्णं; नाम्लं कषायं मधुरं न तिक्तम्
न शब्दवन्नापि च गन्धवत्त;न्न रूपवत्तत्परमस्वभावम्

१२.१९५.५स्पर्शं तनुर्वेद रसं तु जिह्वा; घ्राणं च गन्धाञ्श्रवणे च शब्दान्
रूपाणि चक्षुर्न च तत्परं य;द्गृह्णन्त्यनध्यात्मविदो मनुष्याः

१२.१९५.६निवर्तयित्वा रसनं रसेभ्यो; घ्राणं च गन्धाच्छ्रवणे च शब्दात्
स्पर्शात्तनुं रूपगुणात्तु चक्षु;स्ततः परं पश्यति स्वं स्वभावम्

१२.१९५.७यतो गृहीत्वा हि करोति यच्च; यस्मिंश्च तामारभते प्रवृत्तिम्
यस्मिंश्च यद्येन च यश्च कर्ता; तत्कारणं तं समुपायमाहुः

१२.१९५.८यच्चाभिभूः साधकं व्यापकं च; यन्मन्त्रवच्छंस्यते चैव लोके
यः सर्वहेतुः परमार्थकारी; तत्कारणं कार्यमतो यदन्यत्

१२.१९५.९यथा च कश्चित्सुकृतैर्मनुष्यः; शुभाशुभं प्राप्नुतेऽथाविरोधात्
एवं शरीरेषु शुभाशुभेषु; स्वकर्मजैर्ज्ञानमिदं निबद्धम्

१२.१९५.१०यथा प्रदीपः पुरतः प्रदीप्तः; प्रकाशमन्यस्य करोति दीप्यन्
तथेह पञ्चेन्द्रियदीपवृक्षा; ज्ञानप्रदीप्ताः परवन्त एव

१२.१९५.११यथा हि राज्ञो बहवो ह्यमात्याः; पृथक्प्रमानं प्रवदन्ति युक्ताः
तद्वच्छरीरेषु भवन्ति पञ्च; ज्ञानैकदेशः परमः स तेभ्यः

१२.१९५.१२यथार्चिषोऽग्नेः पवनस्य वेगा; मरीचयोऽर्कस्य नदीषु चापः
गच्छन्ति चायान्ति च तन्यमाना;स्तद्वच्छरीराणि शरीरिणां तु

१२.१९५.१३यथा च कश्चित्परशुं गृहीत्वा; धूमं न पश्येज्ज्वलनं च काष्ठे
तद्वच्छरीरोदरपाणिपादं; छित्त्वा न पश्यन्ति ततो यदन्यत्

१२.१९५.१४तान्येव काष्ठानि यथा विमथ्य; धूमं च पश्येज्ज्वलनं च योगात्
तद्वत्सुबुद्धिः सममिन्द्रियत्वा;द्बुधः परं पश्यति स्वं स्वभावम्

१२.१९५.१५यथात्मनोऽङ्गं पतितं पृथिव्यां; स्वप्नान्तरे पश्यति चात्मनोऽन्यत्
श्रोत्रादियुक्तः सुमनाः सुबुद्धि;र्लिङ्गात्तथा गच्छति लिङ्गमन्यत्

१२.१९५.१६उत्पत्तिवृद्धिक्षयसंनिपातै;र्न युज्यतेऽसौ परमः शरीरी
अनेन लिङ्गेन तु लिङ्गमन्य;द्गच्छत्यदृष्टः प्रतिसंधियोगात्

१२.१९५.१७न चक्षुषा पश्यति रूपमात्मनो; न चापि संस्पर्शमुपैति किंचित्
न चापि तैः साधयतेऽथ कार्यं; ते तं न पश्यन्ति स पश्यते तान्

१२.१९५.१८यथा प्रदीपे ज्वलतोऽनलस्य; संतापजं रूपमुपैति किंचित्
न चान्तरं रूपगुणं बिभर्ति; तथैव तद्दृश्यते रूपमस्य

१२.१९५.१९यथा मनुष्यः परिमुच्य काय;मदृश्यमन्यद्विशते शरीरम्
विसृज्य भूतेषु महत्सु देहं; तदाश्रयं चैव बिभर्ति रूपम्

१२.१९५.२०खं वायुमग्निं सलिलं तथोर्वीं; समन्ततोऽभ्याविशते शरीरी
नानाश्रयाः कर्मसु वर्तमानाः; श्रोत्रादयः पञ्च गुणाञ्श्रयन्ते

१२.१९५.२१श्रोत्रं खतो घ्राणमथो पृथिव्या;स्तेजोमयं रूपमथो विपाकः
जलाश्रयः स्वेद उक्तो रसश्च; वाय्वात्मकः स्पर्शकृतो गुणश्च

१२.१९५.२२महत्सु भूतेषु वसन्ति पञ्च; पञ्चेन्द्रियार्थाश्च तथेन्द्रियेषु
सर्वाणि चैतानि मनोनुगानि; बुद्धिं मनोऽन्वेति मनः स्वभावम्

१२.१९५.२३शुभाशुभं कर्म कृतं यदस्य; तदेव प्रत्याददते स्वदेहे
मनोऽनुवर्तन्ति परावराणि; जलौकसः स्रोत इवानुकूलम्

१२.१९५.२४चलं यथा दृष्टिपथं परैति; सूक्ष्मं महद्रूपमिवाभिपाति
स्वरूपमालोचयते च रूपं; परं तथा बुद्धिपथं परैति