१२. शान्तिपर्व
१२.१९६.१मनुरुवाच

१२.१९६.२यदिन्द्रियैस्तूपकृतान्पुरस्ता;त्प्राप्तान्गुणान्संस्मरते चिराय
तेष्विन्द्रियेषूपहतेषु पश्चा;त्स बुद्धिरूपः परमः स्वभावः

१२.१९६.३यथेन्द्रियार्थान्युगपत्समस्ता;न्नावेक्षते कृत्स्नमतुल्यकालम्
यथाबलं संचरते स विद्वां;स्तस्मात्स एकः परमः शरीरी

१२.१९६.४रजस्तमः सत्त्वमथो तृतीयं; गच्छत्यसौ ज्ञानगुणान्विरूपान्
तथेन्द्रियाण्याविशते शरीरी; हुताशनं वायुरिवेन्धनस्थम्

१२.१९६.५न चक्षुषा पश्यति रूपमात्मनो; न पश्यति स्पर्शनमिन्द्रियेन्द्रियम्
न श्रोत्रलिङ्गं श्रवणे निदर्शनं; तथागतं पश्यति तद्विनश्यति

१२.१९६.६श्रोत्रादीनि न पश्यन्ति स्वं स्वमात्मानमात्मना
सर्वज्ञः सर्वदर्शी च क्षेत्रज्ञस्तानि पश्यति

१२.१९६.७यथा हिमवतः पार्श्वं पृष्ठं चन्द्रमसो यथा
न दृष्टपूर्वं मनुजैर्न च तन्नास्ति तावता

१२.१९६.८तद्वद्भूतेषु भूतात्मा सूक्ष्मो ज्ञानात्मवानसौ
अदृष्टपूर्वश्चक्षुर्भ्यां न चासौ नास्ति तावता

१२.१९६.९पश्यन्नपि यथा लक्ष्म जगत्सोमे न विन्दति
एवमस्ति न वेत्येतन्न च तन्न परायणम्

१२.१९६.१०रूपवन्तमरूपत्वादुदयास्तमये बुधाः
धिया समनुपश्यन्ति तद्गताः सवितुर्गतिम्

१२.१९६.११तथा बुद्धिप्रदीपेन दूरस्थं सुविपश्चितः
प्रत्यासन्नं निनीषन्ति ज्ञेयं ज्ञानाभिसंहितम्

१२.१९६.१२न हि खल्वनुपायेन कश्चिदर्थोऽभिसिध्यति
सूत्रजालैर्यथा मत्स्यान्बध्नन्ति जलजीविनः

१२.१९६.१३मृगैर्मृगाणां ग्रहणं पक्षिणां पक्षिभिर्यथा
गजानां च गजैरेवं ज्ञेयं ज्ञानेन गृह्यते

१२.१९६.१४अहिरेव ह्यहेः पादान्पश्यतीति निदर्शनम्
तद्वन्मूर्तिषु मूर्तिष्ठं ज्ञेयं ज्ञानेन पश्यति

१२.१९६.१५नोत्सहन्ते यथा वेत्तुमिन्द्रियैरिन्द्रियाण्यपि
तथैवेह परा बुद्धिः परं बुद्ध्या न पश्यति

१२.१९६.१६यथा चन्द्रो ह्यमावास्यामलिङ्गत्वान्न दृश्यते
न च नाशोऽस्य भवति तथा विद्धि शरीरिणम्

१२.१९६.१७क्षीणकोशो ह्यमावास्यां चन्द्रमा न प्रकाशते
तद्वन्मूर्तिवियुक्तः सञ्शरीरी नोपलभ्यते

१२.१९६.१८यथा कोशान्तरं प्राप्य चन्द्रमा भ्राजते पुनः
तद्वल्लिङ्गान्तरं प्राप्य शरीरी भ्राजते पुनः

१२.१९६.१९जन्मवृद्धिक्षयश्चास्य प्रत्यक्षेणोपलभ्यते
सा तु चन्द्रमसो व्यक्तिर्न तु तस्य शरीरिणः

१२.१९६.२०उत्पत्तिवृद्धिव्ययतो यथा स इति गृह्यते
चन्द्र एव त्वमावास्यां तथा भवति मूर्तिमान्

१२.१९६.२१नाभिसर्पद्विमुञ्चद्वा शशिनं दृश्यते तमः
विसृजंश्चोपसर्पंश्च तद्वत्पश्य शरीरिणम्

१२.१९६.२२यथा चन्द्रार्कसंयुक्तं तमस्तदुपलभ्यते
तद्वच्छरीरसंयुक्तः शरीरीत्युपलभ्यते

१२.१९६.२३यथा चन्द्रार्कनिर्मुक्तः स राहुर्नोपलभ्यते
तद्वच्छरीरनिर्मुक्तः शरीरी नोपलभ्यते

१२.१९६.२४यथा चन्द्रो ह्यमावास्यां नक्षत्रैर्युज्यते गतः
तद्वच्छरीरनिर्मुक्तः फलैर्युज्यति कर्मणः